भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.193

6.193.1

चमत्कुर्वन्त्य् अथात्रार्था आवर्ता इव वारिणि ।
एतच् च भावास् सकला यथा वारि तरङ्गकाः ॥

6.193.2

सर्वस्यैवास्य विश्वस्य निर्ज्ञेयज्ञानरूपिणी ।
परमाकाशता रूपं किं परोपशमश्रमः ॥

6.193.3

बालचिन्तापुरं व्योम्नि न किञ्चिद् अपि मे यथा ।
तथेदं तत्त्वतो विश्वं सत्यं तु शिशुचेतसि ॥

6.193.4

अरूपालोकमननं शिलापुत्रकसैन्यवत् ।
रूपालोकमनस्कारा भान्ति केवात्र विश्वता ॥

6.193.5

रूपालोकमनस्कारसारो विन्मात्रतां विना ।
न लभ्यते सा च परं व्योमैवात्र क्व विश्वता ॥

6.193.6

विदो वित्त्वं जगद्भ्रान्तिर् अवित्त्वं तु न विभ्रमः ।
वित्त्वावित्त्वे तदायत्ते चिन्ताचिन्ते यथा तव ॥

6.193.7

परमाकाशरूपत्वाच् चिद्व्योम्नो वितताकृतेः ।
न स्वभावविपर्यासẖ कश्चित् सम्भवति क्वचित् ॥

6.193.8

तन्मयस्यास्य विश्वस्य न स्वभावविकारिता ।
विद्यते प्रेक्ष्यमाणापि किम् उ सास्य भविष्यति ॥

6.193.9

सर्वं चिद्व्योम चैवेदं न सत् त्वम् अहम् इत्य् अपि ।
विकाराद्य् अपि न ज्ञप्ताव् अज्ञप्तिं न लभे क्वचित् ॥

6.193.10

सर्वं शान्तं शिवं शुद्धं त्वमहन्तादिविभ्रमम् ।
न किञ्चिद् अपि पश्यामि व्योमजं काननं यथा ॥

6.193.11

संविदाकाशशून्यत्वं यत् तद् विद्धि वचो मम ।
इदं त्वत्संविदाकाशे स्वयम् आत्मनि तिष्ठति ॥

6.193.12

परम् आहुḫ पदं सद् यद् अनिच्छोदयम् आसितम् ।
पाषाणपुरुषस्येव चित्रस्थस्येव वासनम् ॥

6.193.13

स विश्रान्तमना मौनी यस्य प्रकृतकर्मसु ।
स्पन्दो दारुमयस्येव विगतेच्छम् अनाकुलम् ॥

6.193.14

अन्तश्शून्यं बहिश्शून्यं विरसं गतवासनम् ।
जरद्वेणोर् इव ज्ञस्य जीवतो भाति जीवितम् ॥

6.193.15

यस्मै न स्वदते दृश्यम् अदृश्यं स्वदते हृदि ।
सबाह्याभ्यन्तरं शान्तस् स उत्तीर्णो भवार्णवात् ॥

6.193.16

उच्यन्तां शब्दजालानि वंशवद् गतवासनम् ।
रसेनानङ्गलग्नेन प्रकृतान्य् अन्यचोदनैः ॥

6.193.17

स्पृश्यन्तां स्पर्शनीयानि यथाप्राप्तान्य् अवासनम् ।
कूटागारवद् अक्षुब्धम् अनिच्छमननोदयम् ॥

6.193.18

स्वाद्यन्तां रसजालानि विगतेच्छाभयैषणम् ।
अपगर्वाभिलषणं यथाप्राप्तानि दर्विवत् ॥

6.193.19

दृश्यन्तां रूपजातानि पुरḫ प्राप्तान्य् अवासनम् ।
अरसं निर्मनोमानम् अगर्धं चित्रनेत्रवत् ॥

6.193.20

शिङ्घ्यन्तां गन्धपुष्पाणि विगतेच्छम् अवासनम् ।
स्पन्दवत्त्वे ऽपि लग्नानि त्यागाय वनवातवत् ॥

6.193.21

इति चेद् विरसत्वेन बोधयित्वा चिकित्सिताः ।
न भोगरोगास् तद् दुẖखशान्त्यै नास्ति कथैव वः ॥

6.193.22

यस् स्वादयन् भोगविषं रतिम् एति दिने दिने ।
सो ऽग्नौ स्वमूर्ध्नि ज्वलिते कक्षम् अक्षयम् उज्झति ॥

6.193.23

निरिच्छत्वं समाधानम् आहुर् आगमभूषणाः ।
यथा शाम्येन् मनो ऽनिच्छं नोपभोगशतैर् अपि ॥

6.193.24

इच्छोदयो यथा दुẖखम् इच्छाशान्तिर् यथा सुखम् ।
तथा न नरके नापि ब्रह्मलोके ऽनुभूयते ॥

6.193.25

इच्छामात्रं विदुश् चित्तं तच्छान्तिर् मोक्ष उच्यते ।
एतावन्त्य् एव शास्त्राणि तपांसि नियमा यमाः ॥

6.193.26

यावती यावती जन्तोर् इच्छोदेति यथा यथा ।
तावती तावती दुẖखबीजमुष्टिḫ प्ररोहति ॥

6.193.27

यथा यथेच्छास् तनुतां यान्ति जन्तोर् विवेकतः ।
तथा तथोपशाम्यन्ति दुẖखचिन्ताविषूचिकाः ॥

6.193.28

यथा यथेच्छा घनतां यान्ति लोकस्य रागिणः ।
तथा तथा विवर्तन्ते दुẖखचिन्ताविषोर्मयः ॥

6.193.29

इच्छा चिकित्स्यते व्याधिर् न स्वयत्नौषधेन चेत् ।
तद् अत्र बलवन् मन्ये विद्यते नौषधान्तरम् ॥

6.193.30

इच्छोपशमनं कर्तुं यदि कृत्स्नं न शक्यते ।
स्वल्पम् अप्य् अनुगन्तव्यं मार्गस्थो नावसीदति ॥

6.193.31

यस् त्व् इच्छातानवे यत्नं न करोति नराधमः ।
सो ऽन्धकूपे स्वम् आत्मानं दिनानुदिनम् उज्झति ॥

6.193.32

दुẖखप्रसवशालिन्या बीजम् इच्छैव संसृतेः ।
सम्यग्ज्ञानाग्निदग्धा सा न भूयḫ परिरोहति ॥

6.193.33

इच्छामात्रं हि संसारो निर्वाणं तदवेदनम् ।
इच्छानुत्पादने यत्नẖ क्रियतां किं वृथाभ्रमैः ॥

6.193.34

शास्त्रोपदेशगुरवḫ प्रेक्ष्यन्ते किम् अनर्थकम् ।
किम् इच्छाननुसन्धानसमाधिर् नाधिगम्यते ॥

6.193.35

यस्येच्छाननुसन्धानमात्रे दुस्साधतामतेः ।
गुरूपदेशशास्त्रादि तस्य नूनम् अनर्थकम् ॥

6.193.36

इच्छाविषविकारिण्या सत्तयैव नृणाम् अलम् ।
दुẖखप्रसवकारिण्या हारिण्या जन्मजङ्गले ॥

6.193.37

न वालीक्रियते ऽन्येषाम् आत्मज्ञानाय चेद् असौ ।
इच्छोपशान्तिẖ क्रियतां तयालं तद् अवाप्यते ॥

6.193.38

निरिच्छतैव निर्वाणं सेच्छतैव हि बन्धनम् ।
यथाशक्ति जयेद् इच्छां किम् एतावति दुष्करम् ॥

6.193.39

जरामरणजन्मादिकरञ्जखदिरावलेः ।
बीजम् इच्छाशु सैवान्तर् दह्यतां शमवह्निना ॥

6.193.40

यतो यतो निरिच्छत्वं मुक्ततैव ततस् ततः ।
यावद्गति यथाप्राणं हन्याद् इच्छां समुत्थिताम् ॥

6.193.41

यतो यतश् च सेच्छत्वं बन्धपाशास् ततस् ततः ।
पुण्यपापमया दुẖखराशयो विततार्तयः ॥

6.193.42

इच्छानिरासरहिते गते साधोẖ क्षणे ऽपि च ।
दस्युभिर् मुषितस्येव युक्तम् आक्रन्दितं चिरम् ॥

6.193.43

यथा यथास्य पुंसो ऽन्तर् इच्छा समुपशाम्यति ।
तथा तथास्य कल्याणं मोक्षाय परिवर्धते ॥

6.193.44

आत्मनो निर्विवेकस्य यद् इच्छापरिपूरणम् ।
संसारविषवृक्षस्य तद् एव परिषेचनम् ॥

6.193.45

हृद्वृक्षजास् स्वसुखदुẖखकुबीजकोश्यो वैराद् इवाशयकृताद् अशुभाच् छुभाच् च ।
आसाद्य दुष्कृतकृशानुशिखाश् शितान्ता इच्छाश् छमच्छमिति पुंस्पशुम् आदहन्ति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc