मोक्षोपाय · अध्याय 6.192
देशाद् देशान्तरं दूरं प्राप्तायास् संविदẖ क्षणात् ।
यद् रूपम् अमलं मध्ये तद् रूपं परमात्मनः ॥
गच्छञ् शृण्वन् स्पृशञ् जिघ्रन्न् उन्मिषन् निमिषन् हसन् ।
नूनं निरामयत्वाय नित्यम् एतन्मयो भव ॥
तत एव निराभासात् सत्यान् निर्वासनैषणात् ।
यथास्थितं यथाचारं मा चलामरशैलवत् ॥
एतद् रूपम् अविद्यायाḫ प्रेक्षिता यन् न लभ्यते ।
प्रेक्षिता लभ्यते चेत् सा तद् विद्यैव परा भवेत् ॥
अविद्यासम्भवाच् चेत्यचित्त्वे ऽसम्भवतẖ क्वचित् ।
चेत्यते कथम् एवातश् शान्तिर् एव बलोदिता ॥
सत्यं ब्रह्म जगच् चैकं स्थितम् एकम् अनेकवत् ।
सर्वं चासर्ववद् भाति शुद्धं चाशुद्धवत् ततम् ॥
अशून्यं शून्यम् इव च शून्यं चाशून्यवत् स्फुटम् ।
स्फारम् अस्फारम् इव तद् अस्फारं स्फारसन्निभम् ॥
अविकारं विकारीव समं शान्तम् अशान्तवत् ।
सद् एवासद् इवादृश्यं तद् एवातद् इवोदितम् ॥
अविभागं विभागीव निर्जाड्यं जडवद् गतम् ।
अचेत्यं चेत्यभावीव निरंशं सांशशोभनम् ॥
अनहं साहम् इव तद् अनाशम् अपि नाशवत् ।
अकलङ्कं कलङ्कीव निर्वेद्यं वेद्यवाहि तत् ॥
आलोकि ध्वान्तघनवन् नववच् च पुरातनम् ।
परमाणोर् अपि तनु गर्भीकृतजगद्गणम् ॥
सर्वात्मकम् अपि व्यक्तं दृष्टं कृच्छ्रेण भूयसा ।
अजालम् अपि जालाढ्यं दाशेशवद् अनेकधा ॥
निर्मायम् अपि मायांशुमण्डलामलभास्करम् ।
ब्रह्म विद्धि विदां नाथम् अपाम् इव महोदधिम् ॥
जगद्रत्नमहाकोशं तुलायां तूलकाल् लघु ।
मायामरीचिशशिनम् अपि नेक्षणगोचरम् ॥
अनन्तम् अपि निष्पारं न च क्वचिद् अपि स्थितम् ।
आकाशे वनविन्यासनगनिर्माणतत्परम् ॥
अणीयसाम् अणीयस् तत् स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसाम् अपि ॥
अकर्तृकर्मकरणम् अकारणम् अकारकम् ।
अन्तश्शून्यतयैवैतच् चिराय परिपूरितम् ॥
जगत्समुद्गकम् अपि नित्यं शून्यम् अरण्यवत् ।
अनन्तशैलकठिनम् अप्य् आकाशलवान् मृदु ॥
प्रत्येकं प्रत्यहं प्रायḫ पुराणं पेलवं नवम् ।
आलोकम् अन्धकाराभं तमस् त्व् आलोकम् आततम् ॥
प्रत्यक्षम् अपि दुर्लक्ष्यं परोक्षम् अपि चाग्रगम् ।
चिद्रूपम् एव च जडं जडम् एव चिदात्मकम् ॥
अहम् एवानहम्भावम् अनहं चाहम् एव च ।
अन्यद् एव तद् एवाहम् अहम् एवान्यद् एव तत् ॥
अस्य पूर्णार्णवस्यान्तर् इमे त्रिभुवनोर्मयः ।
स्फुरन्त इव तिष्ठन्ति स्वभावद्रवतात्मकाः ॥
बिभर्ति सर्गम् अङ्गस्थं तुषारम् इव शुक्लताम् ।
भाति सर्गस् त्व् अनेनैव तुषारेणेव शुक्लता ॥
अदेशकालावयवो ऽप्य् एष देवो दिवानिशम् ।
असज् जगत् तनोतीव यथा वारि तरङ्गकम् ॥
एतस्मिन् विकसन्त्य् एता विपुलाकाशकानने ।
जगज्जरढमञ्जर्यḫ प्रसरत्पत्त्रपञ्चकाः ॥
एष स्वप्रतिबिम्बस्य स्वयमालोकनेच्छया ।
अत्यन्तनिर्मलाकारस् स्वयं मकुरतां गतः ॥
व्योमवृक्षफलस्यास्य स्वेच्छाच्छर्द्धय उज्ज्वलाः ।
सर्गोपलम्भसुस्वाद्व्यश् चमत्कुर्वन्ति संविदि ॥
अन्तस्त्वेन बहिष्ट्वेन नानानानातयात्मनि ।
एष सो ऽन्तर् बहिर् भाति भावाभावविभावया ॥
एतद्रूपा पदार्थश्रीर् एतस्मिन्न् एतदिच्छया ।
चमत्करोत्य् एतदर्थं जिह्वेव स्वास्यकोटरे ॥
अस्याम्भसो द्रवत्वं यत् तद् इदं जगद् उच्यते ।
संवित्स्वादूपलम्भाङ्गं भुवनावर्तवृत्तिमत् ॥
शाम्यत्य् अत्र पदार्थश्रीस् सर्वा यामेव भास्वति ।
एतस्माद् एव चोदेति स्वालोक इव तेजसः ॥
इदम् एष जगत् सर्वं शुक्लत्वं तुहिनं यथा ।
अत एताḫ प्रवर्तन्ते विद इन्दोर् इवांशवः ॥
एतस्माद् अङ्गतो रङ्गाज् जगच् चित्रम् इदं स्थितम् ।
विद्ध्य् अभावविकारादि शान्तम् एतन्मयं ततम् ॥
अस्माद् वरतरोर् एतास् स्वारूढाद् गगनाङ्गने ।
दृश्यशाखाḫ प्रवर्तन्ते जगज्जालगुलुच्छकाः ॥
व्ययोदयवती नूनम् अत्र दृश्यतरङ्गिणी ।
नानातानन्तकुसुमा वहत्य् अविचलाचले ॥
अस्मिन् व्योमात्मके रङ्गे भुवनाभिनयभ्रमैः ।
नृत्यत्य् अविरतारम्भं चारैर् नियतिनर्तकी ॥
जगत्क्रीडो महाकल्पकल्पोन्मेषनिमेषणः ।
विदानेनाद्यते भूयो जन्यते कालबालकः ॥
उद्यत्स्व् अपि जगत्स्व् एष शान्तम् एवावतिष्ठते ।
अनिच्छ एव मकुरḫ प्रतिबिम्बगतेष्व् इव ॥
भूतानां वर्तमानानां सर्गाणां स भविष्यताम् ।
एषो ऽकारणकं बीजम् अगानाम् इव काननम् ॥
अस्योन्मेषो जगल्लक्ष्मीर् निमेषḫ प्रलयागमः ।
अनुन्मेषनिमेषो ऽसाव् आत्मन्य् एवावतिष्ठते ॥
उद्यन्त्य् अमूनि सुबहूनि महामहांसि सर्गागमप्रलयजन्मदशाजगन्ति ।
सर्वाणि तान्य् अयम् अपारखरूप एव प्रस्पन्दनानि मरुद् एव यथास्स्व शान्तम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0