मोक्षोपाय · अध्याय 6.191
प्राप्तेषु सुखदुẖखेषु यो नश्यति स नश्यति ।
यो न नश्यत्य् अनाशो ऽसाव् अलं शास्त्रोपदेशनैः ॥
यस्य वेच्छोदयस् तस्य सन्त्य् अवश्यं सुखादयः ।
ते चेत् साम्याच् चिकित्स्यन्ते पूर्वम् इच्छैव सोह्यताम् ॥
अहं जगद् इति भ्रान्ती न स्त एव परे पदे ।
इदं शान्तम् अनालम्बं सर्वं निर्वाणम् अव्ययम् ॥
अहं ब्रह्म जगच् चेति शब्दसन्दर्भविभ्रमः ।
सर्वस्मिञ् शान्त आकाशे केन नामोपकल्पितः ॥
नेहास्त्य् अहं न च जगन् न च ब्रह्मादिशब्दकाः ।
शान्तस्यैकस्य सर्वत्वात् कर्ता भोक्तेह कẖ कुतः ॥
उपदेशातिशायित्वात् सर्वापह्नव एव यः ।
कृतो ऽयं स च सत्यात्मा स एवेहावशिष्यते ॥
अग्रस्थसिद्धसञ्चारो ज्ञायते नापि दारुणः ।
यथैकपार्श्वसंसुप्तनरस्वप्नाभ्रगर्जितम् ॥
ज्ञप्तौ नास्ति यतस् तेन सिद्धाचारो न लक्ष्यते ।
स्वभाव इति सर्वेण ज्ञप्तिस्थो ह्य् अनुभूयते ॥
ज्ञप्तिर् अप्य् आत्मभूतैव सर्वं भाति हि तन्मयम् ।
तस्मात् साहं जगत् सर्वम् अभिन्नं परमात्मनः ॥
ज्ञप्तिर् जगत्तया भाति सङ्कल्पस्वप्नयोर् इव ।
अनानावयवोदेति जलम् ऊर्मितया यथा ॥
एकात्मैवोदयो ज्ञप्तेर् नानाताम् इव वो गतः ।
अज्ञानात् सा त्व् अवस्तुत्वात् प्रेक्षिता नोपलभ्यते ॥
यथा स्वावयवा एव सर्वो ह्य् अवयवी भवेत् ।
नित्यानवयवं शान्तं ब्रह्मैवेदं तथा जगत् ॥
भाण्डलक्षाणि धत्ते ऽन्तश् चिद्रूपकनकेष्टका ।
यद् एव सा चेतयते जगदादीव वेत्ति तत् ॥
ब्रह्मैव कचतीवेदं सत् तयाच्छं जगत्तया ।
चिद्रूपत्वाद् द्रवात्मत्वात् तरङ्गादितयाम्ब्व् इव ॥
यद् यच् चेतयते ऽन्तस् तज् जगदादीव पश्यति ।
अरूपम् अपि रूपं स्वं यन् न चेतयते न तत् ॥
चेतनाचेतनत्वोक्ती तस्येशत्वात् स्वदेहगे ।
उपदेशार्थम् एवोक्ते न सद्विषयम् अर्थतः ॥
न जगत् सन् न चैवासद् भासते चेतनाच् चिति ।
अचेतनान् न कचति क इवात्र ग्रहो हि नः ॥
अचेतनं चेतनं च स्पन्दास्पन्दवद् आत्मनः ।
स्वायत्ते न कदर्थस्थे स्वस्थं पाषाणवत् स्थिते ॥
यस्येक्षितस्य नो सत्ता नाधारो न च कारणम् ।
सो ऽहम् इत्य् एव वो यक्षो न जाने कुत उत्थितः ॥
यस्याहम् इति यक्षस्य सत्तैवास्ति न सत्यतः ।
अहो नु चित्रं तेनेमे भवन्तो विवशीकृताः ॥
काकतालीयवद् भ्रान्तम् अहं ब्रह्मणि भासते ।
स्वम् एव रूपं दृग्भ्रान्तौ केशोण्डुकम् इवाम्बरे ॥
ब्रह्मैवाहं जगच् चात्र कुतो नाशसमुद्भवौ ।
अतो हर्षविषादानां किं क्वेव कथम् आस्पदम् ॥
सर्वेश्वरत्वाद् ईशस्य विभातीदं प्रचेतितम् ।
अचेतितं च नो भाति तेनाचेतितम् अस्तु ते ॥
काकतालीयवच् चित्त्वाज् जगद्वद् भाति ब्रह्मखम् ।
स्वप्नसङ्कल्पपुरवत् तत् तस्माद् भिद्यते कथम् ॥
यथोर्म्यादि जले वृक्षे वा यथा सालभञ्जिका ।
यथा घटादयो भूमौ तथा ब्रह्मणि सर्गताः ॥
अनाकृताव् असंस्थाने स्वच्छे यद् अनुभूयते ।
तत् तद् एवात उदितं किं नामाहं जगन्ति किम् ॥
मरुतस् स्पन्दवैचित्र्यं सत्तयैव यथा तथा ।
ब्रह्मणो निस्स्वभावस्य जगदाद्य् अहमादि च ॥
यथाभ्रे लक्ष्यते वृक्षगजवाजिमृगादिता ।
असन्निवेशाकृतिनि सर्गाहन्त्वे तथा परे ॥
सर्गो ऽवयववद् भाति परे ऽनवयवे शिवे ।
एवं तदुपमं विद्धि कार्यकारणवद् यथा ॥
अतश् शान्तम् अनायासं निरुपाधि गतभ्रमम् ।
जगतो ऽसम्भवाद् एव व्योमवत् समम् आस्यताम् ॥
न भवन्तो न च वयं न जगन्ति न खादयः ।
सन्ति शान्तम् अशेषेण ब्रह्मेदं निर्भरं स्थितम् ॥
अशेषेष्व् अविशेषेषु शान्ताशेषविशेषता ।
सत्या सैवाहम् इत्य् आशु त्यक्त्वा मोक्षाय भाव्यताम् ॥
वेदनं बन्धनं विद्धि विद्धि मोक्षम् अवेदनम् ।
यथास्थितं यथाचारं भव शान्तम् अवेदनम् ॥
द्रष्टा न दृश्यतां याति चितिर् नायाति चेत्यताम् ।
चेत्याभावाद् अजगति कẖ किं चेतयतां कथम् ॥
द्रष्टृदृश्यदशाभावाज् जाग्रत्य् एव सुषुप्तवत् ।
शरदाकाशकोशाभम् असत्तोपमम् आस्यताम् ॥
तथैकं ब्रह्म चिद्रूपे पवनस् स्पन्दने यथा ।
अत्र चिद्बोधता सर्गो मोक्षो ब्रह्मैकबोधता ॥
चित्स्पन्दो ब्रह्ममरुतो यस् स सर्ग इति स्मृतः ।
नात्र चित्स्पन्दनं यत् स्यान् निर्वाणं तद् उदाहृतम् ॥
बीजम् अन्तर् यथा वेत्ति स्वं रूपं पल्लवादिकम् ।
तथा महाचिद् अन्तस्स्थं स्वं रूपं वेत्ति सर्गताम् ॥
पत्त्रादिवेदनाद् बीजं यथा पत्त्रादि तिष्ठति ।
परा चित् सर्गसंवित्तेस् तथा भवति सर्गभाः ॥
यथा भावविकाराभाश् चित् परा सर्गभास् तथा ।
सर्वे बीजादिदृष्टान्तास् तद्रूपा एव तन्मयाः ॥
निर्विकारं परं ब्रह्ममयं सर्वम् इदं जगत् ।
निर्विकारम् अनाद्यन्तम् एवं विद्धि निरामयम् ॥
निजसङ्कल्पमात्रात्मा निजासङ्कल्पनात् क्षयी ।
द्वैताद्वैतविकारो ऽयं सङ्कल्पनगरं यथा ॥
शून्यत्वाकाशयोर् भेदो यादृशो ऽवगतस् त्वया ।
भेदं निरात्मकं विद्धि तादृशं ब्रह्मसर्गयोः ॥
महाचिद्रूपिणी शान्ता या सत्ता ब्रह्मणḫ परा ।
खता सेयम् अहं त्वं च मा नरो ऽस्मीत्य् अधो व्रज ॥
ब्रह्मण्य् अस्मिञ् जगद्रूपे न किञ्चिद् अपि जायते ।
जातम् अप्य् अथ नष्टं च न नश्यत्य् अम्बुवीचिवत् ॥
पदार्थं ब्रह्मरूपेण ब्रह्मैवात्मनि तिष्ठति ।
अवयवीवावयवे खे खं वारीव वारिणि ॥
निमेषार्धार्धभागेन देशाद् देशान्तरस्थितौ ।
यद् रूपं संविदो मध्ये स स्वभाव उपास्यताम् ॥
सङ्क्षुब्धम् अक्षुब्धम् इति द्विरूपं संवित्स्वरूपं प्रवदन्ति सन्तः ।
श्रेयḫ परं येन समीहसे त्वं तदेकनिष्ठो भव मामतिर् भूः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0