भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.190

6.190.1

स्वपौरुषेण स्वधिया सत्सङ्गमविकासया ।
यदि नानीयते ज्ञत्वं तद् उपायो ऽस्ति नेतरः ॥

6.190.2

अकल्पितं कल्पितं च प्रतिकल्पनया स्वया ।
तद् एवान्यत्वम् आदत्ते विषत्वम् अमृतं यथा ॥

6.190.3

कल्पना चाकल्पनान्ता मुक्तता त्यक्तकल्पनम् ।
एतच् च भोगसन्त्यागपूर्वं सिध्यति नान्यथा ॥

6.190.4

वचसा मनसा चान्तश् शब्दार्थाव् अविभावयन् ।
य आस्ते वर्धते तस्य कल्पनोपशमश् शनैः ॥

6.190.5

वर्जयित्वाहम् इत्य् एव नाविद्यास्तीतरात्मिका ।
शान्ते त्व् अभावनाद् अस्मिन् नान्यो मोक्षो ऽस्ति कश्चन ॥

6.190.6

अहम्भावम् अथादेहं किञ्चिच् छ्रयसि नश्यसि ।
जगदादौ चिरं तस्मिंस् त्यक्ते शाम्यसि सिध्यसि ॥

6.190.7

अचेतनाद् इदं सर्वं सद् एवासद् इव स्थितम् ।
शान्तं यस्योपलस्येव नमस् तस्मै महात्मने ॥

6.190.8

अचेतनाद् इदं सर्वम् उपलस्येव शाम्यति ।
शून्याख्यान्तḫ परालीनचित्तस्याचित्तभावनात् ॥

6.190.9

इदम् अस्त्व् अथ वा मास्तु चेतितं दुẖखवृद्धये ।
अचेतितं सुखायान्तर् अचेतनम् अचेतनात् ॥

6.190.10

द्वौ व्याधी देहिनो घोराव् अयं लोकस् तथा परः ।
याभ्यां घोराणि दुẖखानि भुङ्क्ते सर्वत्र पीडितः ॥

6.190.11

इहलोके यतन्ते ऽज्ञा व्याधौ भोगदुरौषधैः ।
आजीवितं यथाशक्ति चिकित्सा नापरामये ॥

6.190.12

परलोकमहाव्याधौ प्रयतन्ते चिकित्सितुम् ।
शमसत्सङ्गबोधाद्यैर् अमृतैḫ पुरुषोत्तमाः ॥

6.190.13

परलोकचिकित्सायां सावधाना भवन्ति ये ।
मोक्षमार्गमहेच्छायां शमयुक्त्या जयन्ति ते ॥

6.190.14

इहैव नरकव्याधेश् चिकित्सां न करोति यः ।
गत्वा निरौषधं स्थानं स रोगी किं करिष्यति ॥

6.190.15

इहलोकचिकित्साभिर् जीवितं यातु मा क्षयम् ।
आत्मज्ञतौषधैर् अज्ञाḫ परलोकश् चिकित्स्यताम् ॥

6.190.16

आयुर् वायुचलत्पत्त्रलम्बाम्बुकणभङ्गुरम् ।
परलोकमहाव्याधिर् यत्नेनाशु चिकित्स्यताम् ॥

6.190.17

परलोकमहाव्याधौ यत्नेनाशु चिकित्सिते ।
दृष्टलोकमयो व्याधिस् स्वयम् आशूपशाम्यति ॥

6.190.18

संविन्मात्रं विदुर् जन्तुं तस्य प्रसरणं जगत् ।
परमाणूदरे ऽप्य् अस्ति तच् छैलशतविस्तरम् ॥

6.190.19

यत् संविदḫ प्रसरणं रूपालोकमनांसि तत् ।
व्योमन्य् एवानुभूयन्ते नातस् सत्यो जगद्भ्रमः ॥

6.190.20

प्रलयेष्व् अपि दृष्टेषु जगद्दृश्याभ्रविभ्रमाः ।
न नश्यन्ति न जायन्ते भ्रान्तिमात्रैकरूपिणः ॥

6.190.21

भोगपङ्कार्णवे मग्न आत्मा नोत्तार्यते यदि ।
स्वपौरुषचमत्कृत्या तद् उपायो ऽस्ति नेतरः ॥

6.190.22

अजितात्मा जनो मूढो रूढो भोगैककर्दमे ।
आपदां पात्रताम् एति पयसाम् इव सागरः ॥

6.190.23

जीवितस्य यथा बाल्यं दृष्टं प्रथमकल्पितम् ।
निर्वाणस्य तथा भोगसन्त्यागो रागशान्तिदः ॥

6.190.24

तज्ज्ञस्य जीवितनदी सकल्लोलाप्य् असम्भ्रमा ।
समं वहति सोम्यैव चित्रसंस्थेव नीरसा ॥

6.190.25

अज्ञजीवितनद्यस् तु रसेनात्यन्तभीषणाः ।
आवर्तावृत्तिविक्षोभकल्लोलास् सहवाहिनः ॥

6.190.26

सर्गवेगाḫ प्रवल्गन्ति संवित्प्रसरलेशकाः ।
द्विचन्द्रबालवेतालमृगाम्बुस्वप्नमोहवत् ॥

6.190.27

संविद्वारितरङ्गौघा भान्ति सर्गास् सहस्रशः ।
विचारितास् त्व् असत्यास् ते सत्यास् त्व् अनुभवभ्रमात् ॥

6.190.28

जगन्त्य् आकाशकोशे ऽपि संवित्प्रसरणभ्रमात् ।
सन्तीवाप्य् अनुभूयन्ते न तु सत्यानि तानि हि ॥

6.190.29

संविद्विकासपयसो बुद्बुदस् सर्गविभ्रमः ।
अहम् इत्यादिसद्भावविकाराकाररूपवान् ॥

6.190.30

संविन्निर्वाणम् अजगत् संविदुन्मीलनं जगत् ।
नान्तर् न बाह्यं नासत्यं न सत्यं सर्वम् एव तत् ॥

6.190.31

चिद्रूपम् अजम् अव्यक्तम् एकम् अव्ययम् ईश्वरम् ।
स्वत्वभावत्वरहितं ब्रह्म शान्तात्म खाद् अपि ॥

6.190.32

ब्रह्मणो निस्स्वभावस्य सर्गसंवेदने स्वतः ।
स्पन्दने पवनस्येव कारणं नोपयुज्यते ॥

6.190.33

स्वप्नानुभववद् भान्ति ब्रह्माब्धौ ब्रह्मवीचयः ।
सर्गता वस्तुतस् त्व् अत्र न स्वप्नो न च सर्गता ॥

6.190.34

एकम् एव निराभासम् अचित्त्वम् अजडं समम् ।
न सन् नासन् न खं नाखम् इदम् अद्वयम् अव्ययम् ॥

6.190.35

यथास्थितस्यैव सतो यस्यासंवेदनात्मकम् ।
संवित्प्रशमनं जातं तम् आहुर् मुनिसत्तमम् ॥

6.190.36

सतो ऽपि मृण्मयस्येव यस्यासंवेदनात्मकम् ।
साहं जगद् विगलितं तम् आहुर् मुनिसत्तमम् ॥

6.190.37

यथा शाम्यत्य् असङ्कल्पात् सङ्कल्पनगरं तथा ।
वेदनोत्थं जगद् अहं चेति शाम्यत्य् अवेदनात् ॥

6.190.38

स्वभाववर्जं शब्दार्थास् सर्व एव सहेतुकाः ।
स्वभावस्य तु यो हेतुर् मुक्तेस् तद् अनुभावनम् ॥

6.190.39

न कस्यचित् पदार्थस्य स्वभावो ऽस्तीह कश्चन ।
महाचिदम्बुद्रवतास् सर्वा एवानुभूतयः ॥

6.190.40

महाचिदनिलस्पन्दा एता एवानुभूतयः ।
एतास् ता ब्रह्मगगनशून्यता इति बुध्यताम् ॥

6.190.41

वातस्पन्दाव् इवाभिन्नौ ब्रह्मसर्गौ विभिन्नता ।
तयोस् त्व् असत्या स्वभ्रान्तेस् स्वप्ने स्वमरणोपमा ॥

6.190.42

भ्रान्तिस् तु तावत् तत्त्वार्थविचारो यावद् अस्फुटः ।
विचारे तु स्फुटे भ्रान्तिर् ब्रह्मताम् एव गच्छति ॥

6.190.43

भ्रान्तिस् त्व् असत्यावस्त्व् एव प्रेक्षयातो न लभ्यते ।
शशशृङ्गवद् अत्यच्छम् अतो ब्रह्मैव शिष्यते ॥

6.190.44

अनादिमध्यान्तम् अनन्तम् अच्छं समं शिवं शाश्वतम् एकम् एव ।
सर्वां जरामोहविकारभारभ्रान्तिं विमुच्याम्बरभावम् एहि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc