भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.189

6.189.1

यदा चितिḫ प्रसरति तदाहन्ताजगद्भ्रमः ।
असद् एवाभ्युदेतीव स्पन्दाद् अप्स्व् इव दामता ॥

6.189.2

उदितो ऽपि न खेदाय ब्रह्मरूपत्ववेदनात् ।
परमाय त्व् अनर्थाय जगच्छब्दार्थभावनात् ॥

6.189.3

रूपानुभवम् आदत्ते चक्षुḫ प्रसरणाद् यथा ।
चितिḫ प्रसरणात् तद्वज् जाग्रद्विभ्रमम् आस्थिता ॥

6.189.4

मासौ प्रसरतु व्यर्थं चेत्याभावान् न सा सती ।
असत् कथं प्रसरति वन्ध्यापुत्रẖ क्व नृत्यति ॥

6.189.5

अयं त्व् अनुभवाद् एव मुधैवानुभवस् स्थितः ।
असद् एवाननुभवात् स्वयम् अर्भकयक्षवत् ॥

6.189.6

अयं भवामि दुẖखार्थम् अहम् इत्य् एव वेदनात् ।
अवेदनान् नाहम् अतस् स्वायत्ते बन्धमुक्तते ॥

6.189.7

तद् ध्यानं स समाधिर् वो यद् अवेदनम् आसितम् ।
अजडाणां जडम् इव समं शान्तम् अनामयम् ॥

6.189.8

द्वैताद्वैतसमुद्भेदैर् वाक्यसन्दर्भविभ्रमैः ।
मा विषीदत दुẖखाय विबुधा अबुधा इव ॥

6.189.9

असद् आश्रयते दुẖखं स्वप्नवद् घनवासनः ।
रूपालोकमनस्कारान् सङ्कल्परचितान् इव ॥

6.189.10

दुẖखं सद् एव नाश्नाति सुप्तवत् तनुवासनः ।
रूपालोकमनस्कारान् सङ्कल्परहितान् इव ॥

6.189.11

अत्यन्ततनुतां याता वासनैवैति मुक्तताम् ।
देशकालक्रियायोगात् पदार्थो ऽभावताम् इव ॥

6.189.12

अत्यन्ततनुतां याता वासनैवैति मुक्तताम् ।
पराणुपरिमाणेन खतां खे ऽभ्रादिता यथा ॥

6.189.13

अभावं भावना याति बोधेन घनतानवा ।
विपश्चित्सङ्गमाभ्यासात् पाण्डित्यम् इव मूढता ॥

6.189.14

नाहम् अस्मीति सद्युक्त्या निश्चयो ऽन्तश् शमात्मकः ।
जीवतो ऽजीवतश् चातिरूढो बोध इति स्मृतः ॥

6.189.15

वायौ स्पन्द इवात्रेदं जगदाद्य् अवभासते ।
को ऽहं कथम् इदं चेति विचारेणैव शाम्यति ॥

6.189.16

नाहम् इत्य् एव निर्वाणं किम् एतावति मूढता ।
सत्सङ्गमविचाराभ्याम् एतद् आश्व् अवगम्यते ॥

6.189.17

क्षीयते तत्त्ववित्सङ्गाद् अहम् इत्य् एव बन्धनम् ।
आलोकेनेव तिमिरं दिवसेनेव यामिनी ॥

6.189.18

को ऽहं कथम् इदं दृश्यं को जीवः किं च जीवनम् ।
इति तत्त्वज्ञसंयोगाद् यावज्जीवं विचारयेत् ॥

6.189.19

जीवितं भुवनं भाति तमो ऽहम् इति नश्यति ।
तत्त्वालोकेन तज्ज्ञार्कसेवनात् स निषेव्यताम् ॥

6.189.20

यो यो बोधातिशयवांस् तं तं पृथग् उपास्स्व भोः ।
सङ्गसङ्कथयोदेति तेषां वादपिशाचिका ॥

6.189.21

विवादयक्षे ऽभ्युदिते बालस्येव विपश्चितः ।
मुक्तिम् उक्ताम् अलं मुख्यम् उदेत्य् अहम् इति भ्रमः ॥

6.189.22

अतḫ प्रत्येकम् एकान्ते प्राज्ञस् सेवेत पण्डितम् ।
एकीकृत्य तदुक्तांस् तान् अर्थान् बुद्ध्या विचारयेत् ॥

6.189.23

विचारयेत् तदुक्त्यर्थं बुद्ध्या बुद्धिविवृद्धये ।
सर्वसङ्कल्पमुक्तं यत् तत् सत् तन्मयतां व्रजेत् ॥

6.189.24

विपश्चित्सङ्गमे बुद्धिं नीत्वा परमतीक्ष्णताम् ।
अज्ञानलतिका सैका कणशẖ क्रियताम् अलम् ॥

6.189.25

एषो ऽर्थस् सम्भवत्य् एव तेनेदं कथयाम्य् अहम् ।
अनुभूतं वयं बाला नासमञ्जसवेदिनः ॥

6.189.26

व्योम्नो ऽम्बुवाहादिविजृम्भयेव तरङ्गभङ्ग्येव महार्णवस्य ।
न युज्यते नापि च नश्यतीह नाशोदये निर्मननस्य किञ्चित् ॥

6.189.27

इदं हि सर्वं मृगतृष्णिकाम्बुवन् निरामये ब्रह्मणि शान्त आतते ।
विचारिते नाहम् इतीव विद्यते कुतẖ क्व कस्मान् मननादिविभ्रमः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc