मोक्षोपाय · अध्याय 6.188
सर्वात्मनि चिदाभासे तद् एवाश्व् अनुभूयते ।
संवेद्यते यद् एवान्तर् असत्यं सत्यवस्तु वा ॥
तद् एवाभ्यासतḫ पूर्वं बाह्यार्थानुभवात्मना ।
स्फुरत्य् एव बहिष्ट्वेन स्वस्वप्नो ऽत्र निदर्शनम् ॥
चिद्रूपं सर्वम् एतच् च चिच् चाच्छा गगनाद् अपि ।
विच् च नो किञ्चिद् एवातो नैतत् किञ्चन कुत्रचित् ॥
न नाशो नास्तिता नार्थो न जन्ममरणे न खम् ।
न शून्यतास्ति नो नास्ति सर्वं ब्रह्मैव नैव च ॥
नाशे जगदहन्त्वादेर् न किञ्चिद् अपि नश्यति ।
असतẖ किल नाशे ऽपि स्वप्नाद्रेẖ किं विनश्यति ॥
मिथ्यावभासे सङ्कल्पनगरे केव नष्टता ।
तथा जगदहन्त्वादौ नाशो नासति विद्यते ॥
कुतो जगदुपालम्भ इति चेत् तद् अवस्तुनि ।
न निर्णयस् सम्भवति खपुष्पाणां किम् उम्भ्यते ॥
निर्णयस् त्व् एष एवात्र यद् अशेषम् अभावयन् ।
यथास्थितं यथाचारं पाषाण इव तिष्ठसि ॥
जगत् सङ्कल्पमात्रात्म तन् नञर्थयुतं क्षणात् ।
शाम्यत्य् अशेषेणेत्य् एव निर्णयस् सर्गविभ्रमे ॥
सर्गो ऽनर्गल एवायं ब्रह्मात्मकतयाक्षयः ।
अन्यथापि न सर्गो ऽयम् अस्ति नास्ति च सर्गता ॥
येषां न विद्यते सर्गस् स्वप्नपुंसाम् इवासताम् ।
स सर्गḫ पुरुषास् ते च मृगतृष्णाम्बुवीचिवत् ॥
असताम् एव सद्भावम् इव चैषाम् उपेयुषाम् ।
न वयं निर्णयं विद्मो वन्ध्यापुत्रगिराम् इव ॥
परिपूर्णार्णवप्रख्या काप्य् अपूर्वैव पूर्णता ।
तज्ज्ञानां द्रष्टृदृश्यांशदृष्टौ न हि पतन्ति ते ॥
अचला इव निर्वाता दीपा इव शमाम्ब्व् इव ।
साचारा वा निराचारास् तिष्ठन्ति स्वस्थम् एव ते ॥
आपूर्णैकार्णवप्रख्या काप्य् अन्तḫपूर्णतोदिता ।
अन्तश्शीतलता ज्ञप्तिर् ज्ञस्यापूर्वैव लक्ष्यते ॥
वासनैवेह पुरुषḫ प्रेक्षिता सा न विद्यते ।
तां च न प्रेक्षते कश्चित् ततस् संसार आततः ॥
अनालोकनसिद्धं यत् तद् आलोकान् न विद्यते ।
कृष्णाह्यनुपलम्भो ऽत्र दृष्टान्तस् स्पष्टचेष्टितः ॥
भूतानि देहमांसादि तच् चासद्विभ्रमो जडः ।
बुद्ध्यहङ्कारचेतांसि तन्मयान्य् एव नेतरत् ॥
भूतादिमयतां त्यक्त्वा बुद्ध्यहङ्कारचेतसाम् ।
अत्यन्तं स्थितिर् अभ्येति यदि तन् मुक्ततोदिता ॥
चिच् छिष्टा चेत्यनिष्ठत्वात् तादृश्य् एवात्र कास्तिता ।
तस्मात् केव कुतẖ कुत्र वासना किंस्वरूपिणी ॥
यस्य चैष भ्रमस् सो ऽसन् प्रेक्षयासन् न लभ्यते ।
मृगतृष्णाम्बुवत् तेन संसारẖ कस्य कẖ कुतः ॥
तद् एवं तर्हि कस्य स्याद् इति चिन्तोदयो हि यः ।
पुनस् स एव संसारविभ्रमस् सम्प्रवर्तते ॥
तस्मात् सर्वम् अनाश्रित्य व्योमवत् समम् आस्यताम् ।
अपुनस्स्मरणं श्रेय इह विस्मरणं परम् ॥
नेह द्रष्टा न भोक्तास्ति नास्तिता न च नास्तिता ।
यथास्थितम् इदं शान्तम् एकं स्पन्दि सदाब्धिवत् ॥
सर्वं दृश्यं जगद् ब्रह्म सद् इत्य् अवगते स्फुटम् ।
जलशोषाद् इवोदेति बिम्बिबिम्बक्षये शिवम् ॥
शान्तता व्यवहारो वा रागद्वेषविवर्जितः ।
विश्रान्तस्य परे तत्त्वे दृश्यते समदर्शिनः ॥
अथ वा शान्ततैवास्य निर्वाणस्यावशिष्यते ।
निर्वासनẖ किल मुनिẖ कथं व्यवहरत्व् असौ ॥
यावत् त्व् अस्य न निर्वाणं परिपोषम् उपागतम् ।
तावद् व्यवहरत्य् अस्तरागद्वेषभयोदयः ॥
वीतरागभयक्रोधो निर्वाणश् शान्तमानसः ।
शिलेवाप्य् अशिलीभूतो मुनिर् आत्मनि तिष्ठति ॥
कोशे ऽस्ति पद्मबीजस्य यथा सर्वाब्जिनी तथा ।
अनन्या स्वप्नविभ्रान्तिर् आत्मन्य् अस्ति न बाह्यता ॥
बाह्यताभावनाद् बाह्यम् आत्मैवात्मत्वभावनात् ।
भवतीदं परे तत्त्वे भावनं तत् तद् एव हि ॥
यान्तस्स्वप्नादिविभ्रान्तिस् सैवेयं बाह्यतोदिता ।
मनाग् अप्य् अन्यता नात्र द्विभाण्डपयसोर् इव ॥
स्थैर्यास्थैर्ये तथैवात्र भ्रान्तिमात्रमये तते ।
आधाराधेयते ते द्वे यथा जलतरङ्गते ॥
स्वप्नादाव् आत्मनो ऽन्यत्वज्ञानाद् अन्यत्ववेदनम् ।
अनन्यभावबोधे तु तद् अनन्यन् न चोदयि ॥
कलनारहितं शान्तं यद् रूपं परमात्मनः ।
भवत्य् असौ तत् तद्भावाद् अतद्भावान् न तद् भवेत् ॥
स्वप्नादिज्ञानसंशान्तौ यद् रूपं शुद्धम् ऐश्वरम् ।
न तद् अस्ति न तन् नास्ति न वाग्गोचरम् एति तत् ॥
आत्यन्तिके भ्रान्तिलये मुक्त एवावगच्छति ।
स्वरूपं नोपदेशस्य विषयो विदुषो ऽपि तत् ॥
शान्तं निरस्तभयमानविषादलोभमोहात्म देहमननेन्द्रियचित्तजाड्यम् ।
त्यक्त्वाहम् अक्षयम् अपास्तसमस्तभेदं निर्वाणम् एकम् अजम् आसितम् एव युक्तम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0