मोक्षोपाय · अध्याय 6.187
अहन्तैव पराविद्या निर्वाणपदरोधिनी ।
तयैवान्विष्यते मूढैस् तद् इत्य् उन्मत्तचेष्टितम् ॥
अहन्तैवालम् अज्ञानाम् अज्ञत्वस्य निदर्शनम् ।
न हि तज्ज्ञस्य शान्तस्य ममाहम् इति विद्यते ॥
अहन्तामलम् उत्सृज्य निर्वाणẖ खम् इवामलम् ।
सदेहम् अपदेहं वा ज्ञस् तिष्ठति गतज्वरम् ॥
न तथा शरदाकाशम् न तथा स्तिमितो ऽर्णवः ।
पूर्णेन्दुमध्यं न तथा यथा ज्ञḫ परिराजते ॥
चित्रे सङ्गरसैन्यस्य युद्धस्याक्षुब्धता यथा ।
तथैका समता ज्ञस्य व्यवहारवतो ऽपि च ॥
निर्वाणैकतया ज्ञस्य वासनैव न वासना ।
लेखा दामोपमास् त्व् अब्धेर् ऊर्म्यादि न जलेतरत् ॥
तरत्तरङ्गो जलधिर् जलम् एव यथाखिलम् ।
दृश्योच्छूनम् अपि ब्रह्म तथा ब्रह्मैव नेतरत् ॥
अन्तरस्तङ्गतो ऽक्षुब्धो बहिरस्तङ्गतश् शमी ।
विद्यते चोदितो यश् च स मुक्त इति कथ्यते ॥
अहन्त्वसर्गरूपेण संवित् संविन्मये परे ।
स्फुरत्य् अम्भो ऽम्भसीवातो नानातेयं किमात्मिका ॥
धूमस्य स्फुरतो व्योम्नि यथागाजगजादयः ।
व्यूहा धूमान् न ते भिन्नास् तथा सर्गाḫ परे पदे ॥
संविद्भ्रान्तिविचारेण भ्रान्त्यलाभविलासिना ।
विजयध्वं विषादं मा गताज्ञास् तज्ज्ञतास्ति वः ॥
अङ्कुरो ऽनुभवत्य् अन्तर् वृक्षं पुष्पं फलं यथा ।
तथा जगदहन्त्वे ज्ञẖ खात्मा खात्म खम् अप्य् अखम् ॥
रूपालोकमनस्सत्ता जलार्चिष्ष्व् इव दण्डताः ।
सत्यो ऽपि न च सन्त्य् एता भ्रान्तेश् चित्ताचला इव ॥
यथासुखं यथारम्भं यथानाशं यथोदयम् ।
यथादेशं यथाकालम् अजराश् शान्तम् आस्यताम् ॥
इष्टानिष्टोपलम्भेषु शान्तं व्यवहरन्न् अपि ।
शववन् नान्यताम् अन्तर् निर्वाणो ऽनुभवत्य् अलम् ॥
अमनोवासनाहन्ता धत्ते यस्य जगच् चिरम् ।
जीवतो ऽजीवतश् चैव चिज्जीवस् स परं पदम् ॥
मत्तैव जडवाहेन दुẖखभाराय केवलम् ।
नृणां पाशावबद्धानां पोतकानाम् इवार्णवे ॥
मोक्षसत्तां श्रयति तां नाज्ञो ऽननुभवाद् इव ।
मृतेन किल यत् प्राप्तं जीवन् प्राप्नोति तत् कथम् ॥
यद् यत् सङ्कल्प्यते तत् तत् सङ्कल्पाद् एव नाशभाक् ।
न सम्भवति यत्रैतत् तत् सत्यं पदम् अक्षयम् ॥
नान्यो न चाहम् अस्तीति भावनान् निर्भयो भव ।
सत्यं युक्त्या भवत्य् एतद् विषम् अप्य् अमृतं यथा ॥
जडं देहादिचित्तान्तं विचार्य सकलं वपुः ।
लभ्यते नाहम् अस्मीति तस्मान् नास्मीति सत्यता ॥
शान्ताशेषविशेषाणाम् अहन्तान्तं विचारिणाम् ।
केवलं मुक्ततोदेति न तु किञ्चिद् विनश्यति ॥
भोगत्यागविचारात्मपौरुषान् नान्यद् अत्र हि ।
उपयुज्यत इत्य् अज्ञास् स्वात्मैवाशु प्रणम्यताम् ॥
निर्वासनं मननम् एवम् उदाहरन्ति मोक्षं विना भवति तच् च न जातु बोधात् ।
सन्नो जगद्भ्रम इतीह परḫ प्रबोधो न प्रत्ययो ऽत्र यद् अतस् स चिराय बन्धः ॥
जगद् अहम् असद् इत्य् अवेत्य सम्यक् सुतधनदारशरीरनिर्व्यपेक्षः ।
भवति हि सहचेतनो दृषद् यस् स परम् इतẖ खलु नान्यथास्ति मुक्तिः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0