मोक्षोपाय · अध्याय 6.186
नित्यम् अन्तर्मुखस् तिष्ठ वीतरागो विवासनः ।
चिन्मात्रम् अमलं शान्तं ब्रह्म सर्वत्र भावयन् ॥
आकाशविशदप्रज्ञश् चिन्मात्रैकघनस्थितिः ।
समस् सोम्यस् समानन्दस् सद्ब्रह्मोद्बृंहिताशयः ॥
शोकेष्व् आपत्सु घोरासु सङ्कटेष्व् अवटेषु च ।
यथाप्राप्तेषु सर्वेषु खर्वेषून्नतिमत्सु च ॥
यथाक्रमं यथादेशं कुरु दुẖखम् अदुẖखितः ।
बाष्पाक्रन्दादिपर्यन्तं वासनाक्रान्तमूढवत् ॥
समागमेषु कान्तानां चोत्सवेषूदयेषु च ।
आनन्दं भज सोम्यात्मा वासनाक्रान्तमूढवत् ॥
भूतानि मृत्युकार्येषु सङ्ग्रामादिषु निर्दयम् ।
दहानलस् तृणानीव वासनाक्रान्तमूढवत् ॥
क्रमागतेष्व् अखिन्नो ऽर्थं बकवच् चिन्तयार्जय ।
अर्थोपार्जनकार्येषु वासनाक्रान्तमूढवत् ॥
बलाद् विदलयाशेषान् अरीन् अरिनिसूदन ।
वातो रिक्तान् इवाम्भोदान् वासनाक्रान्तमूढवत् ॥
जनेषु करुणार्हेषु दीनेषु करुणां कुरु ।
आत्माराममना मौनी वासनाक्रान्तमूढवत् ॥
मुदितो भव हर्षेषु दुẖखेषु भव दुẖखितः ।
करुणां कुरु दीनेषु वीरेषु भव वीर्यवान् ॥
अन्तर्मुखस् सदानन्दस् स्वात्मारामतयान्वितः ।
यत् करोषि शमोदारस् तत्र कर्तासि नानघ ॥
आत्मभावनया साधो नित्यम् अन्तर्मुखस्थितेः ।
वज्रधारापि ते राम पतिता याति कुण्ठताम् ॥
सङ्कल्पकलनोन्मुक्ते स्वसंविन्मात्रकोटरे ।
यस् तिष्ठत्य् आत्मनि स्वैरम् आत्मारामो महेश्वरः ॥
न तं भिन्दन्ति शस्त्राणि न दहन्ति हुताशनाः ।
न क्लेदयन्ति वारीणि शोषयन्ति न मारुताः ॥
सुस्तम्भम् अलम् आलिङ्ग्य स्वात्मानम् अजरामरम् ।
तिष्ठावष्टब्धधीरात्मा सुस्तम्भम् इव मन्दिरम् ॥
जगद्वृक्षपदार्थौघपुष्पामोदश्रियं पराम् ।
संविदं संविदन् स्वच्छाम् आस्स्वान्तर्मुखम् अच्युतः ॥
अन्तर्मुखतया नित्यं कार्यम् आहरतां बहिः ।
जीवताम् अपि नोदेति वासना दृषदाम् इव ॥
पुनḫप्रसरणोन्मुक्तम् अन्तस्सुप्तं मनẖ कुरु ।
कुर्वन् सर्वाणि कर्माणि कूर्माङ्गवद् अवृत्तिमान् ॥
अन्तर्वृत्तिविहीनेन बहिर्वृत्तिमतेव च ।
सुप्तप्रबुद्धप्रायेण कार्यम् आचर चेतसा ॥
बालमूकादिविज्ञानवद् अन्तस्त्यक्तवासनम् ।
भवतẖ कुर्वतẖ कार्यं खवच् चित्तं न लिप्यते ॥
वृत्तित्यागविलीनेन किञ्चित्प्रसरता बहिः ।
अन्तर् अत्यन्तसुप्तेन चेतसा तिष्ठ विज्वरम् ॥
असङ्कल्पकलङ्कायां ज्ञानाच् चित्तक्षयोदये ।
शुद्धायां संविदि स्थित्वा कुरु मा कुरु वानघ ॥
सुषुप्तसमया वृत्त्या जाग्रद् व्यवहरन् स्वपन् ।
गृहाण मा किञ्चिद् अपि मा च किञ्चित् परित्यज ॥
जाग्रत्य् अपि सुषुप्तश् चेज् जागर्षि च सुषुप्तके ।
जाग्रत्सुषुप्तयोर् ऐक्यात् तद् अस्य् असि निरामयः ॥
एवम् आद्यन्तरहितम् अभ्यासेन शनैश् शनैः ।
पदम् आसादयाद्वन्द्वम् अतीतं सर्ववस्तुनः ॥
न च द्वैतं न चैवैक्यं जगद् इत्य् एव निश्चयी ।
परमाम् एहि विश्रान्तिम् आकाशविशदाशयः ॥
यद्य् एवं मुनिशार्दूल तद् अहम्प्रत्ययात्मकः ।
भवान् एवेह किं तावद् वसिष्ठाख्यस् ततो वद ॥
राघवे गदति त्व् एवं वसिष्ठो वदतां वरः ।
तूष्णीम् एव मुहूर्तार्धम् अतिष्ठत् स्पष्टचेष्टितः ॥
तस्मिंस् तूष्णीं स्थिते किं स्याद् इति सभ्ये महाजने ।
पतिते संशयाम्भोधौ रामḫ पुनर् उवाच ह ॥
किमर्थं भगवंस् तूष्णीं भवान् अहम् इव स्थितः ।
न सो ऽस्ति जगति न्यायस् सतां यत्रोत्तरक्षयः ॥
न मे वक्तुम् अशक्यत्वाद् उक्तिक्षय उपस्थितः ।
किं तु प्रश्नस्य ते ऽद्यास्य तूष्णीम् एवानघोत्तरः ॥
द्विविधो भवति प्रष्टा तत्त्वज्ञो ऽज्ञो ऽथ वापि च ।
अज्ञस्याज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः ॥
एतावन्तम् अभूत् कालं भवान् अज्ञाततत्पदः ।
भाजनं सविकल्पानाम् उत्तराणां महामते ॥
तज्ज्ञस् त्वम् अधुना जातो विश्रान्तḫ परमे पदे ।
योग्यो न सविकल्पानाम् उत्तराणाम् असि स्फुटम् ॥
यावान् कश्चित् किलोल्लेखो वाङ्मयो वदतां वर ।
सूक्ष्मार्थḫ परमार्थो वा बहुर् अल्पतरो ऽपि वा ॥
प्रतियोगिव्यवच्छेदसङ्ख्याभेदादिभिर् भ्रमैः ।
स स सर्वो ऽङ्कितस् साधो भा इव त्रसरेणुभिः ॥
उत्तरं सकलङ्कं च तज्ज्ञो नार्हति सुन्दर ।
नाकलङ्का च वाग् अस्ति त्वं च तज्ज्ञतरस् स्थितः ॥
यथाभूतं च वक्तव्यं ज्ञस्यान्तेवासिनो मया ।
यथाभूतं विदुẖ काष्ठमौनम् अन्तविवर्जितम् ॥
अविरामम् असङ्कल्पं मौनम् आहुḫ परं पदम् ।
तद् एव तव तज्ज्ञस्य दत्तस् सुन्दर उत्तरः ॥
यन्मयो हि भवत्य् अङ्ग पुरुषो वक्ति तादृशम् ।
ज्ञेयमात्रम् असच् चाहं वागतीते पदे स्थितः ॥
वागतीतपदस्थो हि कथं गृह्णाति वाङ्मलम् ।
अवाच्यं वच्मि नो तेन वाग् घि सङ्कल्पनाङ्किता ॥
वाचि ये ये प्रवर्तन्ते तान् अनादृत्य दोषकान् ।
प्रतियोगिव्यवच्छेदपूर्वकान् वद को भवान् ॥
एवं स्थिते राघवेह यथाभूतम् इदं शृणु ।
कस् त्वं को ऽहं जगद् वा किम् इति तत्त्वविदां वर ॥
अयं तावद् अहं शान्तश् चिदालोको निरामयः ।
चेत्यसंवेद्यरहितस् सर्वसङ्कल्पनातिगः ॥
स्वच्छं चिदाकाशम् अहं भवान् आकाशम् एव च ।
जगच् चाकाशम् अखिलं सर्वम् आकाशमात्रकम् ॥
शुद्धज्ञानैकरूपात्मा शुद्धज्ञानमयात्मनि ।
अन्यसंविद्दशोन्मुक्तस् त्व् अन्यद् वक्तुं न वेद्म्य् अहम् ॥
स्वपक्षोद्भावनपरा अहन्तात्मैकबन्धनम् ।
मोक्षार्थम् अप्य् उद्यमिनो नयन्ति शतशाखताम् ॥
जीवतो ऽप्य् उपशान्तस्य व्यवहारवतो ऽपि वा ।
शववद् यद् अवस्थानं तद् आहुḫ परमं पदम् ॥
अबहिस्साधनं शान्तम् अनन्तस्साधनं समम् ।
न सुखं नासुखं नाहं नान्यद् इत्य् आसितं शिवम् ॥
मुक्तताया अहन्तेयम् अभावो भावनाङ्कया ।
तयैवान्विष्यते सेति जात्यन्धश् चित्रम् ईक्षते ॥
स्पन्दने ऽस्पन्दने चैव यत् पाषाणवद् आसितम् ।
अजडस्यैव तद् विद्धि निर्वाणम् अजरं पदम् ॥
तच् च नान्यो विजानाति स्वयम् एवानुभूयते ।
लोकैषणाविरक्तेन ज्ञेन ज्ञत्वम् इवात्मनि ॥
नात्राहन्ता न च त्वत्ता नाहन्ता नैव चान्यता ।
केवलं केवलीभावो निर्वाणम् अमलं शिवम् ॥
चेत्योन्मुखत्वम् एवाहुश् चेतनस्यास्य चेतनम् ।
एष एव च संसारो बन्धẖ क्लेशाय भूयसे ॥
चेतनस्याचेतनत्वम् अचेत्योन्मुखतात्मकम् ।
मोक्षं विद्धि परं शान्तं पदम् अव्ययम् एव च ॥
दिक्कालाद्यनवच्छिन्ने शान्ते शान्तात्मनि स्थिते ।
चेत्यं न सम्भवत्य् एव कẖ किं चेतयतां कथम् ॥
सङ्कल्पस्वप्नदृश्ये ऽन्तस् संविन्मात्रात्मतां विना ।
यथा नान्यद् भवेद् रूपं तथैवास्मिन् बहिर्गते ॥
मनोबुद्ध्यादयश् चैते संविन्मात्रात्मरूपिणः ।
मनोबुद्ध्यादिशब्दार्थभावितास् तु जडात्मकाः ॥
संविन्मात्रे समे स्वच्छे सबाह्याभ्यन्तरे तते ।
अभिन्ने भेदबुद्धिर् वẖ किम् अनर्थाय जृम्भते ॥
संविन्मात्रस्य शुद्धस्य शून्यस्य च किम् अन्तरम् ।
यच् चान्तरं तद् विबुधा विदन्त्य् एति न वाग्गतिम् ॥
सदसद्रूप आभासो यथा किम् अपि लक्ष्यते ।
तमसीक्षितयत्नेन ब्रह्मणीदं तथा गतम् ॥
अयम् आकाशम् एवाहं यदि शाम्याम्य् अवासनम् ।
वासनां तु न बध्नामि स्थित एवास्मि चिन्नभः ॥
इतिनिश्चयवान् अन्तस् तज्ज्ञो ऽज्ञ इव सञ्ज्ञया ।
विद्वपुर् विद्यमानो ऽपि शाम्यत्य् असद् इव स्वयम् ॥
जीवानां ज्ञप्तिगुह्येन ज्वलत्य् अज्ञानवायुना ।
अविद्याग्निḫ प्रबुद्धानां पुनस् तेनैव शाम्यति ॥
अजडानां यद् अज्ञानं स्थाणूनाम् इव शाम्यताम् ।
तम् आहुर् मोक्षम् अक्षुब्धम् आसितं यद् अपक्षयम् ॥
ज्ञत्वेनाज्ञत्वम् आसाद्य मुनिर् भवति मानवः ।
अज्ञत्वाद् अज्ञताम् एत्य प्रयाति पशुवृक्षताम् ॥
अहं ब्रह्म जगच् चेदम् इत्य् अविद्यामयो भ्रमः ।
असत्यḫ प्रेक्षया ध्वान्तं दीपेनेव न लभ्यते ॥
समग्रकरणग्रामो ऽप्य् असङ्कल्पो विवेदनः ।
न किञ्चिद् अप्य् अनुभवत्य् अन्तर् बाह्ये च शान्तधीः ॥
सुषुप्तत्व इव स्वप्नस् समाधौ प्रविलीयते ।
दृश्यं सर्वं ज्ञबोधे ऽन्तḫ पुनẖ खात्मैव लक्ष्यते ॥
तलवत्त्वं यथा व्योम्नि तथा पृथ्व्यादिता शिवे ।
भ्रान्तिमात्राद् ऋते नान्या यथा व्योम तथा शिवः ॥
वासनाभिर् उपेतो ऽपि समस्ताभिर् अवासनः ।
भवत्य् असाव् असत् सर्वम् इदम् इत्य् एव यस्य धीः ॥
सङ्कल्पैष्यद्भूतभव्यस्वप्नमायेन्द्रजालजाः ।
यद्वत् संसृतयस् तद्वद् दृष्टे ऽप्य् आस्था किम् अत्र वः ॥
न दुẖखम् अस्ति न सुखं न पुण्यं न च पातकम् ।
न किञ्चित् कस्यचिन् नष्टं कर्तुर् भोक्तुर् असम्भवात् ॥
सर्वं शून्यं निरालम्बं ममताप्रत्ययो ऽप्य् अयम् ।
द्विचन्द्रस्वप्नपुरवद् यस्यासौ सो ऽपि नास्ति नः ॥
केवलो व्यवहारस्थẖ काष्ठमौनरतो ऽथ वा ।
काष्ठपाषाणवत् तिष्ठन् ब्रह्मताम् अधिगच्छति ॥
शान्तत्वे चित्रत्वे नानानानात्मनीह चैव शिवे ।
अवयविनो ऽवयवत्वे त्व् इव युक्तिर् विद्यते नान्या ॥
अर्थगतेस् स्वत्वस्य च भावस्य च नैव सम्भवाद् अमले ।
एतस्मिन् सर्वगते ब्रह्मणि नास्ति स्वभावोक्तिः ॥
न च नास्तितोपलम्भात् संवित्तेर् अस्तिता च नैवाजे ।
ग्राह्यग्राहकदृष्टेर् असम्भवाद् अस्ति किञ्चिद् अपि ॥
समम् अमलम् अहार्यम् आर्यजुष्टं शिवम् अजम् अक्षयम् आसितं समं यत् ।
तद् अवितथपदं तथास्स्व शान्तं पिब चल भुङ्क्ष्व भवान् अयं हि नास्ति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0