मोक्षोपाय · अध्याय 6.185
बीजाङ्कुराणां पुरुषकर्मणां जन्मकारिणाम् ।
दैवशब्दार्थयुक्तानां तत्त्वं वद विभो पुनः ॥
दैवकर्मादिपर्यायं घटादिघटनावधि ।
संवित्स्पन्दनम् एवेदं लोके पुरुषतां गतम् ॥
संवित्स्पन्दाद् ऋते पुंस्त्वं कर्म वा कीदृशं भवेत् ।
घटावटपटाद्यात्म ह्य् एतेनैव जगत् कृतम् ॥
प्रवर्तते जगल्लक्ष्मीस् संवित्स्पन्दात् सवासनात् ।
निवर्तते हि संसारस् संवित्स्पन्दाद् अवासनात् ॥
अवासनं हि संवित्तेस् स्पन्दम् अस्पन्दनं विदुः ।
स स्पन्दो ऽप्य् अप्सु न स्पन्दो येनावर्तादि नोह्यते ॥
मनाग् अपि न भेदो ऽस्ति संवित्स्पन्दमयात्मनोः ।
कल्पनांशाद् ऋते राम सृष्टौ पुरुषकर्मणोः ॥
जलवीच्योर् यथा द्वित्वं सङ्कल्पोत्थं न वास्तवम् ।
तथेह चित्परिस्पन्दरूपयोर् जन्तुकर्मणोः ॥
कर्मैव पुरुषो राम पुरुषस्यैव कर्मता ।
एते ह्य् अभिन्ने विद्धि त्वं यथा तुहिनशीतते ॥
हिमं यत् तद् यथा शैत्यं यच् छैत्यं तद् यथा हिमम् ।
यत् कर्मासौ तथा जन्तुर् यो जन्तुẖ कर्म तत् तथा ॥
संवित्स्पन्दरसस्यैते दैवकर्मनरादयः ।
पर्यायशब्दा न पुनḫ पृथक् कर्मादयस् स्थिताः ॥
स्पन्दात् संविज् जगद्बीजम् अस्पन्दाद् यात्य् अबीजताम् ।
अङ्कुरश् च तद् एवान्तस्स्थितत्वाद् अङ्कुरश्रियः ॥
चित्त्वं च क्वचिद् अस्पन्दं क्वचित् स्पन्दि स्वभावतः ।
अनन्तम् एकार्णववद् अदिक्कालक्रमं स्थितम् ॥
संवित्स्पन्दो वासनावान् इह बीजम् अकारणम् ।
भूत्वा कारणताम् एति देहादेर् अङ्कुरावलेः ॥
तृणवल्लीलतागुल्मबीजाङ्कुरगतेर् अपि ।
बीजं संवित्स्पन्द एव तस्य बीजं न विद्यते ॥
न बीजाङ्कुरयोर् भेदो विद्यते ऽग्न्यौष्ण्ययोर् इव ।
बीजम् एवाङ्कुरं विद्धि विद्धि कर्मैव मानवम् ॥
संवित् स्फुरन्ती भूकोशे करोति स्थावराङ्कुरम् ।
स्थूलान् सूक्ष्मान् मृदून् क्रूरान् पयो बुद्बुदकान् इव ॥
विदा विना धराकोशाद् अत्यन्तपरिपेलवात् ।
अङ्कुरान् वज्रसारांश् च क उल्लासयितुं क्षमः ॥
प्राणिवीर्यरसान्तस्स्था संविज् जङ्गमम् आततम् ।
तनोति लतिकान्तस्स्थो रसḫ पुष्पफलं यथा ॥
यदि सर्वगता संविद् भवेन् नातिबलीयसी ।
तत् क उल्लासने शक्तस् स्याद् एवासुरभूभृताम् ॥
जङ्गमानां स्थावराणाम् एतद् आद्यं हि बीजकम् ।
संविद्विस्फुरणामात्रम् अस्य बीजं न विद्यते ॥
बीजाङ्कुरविकल्पानां क्रियापुरुषकर्मणाम् ।
ऊर्मिवीचितरङ्गानां नाम्नि भेदो न वस्तुनि ॥
द्वित्वं नृकर्मणोर् यस्य बीजाङ्कुरधियात्तयोः ।
विपश्चित्पशवे तस्मै महते ऽस्तु सदा नमः ॥
संवित्तेर् जन्मबीजस्य यो ऽन्तस्स्थो वासनारसः ।
स करोत्य् अङ्कुरोल्लासं तम् असङ्गाग्निना दह ॥
कुर्वतो ऽकुर्वतश् चैव मनसा यद् अमज्जनम् ।
शुभाशुभेषु कार्येषु तद् असङ्गं विदुर् बुधाः ॥
अथ वा वासनोत्साद एवासङ्ग इति स्मृतः ।
यया कयाचिद् युक्त्यान्तस् सम्पादय तम् एव हि ॥
ययैव वा वेत्सि तया युक्त्या पुरुषयत्नतः ।
वासनां कुरु निर्मूलाम् एतद् एव परं शिवम् ॥
पौरुषेण प्रयत्नेन यथा जानासि वा तथा ।
निवारयाहम्भावांशम् एषो ऽसौ वासनाक्षयः ॥
नास्त्य् एव पौरुषाद् अन्या संसारोत्तरणे गतिः ।
निरहम्भावरूपे ऽस्मिन् वासनाक्षयनामनि ॥
आद्यैव संविद् अस्तीह सो ऽङ्कुरो बीजम् अस्ति तत् ।
तत् कर्म तच् च पुरुषस् तद् दैवं तच् छुभाशुभम् ॥
न बीजम् आदाव् अस्त्य् अन्यन् नाङ्कुरो न च वा नरः ।
न कर्म न च दैवादि केवलं विद् उदेति हि ॥
नो बीजम् अस्ति न किलाङ्कुरको ऽपि वास्ति नाप्य् अस्ति कर्म पुरुषश् च न वास्ति साधो ।
एकं तु वित्त्वम् उदितं ह्य् अनयाभिधानलक्ष्म्या नटस् सुरनरासुरशोभयेव ॥
इत्य् एव निश्चयम् अनामय भावयित्वा त्यक्त्वा भृशं पुरुषकर्मविचारशङ्काम् ।
निर्वासनस् सकलसङ्कलनाविमुक्तस् संविद्वपुर् ननु यथाभिमतेच्छम् आस्स्व ॥
प्रशान्तसर्वेच्छम् अशङ्कम् अच्छचिन्मात्रसंस्थो ऽखिलकार्यकारी ।
आत्मैकरामḫ परिपूर्णकामो भवाभयो राम शमाभिरामः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0