मोक्षोपाय · अध्याय 6.184
निर्वाणो भव शान्तात्मा यथाप्रप्तानुवृत्तिमान् ।
सन्न् एवासत्समस् सोम्यस् स्फटिकाद् इव निर्मितः ॥
एकस्मिन्न् एव सर्वस्मिन् संस्थिते विततात्मनि ।
नैकस्मिन् न च सर्वस्मिन् नानाता कलनाẖ कुतः ॥
आद्यन्तरहितं सर्वं व्योम चित्तत्त्वनिर्भरम् ।
शरीरोत्पत्तिनाशेषु का चित्तत्त्वस्य खण्डना ॥
स्फुरन्ति हि जगत्क्रीडाश् चिच्चमत्कारचापलात् ।
अचापलात् प्रलीयन्ते तरङ्गा इव वारिणि ॥
यथा शुभ्राम्बुदे वस्त्रशङ्का न फलभागिनी ।
देहो ऽयम् अहम् इत्य् एषा तथा शङ्का न वास्तवी ॥
मावस्तुनि निमग्नस् त्वं भव भूरिभयप्रदे ।
वस्त्व् अनन्तसुखायाद्यं भव्य भावय भूतये ॥
चिद्व्योमानन्त एवास्मि नेयत्तास्ति ममात्मनः ।
इत्य् एवं परमं वस्तु वस्तुतस् स्तुत्यम् अस्तु ते ॥
एवंनिश्चयवान् राम त्वम् एवासि निरञ्जनः ।
ध्याता ध्येयं तथा ध्यानं सत्यं वापि न किञ्चन ॥
द्रष्टा दृश्यं दर्शनं च चित एता विभूतयः ।
अतस् तत् संविदो नान्यद् अध्येयं ध्येयम् अस्ति वा ॥
उद्यति प्रतिपच्चन्द्रे वहति प्रलयानिले ।
आत्मतत्त्वं समं सोम्यं न क्षुभ्यति न शाम्यति ॥
यथा नौयायिनस् स्थाणुतरुशैलादिचोपनम् ।
यथा शुक्तौ रजतधीस् तथा देहादि चेतसः ॥
यथा देहादि चित्तस्य तथा देहस्य चित्तकम् ।
तथैव जीवḫ परमे द्वैतम् ऐक्यम् अतẖ कुतः ॥
सर्वम् एवम् इदं शान्तं ब्रह्म बृंहितवेदनम् ।
न किञ्चिज् जगदाद्य् अस्ति भ्रान्तिर् अन्या न विद्यते ॥
न विद्यते यथा व्योम्नि वनं स्नेहश् च सैकते ।
विद्युच् छशाङ्कबिम्बे वा तथा देहादि चेतसि ॥
अविद्यमाने एवास्मिन् मा बिभीहि जगद्भ्रमे ।
एतद् एव परं सत्यं विद्धि सत्यविदां वर ॥
जगद् अस्ति न मे वेति यासीद् भ्रान्तिस् तवाद्य सा ।
शान्ता मदुपदेशेन किम् अन्यद् बन्धकारणम् ॥
स्थाल्युदञ्चनकुम्भादि यथा मृण्मात्रकं तथा ।
चित्तमात्रं जगद् इदं क्षीणं तच् च विचारणात् ॥
आपत्सु सम्पत्सु भवाभवेषु शान्तैषणाहर्षविषादसंवित् ।
साम्याद् अहम्भावविदा विमुक्तो यथास्थितं तिष्ठ विलीय वास्स्व ॥
यथास्थितं वस्त्व् अवगम्य सम्यक् स्थितो ऽसि चेद् वा स्वकुलाम्बरेन्दो ।
तद् धर्षशोकैषणदूषणादि विमुच्य वाश्रित्य यथेच्छम् आस्स्व ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0