मोक्षोपाय · अध्याय 6.183
संसारमार्गे गहने पतितस्यापतन्ति हि ।
वृत्तवृत्तान्तलक्ष्याणि काष्ठा इव घनागमे ॥
सर्व एव त्व् इमे भावाḫ परस्परम् असङ्गिनः ।
अटव्याम् उपलानीव भावनैतेषु शृङ्खला ॥
चित्तम् आन्ध्याय वृत्तान्तद्रुमैर् गहनयन् स्थितः ।
रसरञ्जनया लोको वसन्त इव काननम् ॥
अहो बत विचित्राणि वासनावशतो ऽवशैः ।
भूतकैर् अनुभूयन्ते सुखदुẖखानि जन्मसु ॥
अहो बतातिविषमा वासना यद्वशाज् जनैः ।
अविद्यमान एवायं भ्रमो ऽन्तर् अनुभूयते ॥
आह्लादिनो ऽमृतवतश् शुद्धस्यालोककारिणः ।
शीतलस्याखिलार्थेषु ज्ञस्येन्दोश् च किम् अन्तरम् ॥
पूर्वापरम् अनालोच्य यत् किञ्चिद् अभिवाञ्छतः ।
निर्मर्यादस्य मूढस्य बालस्य च किम् अन्तरम् ॥
लब्धम् आप्राणपर्यन्तं शुभाशुभम् अनुज्झतोः ।
आमिषे को विशेषो ऽस्ति वद मार्जारमूढयोः ॥
सर्व एव त्व् इमे भावा देहदारधनादयः ।
क्षिप्रम् आशुष्कसिकताशरावविशरारवः ॥
आब्रह्मस्तम्बपर्यन्तम् अपि योनिशतेषु च ।
आकल्पं भ्रमतश् चित्तशान्तिर् नास्ति शमाद् ऋते ॥
पर्यालोचनमात्रेण बन्धगन्धो न बाधते ।
गच्छतो मार्गवैषम्यम् इवालोकनकारिणः ॥
न तवावहितं चित्तं कामẖ कवलयिष्यति ।
सावधानस्य बुद्धस्य पिशाचẖ किं करिष्यति ॥
यथेक्षणप्रसरणं रूपालोकनमात्रकम् ।
संवित्प्रसरमात्रात्म तथा साहं जगत् स्थितम् ॥
यथाक्षिसंवृतिस् सर्वरूपालोकशमो ऽरिहन् ।
संवित्संवरणं नाम सर्वदृश्यशमस् तथा ॥
असद् एव जगत् साहं शुद्धा संवित् तनोति खे ।
ईषत्प्रसरणेनाशु स्पन्दनं पवनो यथा ॥
सद् इवासत्यम् एवेदम् अकुर्वत्यैव मन्यते ।
विदा हेम्नेव कुम्भत्वम् अपृथग्लभ्यम् आत्मगम् ॥
शून्यमात्रं यथा व्योम स्पन्दमात्रं यथानिलः ।
जलमात्रं यथोर्म्यादि संविन्मात्रं जगत् तथा ॥
अव्यवच्छिन्ननिर्भागसंविन्मात्रं जगत्त्रयम् ।
विद्धि शान्तं तथा व्योम यथा वारिणि पर्वतम् ॥
निर्वाणस्योपशान्तस्य ज्ञस्य सोदेति शीतता ।
अन्तर् यत्रेन्दवो ऽप्य् एते दीप्तज्वलनबन्धवः ॥
किं केन कथम् एकान्तशान्ताततशिवात्मनि ।
निरालोके परालोके शून्ये जगति जन्यते ॥
या सत्ता ब्रह्मशब्दाख्या रूपं सर्वस्य तन् निजम् ।
न यत्र काचिद् बाधास्ति सर्वं तन्मयम् अव्ययम् ॥
यद् इदं तु पदार्थत्वं यत्र बाधानुभूयते ।
यच् च वा बाधनं प्रेक्ष्य तन् न विद्मẖ खपुष्पवत् ॥
ज्ञ एवापगतस्वान्तं शान्तम् आस्स्व महाश्मवत् ।
अबोधमननो मौनम् अनन्तम् अजम् अव्ययम् ॥
आकाशकल्पे स्वे भावे तिष्ठतो ऽङ्गादिवेदनम् ।
भवत्य् अभ्यासदार्ढ्येन विना स्वप्नविकारवत् ॥
निरुपादानसम्भारम् अभित्ताव् एव चेतति ।
ब्रह्माकर्तृ जगच्चित्रं न कश्चिद् वा न किञ्चन ॥
तनोति यत् तद् आत्मैव तस्य तत्र तथा स्थितम् ।
दृश्याभावाद् अतद्दर्शी तेन कẖ क्व करोति किम् ॥
अहं सुखीति सुखिता अहं दुẖखीति दुẖखिताः ।
सर्व एव स्वभावस्था व्योमात्मानो ऽपि पार्थिवाः ॥
सर्वेषाम् एव भावानां विदाकाशात्मनाम् अपि ।
मिथ्यैव स्वप्नशैलानाम् इव पार्थिवतास्ति ते ॥
अहन्तोल्लेखतस् सत्ता भ्रमभारविकारिणी ।
तदभावात् स्वभावैकनिष्ठता शमशालिनी ॥
हेम्नẖ कटकशब्दार्थो व्यतिरिक्तो यथास्ति नो ।
व्यतिरिक्ता तथासत्या नाहन्तास्ति शमात्मनः ॥
निर्वाणो निर्मना मौनी कर्ताकर्ता च शीतलः ।
ज्ञ एकश् शान्त एवास्ते शून्य एवाभिपूरितः ॥
निर्वासनं स्पन्दमानो यन्त्रपुत्रकगात्रवत् ।
स यथास्थितम् एवास्ते ज्ञस् संव्यवहरन्न् अपि ॥
यथा मञ्चकसंस्थस्य स्पन्दते नैव वा शिशोः ।
अङ्गालिर् अनुसन्धानं विनैवं विदितात्मनः ॥
निस्सम्बोधैकबोधस्य निराशेहैषणाशिषः ।
शान्ताहन्त्वात्मरूपत्वाद् अनुसन्धानिता कुतः ॥
अद्रष्टुर् अपदृश्यस्य दृग्रूपस्यापरूपिणः ।
कुतẖ किलानुसन्धानम् अनपेक्षस्य पश्यतः ॥
अपेक्षैव घनो बन्धो ह्य् अनपेक्षैव मुक्तता ।
सर्वशब्दान्विता तस्यां विश्रान्तेन किम् ईक्ष्यते ॥
पार्थिवत्वे शरीरे ऽस्मिन् स्वस्वप्नाद्राव् इवासति ।
भ्रममात्रात्मनि कुतẖ क्व कस्य किम् अपेक्षणम् ॥
उपशान्तसमस्तेहं विगताखिलकौतुकम् ।
निरस्तवेदनं ज्ञेन विदा केवलम् आस्यते ॥
मङ्किनेति श्रुतवता ततो मोहो महान् अपि ।
अशेषेण परित्यक्तस् तत्र वै त्वग् इवाहिना ॥
प्रवाहापतितं कार्यं कुर्वतापास्तवासनम् ।
तेन वर्षशतस्यान्ते स्थितम् अद्रौ समाधिना ॥
तत्राद्य यावत् पाषाणसमधर्मा स तिष्ठति ।
शान्तान्तẖकरणो योगी बोध्यमानḫ प्रबुध्यते ॥
एतेन राघव विवेकपदेन शान्तिम् आसादयोदयवता मनसा विहर्तुम् ।
मा दीनतां व्रजतु रागमयी मतिस् ते क्षीणा क्षणाद् असलिलेव शरद्घनाली ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0