मोक्षोपाय · अध्याय 6.182
संवेदनं भावनं च वासना कलनेति च ।
अनर्थायेह शब्दार्थो विगतार्थो विजृम्भते ॥
वेदनं भावनं विद्धि सर्वदोषसमाश्रयम् ।
अस्मिन्न् एवापदस् सन्ति लता मधुरसे यथा ॥
संसारमार्गे गहने वासनावेशवाहिनः ।
उपयाति विचित्रोच्चैर् वृत्तवृत्तान्तसन्ततिः ॥
विवेकिनो वासनया सह संसारसम्भ्रमः ।
क्षीयते माधवस्यान्ते शनैर् वनम् इवारसम् ॥
अस्यास् संसृतिसल्लक्या वासनोत्सेधकारिणी ।
कदल्या घनजालिन्या रसलेखेव माधवी ॥
संसाराब्धितयोदेति वासनात्मा रसश् चितौ ।
यथा वनतयान्तस्स्थो मधुमासरसẖ क्षितौ ॥
चिन्मात्राद् अमलाच् छून्याद् ऋते किञ्चिन् न विद्यते ।
नान्यत् क्वचिद् अपर्यन्ते खे शून्यत्वेतरद् यथा ॥
वेदनात्मा रसो ऽस्त्य् अन्य इति या प्रतिभा स्थिरा ।
एषाविद्या भ्रमस् त्व् एष एष संसार आततः ॥
अनालोचनसंसिद्ध आलोकेनैष नश्यति ।
असदात्मा सदाभासो बालवेतालवत् क्षणात् ॥
सर्वदृश्यदृशो बोधे बोधसारतयैकताम् ।
यान्त्य् अशेषमहीपीठसरित्पूर इवार्णवे ॥
मृण्मयं हि यथा भाण्डं मृच्छून्यं तु न लभ्यते ।
चिन्मयं हि तथा चेत्यं चिच्छून्यं तु नोपलभ्यते ॥
बोधावबुद्धं यद् वस्तु बोध एव तद् उच्यते ।
नाबोधं बुध्यते बोधो वैरूप्यात् तेन नान्यथा ॥
द्रष्टृदर्शनदृश्येषु प्रत्येकं बोधमात्रता ।
सारस् तेन तदन्यत्वं नास्ति किञ्चित् खपुष्पवत् ॥
सजातीयस् सजातीयेनैकताम् अनुगच्छति ।
अन्योऽन्यानुभवस् तेन भवत्य् एकत्वनिश्चयः ॥
यदि काष्ठोपलादीनां न भवेद् बोधरूपता ।
तत् सदानुपलम्भस् स्याद् एतेषाम् असताम् इव ॥
यदा त्व् अशेषा दृश्यश्रीर् बोधमात्रैकरूपिणी ।
तदान्येवाप्य् अनन्यैव सती बोधेन बोध्यते ॥
सर्वं जगद्गतं दृश्यं बोधमात्रम् इदं ततम् ।
स्पन्दमात्रं यथा वायुर् जलमात्रं यथार्णवः ॥
मिश्रीभूता अपि ह्य् एते जतुकाष्ठादयो यथा ।
मिथोऽननुभवामिश्रा ऐक्यं ह्य् अनुभवो मिथः ॥
अन्योऽन्यानुभवो ह्य् ऐक्यम् ऐक्यं त्व् अन्योऽन्यवेदनम् ।
यथाम्भसोẖ क्षीरयोर् वा न काष्ठजतुनोर् इव ॥
अहम् इत्य् एव बन्धाय नाहम् इत्य् एव मुक्तये ।
एतावन्मात्रके भद्रे स्वायत्ते किम् अशक्तता ॥
चन्द्रद्वयप्रत्ययवन् मृगतृष्णाम्बुबुद्धिवत् ।
किम् अनुत्थित एवायम् असद् एवाहम् उत्थितः ॥
ममेदम् इति बन्धाय न ममेत्य् एव मुक्तये ।
एतावन्मात्रके वस्तुन्य् आत्मायत्ते किम् अज्ञता ॥
यẖ काष्ठबदरन्यायो यो घटाकाशयोस् स्थितः ।
स सम्बन्धो ऽपि नैवैक्यम् ऐक्यम् अन्योऽन्यवेदनम् ॥
अन्योऽन्यवेदनं त्व् ऐक्यं भागशो गतम् अप्य् अलम् ।
अजडं तज् जडं वापि नैकं रूपं विमुञ्चति ॥
नाजडो जडताम् एति स्वभावा ह्य् अनपायिनः ।
यच् चाजडं जडं दृष्टं दृष्टे तत्रास्ति नैकता ॥
वासनावेशवलिताẖ कुविकारशतात्मभिः ।
संसारारण्यकुहरे नृत्यन्ति हतकर्मभिः ॥
वासनारज्जुना कृष्टा दूरं नीतास् स्वकर्मभिः ।
व्रजन्त्य् अधोऽधो धावन्तश् शिलाश् शैलच्युता इव ॥
व्यूढानां वासनावातैर् नृतृणानाम् इतस् ततः ।
तान्य् आपतन्ति दुẖखानि यानि वक्तुं न पार्यते ॥
भ्रान्त्या भृशं करतलाहतकन्दुकाभं लोकाḫ पतन्ति निरयेषु रयेण रक्ताः ।
क्लेदेन तत्र परिजर्जरतां प्रयाताẖ कालान्तरेण पुनर् अन्यनिभा भवन्ति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0