भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.181

6.181.1

ममेत्य् उक्तवतो मङ्किर् विनिपत्य स पादयोः ।
उवाचानन्दपूर्णाक्षम् इदं मार्गे वहन् वचः ॥

6.181.2

भगवन् भूरिशो भ्रान्ता दिशो दश दशावता ।
मया न तु पुनस् साधुर् लब्धस् संशयनाशकृत् ॥

6.181.3

समस्तदेहवाराणां सारस्याद्य फलं मया ।
प्राप्तं यद् अस्मि त्वत्पादपद्मे भ्रमरतां गतः ॥

6.181.4

खिन्नो ऽस्मि भगवन् पश्यन् दशास् संसारदोषदाः ।
पुनर् जातं पुनर् नष्टं सुखदुẖखभ्रमस् सदा ॥

6.181.5

अवश्यम्भाविपर्यन्तदुẖखत्वात् सकलान्य् अपि ।
सुखान्य् एवातिदुẖखानि वरं दुẖखान्य् अतो मुने ॥

6.181.6

दृढदुẖखवद् अन्तत्वाद् दुẖखयन्ति सुखानि माम् ।
तथा नाम यथा दुẖखम् एव मे सुखतां गतम् ॥

6.181.7

वयो दशनलोमाङ्गैस् सह जर्जरतां गतम् ।
उच्चैḫपदे पातपरा बुद्धिर् नाध्यवसायिनी ॥

6.181.8

प्रसुवानं कुसङ्कल्पान् गहनं न प्रकाशते ।
मनḫ पिप्पलपद्मूलैर् इव कुग्रामकोटरम् ॥

6.181.9

वासनागर्धवृद्ध्यैति श्वश् श्वḫ पापीयसीं स्थितिम् ।
कण्टकद्रुमवल्लीव करालकुटिला मतिः ॥

6.181.10

आयुर् आयासशालिन्या यामिन्येव तमोऽन्धया ।
अक्षीवानागतालोकं क्षीणं सन्ततचिन्तया ॥

6.181.11

न कञ्चिद् रसम् आदत्ते नष्टैवापि न नश्यति ।
न पुष्पिता न फलिता तृष्णा शुष्कलतेव नः ॥

6.181.12

कर्म मर्मणि निर्मग्नं वासनाख्यम् अशर्मणे ।
जीवितं जन्मने जीर्णं नैवोत्तीर्णो भवार्णवः ॥

6.181.13

दिनानुदिनम् उच्छूना भोगाशा भयदायिनी ।
पूर्णापूर्णात्मनि क्षीणा श्वभ्रकण्टकवृक्षवत् ॥

6.181.14

चिन्ताज्वरविकारिण्या लक्ष्म्याẖ खलु महापदः ।
सम्पन् नाम कृतं सापि विप्रलम्भेन जृम्भते ॥

6.181.15

अन्तस्स्फुरितरत्नेहं भासुरं चान्धकोटरम् ।
कल्लोलकलिलं शून्यं चेतश् शुष्काब्धिदुर्भगम् ॥

6.181.16

माम् इन्द्रियार्थैकपरं न स्पृशन्ति विवेकिनः ।
सकण्टकम् अमेध्यस्थं श्लेष्मातकम् इव द्रुमम् ॥

6.181.17

असद् एव महारम्भं वल्गदर्जुनवातवत् ।
मनो रमणम् अप्राप्तं शून्यं दुẖखाय वल्गति ॥

6.181.18

शास्त्रसज्जनसम्पर्कचन्द्रतारकधारिणी ।
अहम्भावोल्लसद्यक्षा क्षीणा नाज्ञानयामिनी ॥

6.181.19

अज्ञानध्वान्तमत्तेभसिंहẖ कर्मतृणानलः ।
उदितो न विवेकार्को वासनारजनीक्षयः ॥

6.181.20

अवस्तु वस्तुवद् बुद्धं मत्तश् चित्तमतङ्गजः ।
इन्द्रियाणि निकृन्तन्ति न जाने किं भविष्यति ॥

6.181.21

शास्त्रदृष्टिर् अपि प्राज्ञैर् आश्रिता तरणाय या ।
साप्य् अदृष्टिर् इवान्ध्याय वासनावेशकारिणी ॥

6.181.22

तद् एवम् अतिसम्मोहे यत् कार्यम् इह दारुणे ।
उदर्कश्रेयसे तात तन् मे कथय पृच्छते ॥

6.181.23

शाम्यन्ति मोहमिहिकाश् शरदीव साधौ प्राप्ते भवन्ति विमलाश् च तथाखिलाशाः ।
सत्येति वाग् भवतु साधुजनोपगीता मद्बोधनेन भवता भवशान्तिदेन ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc