मोक्षोपाय · अध्याय 6.180
निराशवासनापास्तसमस्तभववासनः ।
उत्थाय गच्छ प्रकृतेर् अस्या मङ्किर् इवाङ्कतः ॥
मङ्किनामाभवत् पूर्वं ब्राह्मणस् संशितव्रतः ।
स कथं शृणु निर्वाणम् आप्तवान् मद्विबोधतः ॥
अहं कदाचिद् आकाशकोशाद् अवनिम् आगतः ।
भवत्पितामहार्थेन केनाप्य् उपनिमन्त्रितः ॥
विहरन् भूतलं गच्छंस् त्वत्पितामहपत्तनम् ।
प्राप्तो ऽस्मि काम् अप्य् आदीर्घाम् अरण्यानीं महातपाम् ॥
पांसुप्रतर्दगहनां प्रकचत्तप्तसैकताम् ।
अदृष्टपारपर्यन्तां क्वचिद् ग्रामकलाञ्छिताम् ॥
अक्षुब्धखानिलालोकजलभूशान्तिशालिनीम् ।
ततां शून्यां महारम्भां ब्रह्मसत्ताम् इवामलाम् ॥
अविद्याम् इव सम्मोहमृगतृष्णागतभ्रमाम् ।
जाड्यदाम् आततां शून्यां दिग्दाहमिहिकाकुलाम् ॥
अथ तस्याम् अरण्यान्यां यावत् प्रविहराम्य् अहम् ।
तावत् पश्यामि पुरतो वदन्तं पथिकं श्रमात् ॥
अहो नु परिखेदाय प्रौढप्रायातपो रविः ।
परितापाय पापो ऽयं दुर्जनेनेव सङ्गमः ॥
सङ्गलन्तीव मर्माणि स्फुरतीवाग्निर् आतपे ।
सङ्कुचत्पल्लवापीडास् ताम्यन्ति वनराजयः ॥
तावत् तद् एतम् अग्रस्थं ग्रामकं प्रविशाम्य् अहम् ।
श्रमम् अत्रापनीयाशु वहाम्य् अध्वानम् आशुगः ॥
इति सञ्चिन्त्य सो ऽग्रस्थं किरातग्रामकं यदा ।
प्रवेष्टुम् इच्छति तदा मया प्रोक्त इदं वचः ॥
अपरिज्ञात नीराग मार्गमित्र शुभाकृते ।
मरुमार्गमहारण्यपान्थ स्वागतम् अस्तु ते ॥
चिरं मनुष्यदेशे ऽस्मिन् निर्जनग्रामधन्वनि ।
नागराध्वग विश्रान्तिं विश्रान्तो ऽपि न लप्स्यसे ॥
श्रमो विश्रमणेनैव वर्धते पामरास्पदे ।
तृड् वै लवणपानेन भूय एवाभिवर्धते ॥
एते ग्रामैकशरणाḫ पल्लवस्पन्दभीरवः ।
अयथायथसञ्चारा हरिणा इव जन्तवः ॥
न स्फुरन्ति विचारेषु न ज्वलन्त्य् अनुभूतिषु ।
न त्रसन्ति दुराचाराद् अश्मयन्त्रमया इव ॥
कामार्थरागविद्वेषपरिनिष्ठितपौरुषाः ।
कर्मण्य् आपातमधुरे रमन्ते दग्धबुद्धयः ॥
आभिजात्योन्नतोदारा शीतला रसशालिनी ।
नेह विश्वसिति प्रज्ञा मेघमाला मराव् इव ॥
वरम् अन्धगुहाहित्वं शिलान्तẖ कीटता वरम् ।
वरं मरौ पङ्गुमृगो न ग्राम्यजनसङ्गमः ॥
निमेषास्वादमधुराẖ क्षणान्तरविरागिणः ।
मारणैकान्तनिरता ग्राम्या विषकणा इव ॥
वान्ति भस्मकणाकीर्णा जीर्णास् संशीर्णसद्मसु ।
तृणपर्णवनव्यग्रा ग्राम्यावकरवायवः ॥
एवम् उक्तेन तेनाहम् इदम् उक्तस् तदानघ ।
मद्वाक्येन समाश्वस्य स्नातेनेवामृताम्भसा ॥
भगवन् को ऽसि पूर्णात्मा महात्मा कथम् आत्मवान् ।
पश्यन्न् अनाकुलो लोकं ग्रामयात्राम् इवाध्वगः ॥
किं त्वया पीतम् अमृतं किं त्वं सम्राड् विराड् अथ ।
सर्वार्थरिक्तो ऽपि चिरं सुपूर्ण इव राजसे ॥
शून्यो ऽसि परिपूर्णो ऽसि घूर्णसीव स्थिरो ऽसि च ।
न सर्वम् असि सर्वं च न किञ्चित् किञ्चिद् एव वा ॥
उपशान्तं च कान्तं च दीप्तम् अप्रतिघाति च ।
निभृतं चोर्जितं चेदं रूपं किम् इति ते मुने ॥
भूसंस्थो ऽपि समस्तानां लोकानाम् उपरीव खे ।
संस्थितो ऽसि निरास्थो ऽसि घनास्थो ऽसि च लक्ष्यसे ॥
प्रसृतं च पदार्थेषु न पदार्थात्म चास्ति च ।
तवेन्दोर् इव शुद्धस्य मनो ऽमृतमयं स्थितम् ॥
कलावान् अकलङ्को ऽन्तश्शीतलो भासुरस् समः ।
रसायनपरापूर्णḫ पूर्णेन्दुर् इव राजसे ॥
त्वदिच्छायत्तसदसद्भावं पश्यामि ते चिति ।
संसारमण्डलम् इदं स्थितं फलम् इवाङ्कुरे ॥
अहं तावद् अयं विप्रश् शाण्डिल्यकुलसम्भवः ।
मङ्किर् नाम महाभाग तीर्थयात्राप्रसङ्गतः ॥
गत्वा सुदूरम् अध्वानं दृष्ट्वा तीर्थानि सम्प्रति ।
चिरकालेन सदनम् आत्मीयं गन्तुम् उद्यतः ॥
न च मे गन्तुम् उद्योगो विरक्तमनसो गृहम् ।
दृष्ट्वा तडित्प्रकाशानि भूतानि भुवनोदरे ॥
भगवन् मह्यम् आत्मानं कथयेहानुकम्पया ।
गम्भीराणि प्रसन्नानि साधुचेतस्सरांसि हि ॥
दर्शनाद् एव मित्रत्वं कुर्वतां महतां पुरः ।
कमलानीव भूतानि विकसन्त्य् आश्वसन्ति च ॥
ममेमं च मनोमोहं संसारभ्रमसम्भवम् ।
मन्ये हातुं समर्थस् त्वं सत्त्वबोधानुकम्पनैः ॥
वसिष्ठो ऽस्मि महाबुद्धे मुनिर् अस्मि नभोगृहः ।
केनाप्य् अर्थेन राजर्षेर् इमं मार्गम् उपस्थितः ॥
मा गा विषादं पन्थानम् आगतो ऽसि मनीषिणाम् ।
प्रायḫ प्राप्तो ऽसि संसारसागरस्यापरं तटम् ॥
वैराग्यविभवोदारा मतिर् उक्तिर् अपीदृशी ।
आकृतिश् शान्तरूपा च न भवत्य् अमहात्मनः ॥
मणिर् मधुरकाषेण यथैति विमलात्मताम् ।
तथा कषायपाकेन चित्तम् एति विवेकिताम् ॥
किं ज्ञातुम् इच्छसि कथं संसारं हातुम् इच्छसि ।
उपदिष्टम् अहं मन्ये सम्पादयसि कर्मभिः ॥
विमलवासन उन्नतमानसḫ परिविविक्तमतिर् जनचेतसाम् ।
पदम् अशोकम् अलं खलु युज्यसे जगति नेतुम् इतीदम् इहोच्यते ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0