मोक्षोपाय · अध्याय 6.179
ज्ञानेन ज्ञेयनिष्ठत्वाद् यो ऽचितं चितम् एव वा ।
न भुञ्जते कर्मफलं स ज्ञानीत्य् अभिधीयते ॥
ज्ञात्वा सम्यग् अनुष्ठानं दृश्यते यस्य कर्मसु ।
निर्वासनात्मकं ज्ञस्य स ज्ञानीत्य् अभिधीयते ॥
अन्तश्शीतलतेहासु प्राज्ञैर् यस्यावलोक्यते ।
अकृत्रिमैव शान्तस्य स ज्ञानीत्य् अभिधीयते ॥
अपुनर्जन्मने यस् स्याद् बोधस् स ज्ञानशब्दभाक् ।
वसनाशनदा शेषा व्यवस्था शिल्पजीविका ॥
प्रवाहापतिते कार्ये कामसङ्कल्पवर्जितः ।
तिष्ठत्य् आकाशहृदयो यस् स पण्डित उच्यते ॥
अकारणं प्रवर्तन्ते इव भावा अकारणात् ।
अविद्यमाना अप्य् एते विद्यमाना इव स्थिताः ॥
आविर्भावतिरोभावैर् भावाभावभवाभवैः ।
पश्चात् कारणतां यान्ति मिथẖ कारणकर्मभिः ॥
असतश् शशशृङ्गादेर् मृगतृष्णाम्भसो ऽथ वा ।
आलोकनाद् अलभ्यस्य कीदृक् स्याद् अथ कारणम् ॥
असतश् शशशृङ्गादेẖ कारणं मार्गयन्ति ये ।
वन्ध्यापुत्रस्य पौत्रस्य स्कन्धम् आसादयन्ति ते ॥
असत्यप्रतिभासानाम् एतद् एवाशु कारणम् ।
यद् अनालोकनं नाम समालोकाक्षयक्षयम् ॥
परमात्मायते जीवो ऽबुध्यमानस् त्व् अचेतनम् ।
चेतनं बुध्यमानस् तु जीव एवावतिष्ठते ॥
परमात्मैव जीवो ऽयं बुध्यमानस् त्व् अचेतनम् ।
आम्र एव रसापत्तेḫ प्रयाति सहकारताम् ॥
चेतनं बुध्यमानस् तु जीव एवावतिष्ठते ।
जीवो जीवति जीर्णेषु जातिजन्मसु जर्जरः ॥
ये परां दृष्टिम् आयाता दृश्यश्रीपारदर्शिनः ।
न विद्यमानम् अप्य् अस्ति तेषां वेदनम् आततम् ॥
ये परां दृष्टिम् आयाता विद्धि तेषाम् अपाम् इव ।
अरूपालोकमननं स्पन्दम् अस्पन्दनं सदा ॥
ये परां दृष्टिम् आयाता विद्धि तेषाम् अपाम् इव ।
स्पन्दम् अस्पन्दनं सर्वम् अवेदनवशाद् इह ॥
अरूपालोकमननं वेष्टितोन्मुक्तदामवत् ।
बुद्धाẖ कर्मसु चेष्टन्ते वृक्षपत्त्रेष्व् इवानिलाः ॥
ये परां दृष्टिम् आयातास् संसृतेḫ पारदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव ॥
ये बद्धवासना मूढाẖ कर्म शंसन्ति ते ऽनघ ।
श्रुतिस्मृत्युदितं तेन विनाधोऽधḫ पतन्ति ते ॥
इन्द्रियाणि पतन्त्य् अर्थं धृष्टगृध्रा इवामिषम् ।
तानि संयम्य मनसा युक्त आसीत तत्परः ॥
नासन्निवेशं हेमास्ति नासर्गं ब्रह्म विद्यते ।
किं तु सर्गादिशब्दार्थमुक्तं युक्तम् अतश् शिवम् ॥
एकान्धकारे सम्पन्ने व्यवहारो युगक्षये ।
निर्विभागो निराभासो यथा ब्रह्मघने तथा ॥
अभ्रोदरे ऽभ्रभागानां स्पन्दास्पन्दमयी यथा ।
स्वसंविदात्मिका सत्ता भूतानाम् ईश्वरे तथा ॥
जलस्यान्तर् जलांशानां द्वैताद्वैतमयो यथा ।
स्वसंविदात्मा स्वस्पन्दस् तथा ब्रह्मणि भूतदृक् ॥
यथाम्बरे ऽम्बरांशानां द्वैताद्वैतैकतात्मनि ।
स्वसंविदात्मिका सत्ता भूतानाम् ईश्वरे तथा ॥
अनन्यावयवव्याप्तिर् यथावयविनि स्थिता ।
अनन्या सृष्टिर् आभाति तथानवयवे शिवे ॥
जगतो ऽन्तर् अहंरूपम् अहंरूपान्तरे जगत् ।
स्थितम् अन्योऽन्यवलितं कदलीदलपीठवत् ॥
रूपालोकमनस्कारै रन्ध्रैर् बहिर् इव स्थिताम् ।
सृष्टिं पश्यति जीवो ऽन्तस् सरसीम् इव पर्वतः ॥
जीवो जगत्तयात्मानं पश्यत्य् अयम् अकारणम् ।
हेमेव कटकादित्वं तद् अपश्यन् न पश्यति ॥
जीवन्तो ऽपि न जीवन्ति म्रियन्ते न मृता अपि ।
सन्तो ऽपि न च सन्तीव परावरविदश् शुभाः ॥
प्रबुद्धस् सर्वकर्माणि कुर्वन्न् अपि न पश्यति ।
गृहकर्माणि गेहस्थो गोष्ठभाण्डमना इव ॥
विराड् हृदि यथा चन्द्रḫ प्रतिदेहं तथा स्थितः ।
जीवो हिमकणाकारस् स्थूले स्थूलो लघौ लघुः ॥
अहमात्मा त्रिकोणत्वम् उपगच्छति कल्पनात् ।
असद् एव सदाभासं मन्यते चेतनाद् वपुः ॥
कर्मकोशे त्रिकोणे तु शुक्रसारो ऽवतिष्ठते ।
देहे जीवो ऽहम् इत्य् आत्मा स्वामोदẖ कुसुमे यथा ॥
अहम् इत्य् एव शुक्रस्था संविद् आपादमस्तकम् ।
विसरत्य् अखिले ज्योत्स्ना यथा ब्रह्माण्डमण्डपे ॥
अक्षरन्ध्रप्रणालेन विवृतं वेदनोदकम् ।
व्याप्नोति त्रिजगद् धूमो वियन् मेघतया यथा ॥
देहे यद्य् अप्य् अशेषे ऽस्मिन् बहिर् अन्तश् च वेदनम् ।
विद्यते तत् तथाप्य् अत्र शुक्रे ऽस्ति घनवासनम् ॥
जीवस् सङ्कल्पमात्रात्मा यत्सङ्कल्पो ऽवतिष्ठते ।
हृदि भूत्वा स एवाशु बहिḫ प्रसरति स्फुटम् ॥
यथास्थितास्यां निश्चिन्तां वर्जयित्वाम्बरोपमाम् ।
न कयाचिद् अपि स्थित्या शाम्यत्य् अहम् इति भ्रमः ॥
चिन्ता तु चिन्त्यमानापि भावनीयाम्बरोपमा ।
अहम्भावोपशमने शमनेन क्रमेण ते ॥
तज्ज्ञा व्यवहरन्तीह भाव्यभावनवर्जितम् ।
अरूपालोकमननं मौनदारुनरा इव ॥
अकिञ्चिद्भावनो यस् स्यात् स मुक्त इति कथ्यते ।
जीवन्न् आकाशविशदो बद्धस् त्व् अन्य इव स्फुटम् ॥
अहम् इत्य् एव शुक्रस्था संविद् आपादमस्तकम् ।
विसरत्य् अखिले देहे ब्रह्माण्डे ऽर्कप्रभा यथा ॥
दृङ् नेत्रं स्वदनं जिह्वा श्रुतिश् श्रोत्रं भवत्य् असौ ।
इत्याद्या वासनाḫ पञ्च बद्ध्वा तासु निमज्जति ॥
विद्भावो ऽक्षतयोदेति मनो भूत्वैकदेशतः ।
सर्वगो ऽपि रसो भूमौ यथाङ्कुरतया मधौ ॥
यो भावयति भावेषु नेह रूढेष्व् अभावताम् ।
तस्यायत्नवतो दुẖखम् अनन्तं नोपशाम्यति ॥
येन केनचिद् आच्छन्नो येन केनचिद् आशितः ।
यत्र क्वचन शायी ज्ञस् सम्राड् इव विराजते ॥
वासनाभिर् उपेतो ऽपि समग्राभिर् अवासनः ।
अन्तश्शून्यो ऽप्य् अशून्यात्मा खम् इव श्वसनान्वितः ॥
आसने शयने याने स्थितो यत्नेन बोध्यते ।
निद्रालुर् इव निर्वाणमनोमनननिर्वृतः ॥
संविन्मात्रं हि पुरुषस् सर्वगो ऽपि स तिष्ठति ।
स्फुटं सारे शरीरस्य यथा गन्धो ऽब्जकोटरे ॥
संविन्मात्रं विदुर् जन्तुं तस्य प्रसरणं जगत् ।
आत्मनिष्ठत्वम् अजगत् परमेत्य् उपदेशभूः ॥
नीरसो भव भावेषु सर्वेषु विभवादिषु ।
पाषाणं हृदयं कृत्वा तथा भवसि भूतये ॥
साधो हृदयसौषिर्यम् असौषिर्यम् इवास्तु ते ।
अविद्वद्वपुषो ऽवित्त्वाद् उपलस्येव राघव ॥
तज्ज्ञाज्ञयोर् अशेषेषु भावाभावेषु कर्मसु ।
ऋते निर्वासनत्वात् तु न विशेषो ऽस्ति कश्चन ॥
सत्तैवैषा विदो यत् सा भवत्य् उन्मिषिता जगत् ।
परं तत्त्वं निमिषिता दृग् इवानामकं ततम् ॥
दृश्यं विनश्यत्य् अखिलं विनष्टं जायते पुनः ।
यन् न नष्टं न चोत्पन्नं तत् सत् तद् भव तद् भवान् ॥
भावना ज्ञप्तिनिर्मूला भावितापि न विद्यते ।
सलिलं मृगतृष्णेव न ददाति भवाङ्कुरम् ॥
यथाभूतार्थसन्दर्शच्छिन्नाहम् इति भावना ।
दृष्टापि न करोत्य् अन्तर् दग्धं बीजम् इवाङ्कुरम् ॥
कर्म कुर्वन्न् अकुर्वन् वा वीतरागो निरामयः ।
निर्मना नित्यनिर्वाणो मुनिर् आत्मनि तिष्ठति ॥
चित्तोपशान्तौ संशान्ताश् शान्तये भोगबन्धवः ।
न त्व् अभावपरिक्षीणाश् चित्तम् एषां किलाकरः ॥
अघनẖ केवलालोको बुद्धो जीवḫ परायते ।
स एवान्यो ऽप्य् अनन्यो ऽन्तरपराह्ण इवातपः ॥
एकदेशस्थितात् पुंसो दूरं यातस्य चेतसः ।
यद् रूपम् अकलं मध्ये तद् रूपं परमात्मनः ॥
चारु चिद् व्योमकर्पूरं यच् चमत्कुरुते स्वयम् ।
अनन्तम् अन्तर् अव्यक्तं जगद् इत्य् एव वेत्ति तत् ॥
गतभवभ्रमभासुरम् अक्षयं शमम् उपेतम् उपेक्षितदीपवत् ।
स्थितम् अपीह जनं जगदीश्वरा ननु नमन्ति रमन्ति मुदा च खे ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0