मोक्षोपाय · अध्याय 6.178
ज्ञानिनैव सदा भाव्यं राम न ज्ञानबन्धुना ।
अज्ञतैव वरं मन्ये न पुनर् ज्ञानबन्धुता ॥
किम् उच्यते ज्ञानबन्धुर् ज्ञानी चैव किम् उच्यते ।
किं फलं ज्ञानबन्धुत्वे ज्ञानित्वे ऽपि च किं फलं ॥
व्याचष्टे यḫ पठति च शास्त्रं भोगाय शिल्पिवत् ।
यतते न त्व् अनुष्ठाने ज्ञानबन्धुस् स उच्यते ॥
कर्मस्पन्देषु नो बोधḫ फलितो यस्य दृश्यते ।
बोधशिल्पोपजीवित्वाज् ज्ञानबन्धुस् स उच्यते ॥
वसनाशनमात्रेण तुष्टाश् शास्त्रफलेन ये ।
अज्ञाञ् ज्ञानांशबन्धूंस् तान् विद्याच् छास्त्रार्थशिल्पिनः ॥
प्रवृत्तिलक्षणे धर्मे वर्तते यश् श्रुतोचितम् ।
अदूरवर्तिज्ञानत्वाज् ज्ञानबन्धुस् स उच्यते ॥
आत्मज्ञानं विदुर् ज्ञानं ज्ञानान्य् अन्यानि यानि तु ।
तानि ज्ञानावभासानि सारस्यानवबोधनात् ॥
आत्मज्ञानम् अनासाद्य ज्ञानान्तरलवेन ये ।
सन्तुष्टाẖ कष्टचेष्टेन ते स्मृता ज्ञानबन्धवः ॥
ज्ञानोदितज्ञेयविकासशान्त्या विना न सन्तुष्टधियेह भाव्यम् ।
त्वं ज्ञानबन्धुत्वम् उपेत्य राम रमस्व मा भोगभवामयेषु ॥
आहारार्थं कर्म कुर्याद् अनिन्द्यं कुर्याद् आहारं प्राणसन्धारणार्थम् ।
प्राणास् सन्धार्यास् तत्त्वजिज्ञासनार्थं तत्त्वं जिज्ञास्यं येन भूयो न दुẖखम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0