भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.177

6.177.1

सङ्कल्पपुरुषस् त्व् एष यद् यत् कल्पयति स्वयम् ।
तत् तथा तादृशं पञ्चभूतात्म भवतीव खम् ॥

6.177.2

सर्वं नाम जगज्जातं तत्सङ्कल्पं विदुर् बुधाः ।
तादृग्रूपं पञ्चकात्मविषयोन्मुखम् आगतम् ॥

6.177.3

जगत्पदार्थसार्थस्य विराट् सर्वस्य कारणम् ।
कारणस्य समान्य् एव कार्याणि च भवन्त्य् अतः ॥

6.177.4

यथैष स विराड् एवं विराट् प्रत्येकम् आत्मनि ।
स्वसंविदि प्रसरति बोधवान् न त्व् अबोधवान् ॥

6.177.5

आसरीसृपम् आरुद्रम् एवम् अभ्युत्थितो भ्रमः ।
अणाव् अप्य् अद्रिविस्तारो बीजकोश इव द्रुमः ॥

6.177.6

आसरीसृपम् आरुद्रं विराट् प्रत्येकम् आत्मनि ।
पराणाव् अप्य् अनन्तात्मा बोधतो न त्व् अबोधतः ॥

6.177.7

यादृग् एव विराडात्मन्य् एष विस्तार आगतः ।
तादृग् एवेह सर्वस्मिन्न् अणुमात्रे ऽपि भूतके ॥

6.177.8

परमार्थेन न स्थूलं न सूक्ष्मं किञ्चन क्वचित् ।
यद् यथा भावितं यत्र तत् तथाश्व् अनुभूयते ॥

6.177.9

मनश् चन्द्रमसो जातं मनसश् चन्द्र उत्थितः ।
जीवाज् जीवो ऽथ वैकैषा सत्ता द्रवजलाङ्गवत् ॥

6.177.10

शुक्रसारं विदुर् जीवं प्रालेयकणसन्निभम् ।
आनन्दो बलसन्दोहस् तत एव प्रवर्तते ॥

6.177.11

तं चेतति चिदाभासं पूर्वम् आत्मा स्वम् आत्मना ।
तत्र तन्मयतां धत्ते तेन तन्मयरूपिणीम् ॥

6.177.12

जीवसंविद् अथैषान्तर् यद् उपायाति पञ्चताम् ।
न तत्र कारणं किञ्चिद् विद्यते न च कार्यता ॥

6.177.13

प्रतियोगिव्यवच्छित्तेर् अभावात् स्वत्वभावयोः ।
स्वभावोक्तिर् न चैवात्र भवत्य् अर्थानुसारिणी ॥

6.177.14

जीवो जीवत्वम् एव स्वं जीवत्वाद् एव च स्वतः ।
अन्तस्त्वेन बहिष्ट्वेन दृश्यत्वेन च भावयन् ॥

6.177.15

नीहारेणेव संवीतश् चेत्यवस्तुपरायणः ।
जात्यन्ध इव पन्थानम् आवृतात्मा न पश्यति ॥

6.177.16

जगज्जृम्भिकया जीवस् त्व् अनैक्यद्वित्वया स्थितः ।
स्पन्दशक्त्येव पवनस् स्वात्मनो ऽभिन्नयानया ॥

6.177.17

शुद्धं बुद्धम् अनाद्यन्तं जीवो जनितवासनः ।
आद्यं क्षीव इवात्मानम् आवृतात्मा न पश्यति ॥

6.177.18

अज्ञानस्य महाग्रन्थेर् मिथ्यावेद्यात्मनो ऽसतः ।
अहमित्यर्थरूपस्य भेदो मोक्ष इति स्मृतः ॥

6.177.19

व्यपगतघनचेतनस् समन्ताद् अहम् इति नूनम् अबुध्यमान आस्स्व ।
अनभिधपरचेतनैकरूपस् सदसदसन् न सदा सदोदितश् च ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc