भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.176

6.176.1

मुने जीवस्य यद् रूपम् आकृतिग्रहणं तथा ।
यथा च परमार्थत्वं स्थानं यच् चास्य तद् वद ॥

6.176.2

स्वसङ्कल्पाङ्कचेत्याङ्कं चिद् इत्य् अपरनामकम् ।
अनन्तं चेतनाकाशं जीवशब्देन कथ्यते ॥

6.176.3

न पराणु न च स्थूलं न शून्यं न च किञ्चन ।
चिन्मात्रं स्वानुभूत्यात्म सर्वगं जीव उच्यते ॥

6.176.4

अणीयसाम् अणीयांसं स्थविष्ठं च स्थवीयसाम् ।
नकिञ्चिन्मात्रकं चैव सर्वं जीवं विदुर् बुधाः ॥

6.176.5

यस्य यस्य पदार्थस्य यो भावस् तेन तत्र तम् ।
स्थितं विद्धि तदाभासं तदात्मैकान्तवेदनात् ॥

6.176.6

स चेतति यथा यत्र यद् यदाशु तद् एव हि ।
तथा तत्र तदा राम भवत्य् अनुभवात्मकम् ॥

6.176.7

पवनस्य यथा स्पन्दश् चेत्यं जीवस्य वै तथा ।
स्वसंविन्मात्रनिर्णेयं नोपदेशामयक्षतम् ॥

6.176.8

यथैवास्पन्दनाद् वातस् सन्न् एवैत्य् असदात्मताम् ।
तथैवाचेतनाज् जीवो जीवन्न् एति परां गतिम् ॥

6.176.9

जीवश् चिद्घनरूपत्वाद् अहम् इत्य् एव चेतनात् ।
देशकालक्रियाद्रव्यशक्तीर् निर्माय तिष्ठति ॥

6.176.10

देशकालक्रियाद्रव्यचर्चितां चर्चितां स्वयम् ।
असत्यां सत्यवत् स्फारां तावन्मात्रशरीरकाम् ॥

6.176.11

चेतिताम् असदाकारां प्रालेयपरमाणुताम् ।
पश्यत्य् आत्मन्य् अथात्मत्वे स्वप्ने स्वमरणोपमाम् ॥

6.176.12

स्वप्नस्वावयवान्यत्वसदृशीं तां विभावयन् ।
विस्मृत्य चेतनीं सत्तां तत्ताम् एवाशु गच्छति ॥

6.176.13

एवंरूपो बुध्यमानḫ प्रोच्छूनत्वम् अथात्मनि ।
पश्यत्य् आशु स्वम् आत्मानं चन्द्रबिम्बम् इव द्रुतम् ॥

6.176.14

आत्मन्य् अथेन्दुबिम्बात्मन्य् असौ संवित्तिपञ्चकम् ।
काकतालीयवद् भिन्नम् उदितं चेतति स्वयम् ॥

6.176.15

पञ्चानां संविदां पञ्च भिन्नान्य् अङ्गान्य् असाव् अथ ।
बुध्यते तानि तद्रूपरन्ध्राण्य् अनुभवत्य् अपि ॥

6.176.16

स पञ्चावयवḫ पश्चाद् राजते पुरुषो विराट् ।
अनन्ताकारसंवित्तिर् अव्यक्तात्मा निरामयः ॥

6.176.17

मनोमयो ऽसाव् उदितḫ परस्मात् प्रथमोत्थितः ।
आकाशविशदश् शान्तो नित्यानन्तविभामयः ॥

6.176.18

स चाप्य् अपञ्चभूतात्मा पञ्चभूतात्मकोपमः ।
विराडात्मैकपुरुषḫ परमḫ परमेश्वरः ॥

6.176.19

स्वयम् एवाशु भवति स्वयम् एव विलीयते ।
स्वयम् एव प्रसरति स्वयं सङ्कोचम् एति च ॥

6.176.20

स्वसङ्कल्पकृतेनासौ कल्पौघेन क्षणेन वा ।
यदृच्छयोदेति पुनḫ पुनर् भूत्वोपशाम्यति ॥

6.176.21

मनोमात्रैकरूपात्मा प्रकृतेर् देह एष सः ।
एष पुर्यष्टकं प्रोक्तस् सर्वस्यैवातिवाहिकः ॥

6.176.22

स्थूलस् सूक्ष्मो ऽम्बरात्मैष व्यक्तो ऽव्यक्तो ऽन्तवर्जितः ।
सर्वस्य बहिर् अन्तश् च नकिञ्चित् किञ्चिद् एव च ॥

6.176.23

अङ्गानि राम तस्याष्टौ मनष्षष्ठानि पञ्च च ।
साहम्भावानीन्द्रियाणि भावाभावमयानि च ॥

6.176.24

तेन गीता इमे वेदास् सह शब्दार्थकल्पनैः ।
नियतिस् स्थापिता तेन तथाद्यापि यथा स्थिता ॥

6.176.25

अनन्तम् ऊर्ध्वं मूर्धास्य तथाधḫ पादयोस् तलम् ।
अपराकाशम् उदरम् इदं ब्रह्माण्डमण्डलम् ॥

6.176.26

लोकान्तराण्य् अनन्तानि पार्शुकाẖ क्षतजं पयः ।
मांसपेश्यẖ क्षितिधरास् सरितस् सन्ततास् सिराः ॥

6.176.27

रक्तधारा जलधयो द्विपान्य् एवान्त्रवेष्टनम् ।
बाहवẖ ककुभस् स्फारास् तारका रोमसन्ततिः ॥

6.176.28

पञ्चाशद् अनिलस्कन्धा एकोनाḫ प्राणवायवः ।
मार्ताण्डमण्डलं चण्डं पित्तं जठरपावकः ॥

6.176.29

शशाङ्कमण्डलं जीवश् श्लेष्मा शुक्रं सितं बलम् ।
मनस् सङ्कल्पकोशात्म सारात्म परमामृतम् ॥

6.176.30

मूलं शरीरकोशस्य बीजं कर्मद्रुमस्य च ।
प्रसवस् सर्वभावानाम् इन्दुर् आनन्दकारणम् ॥

6.176.31

यद् इन्दुमण्डलं नाम स सम्राड् जीव उच्यते ।
शरीरकर्ममनसां बीजं मूलं च कारणम् ॥

6.176.32

अस्माद् इन्दुनिभाज् जीवात् प्रसरन्ति जगत्त्रये ।
जीवा मनांसि कर्माणि सुखान्य् अन्नामृतानि च ॥

6.176.33

विराज एते सङ्कल्पा ब्रह्मविष्णुजिनादयः ।
तस्य चित्तचमत्कारास् सुरासुरनभश्चराः ॥

6.176.34

चित्स्वभावो बुध्यमानḫ प्रालेयपरमाणुताम् ।
यदादौ भावयत्य् आशु तदा तत्रैव तिष्ठति ॥

6.176.35

तेनैतद् एव जीवस्य स्थानं विद्धि रघूद्वह ।
पञ्चावयवम् एतत् तच् छरीरम् अनुभूयते ॥

6.176.36

विराड्जीवाच् चन्द्रमसो जीवभूतानि देहिनाम् ।
प्रसरन्त्य् अन्नजातानि प्रालेयविसरात्मना ॥

6.176.37

तान्य् एव देहिदेहेषु जीवा जीवन्ति जीविषु ।
मनोभूता विचेष्टन्ते कर्म जन्मसु कारणम् ॥

6.176.38

एवं विराट् सहस्राणि महाकल्पशतानि च ।
गतान्य् अथ भविष्यन्ति नानाचाराणि सन्ति च ॥

6.176.39

सर्वतो ऽनुभवरूपयानया सत्तयोत्तमपदाद् अभिन्नया ।
अन्तवर्जितमहाङ्गसङ्गया तिष्ठतीति पुरुषḫ परं विराट् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc