भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.175

6.175.1

मरणं सर्वनाशात्म न कदाचन विद्यते ।
स्वसङ्कल्पान्तर् अस्थैर्यं मृतिर् इत्य् अभिधीयते ॥

6.175.2

पश्य मे पुर उह्यन्ते इव मन्दरमेरवः ।
अनूढा अपि दिग्वातैस् सरिद्बिम्बितशैलवत् ॥

6.175.3

उपर्य् उपर्य् अन्तर् अन्तẖ कदलीदलपीठवत् ।
श्लिष्टाश्लिष्टाẖ खरूपाẖ खे मिथस् संसृतयस् स्थिताः ॥

6.175.4

पश्य मे पुर उह्यन्ते इति वाक्यार्थम् अक्षतम् ।
न किञ्चिद् अवगच्छामि यथावन् मुनिनायक ॥

6.175.5

प्राणस्याभ्यन्तरे चित्तं चित्तस्याभ्यन्तरे जगत् ।
विद्यते विविधाकारं बीजस्यान्तर् इव द्रुमः ॥

6.175.6

मृते पुंसि नभोवातैर् मिलन्ति प्राणवायवः ।
सरिज्जलैर् इवाम्भोधिजलान्य् आत्मद्रुतानि हि ॥

6.175.7

इतश् चेतश् च यान्त्य् एव तेषाम् अन्तर् जगन्त्य् अलम् ।
व्योमवातविनुन्नानां सङ्कल्पैकात्मकान्य् अपि ॥

6.175.8

सप्राणवातैḫ पवनैस् स्फुरत्सङ्कल्पगर्भितैः ।
सर्वा एव दिशḫ पूर्णाḫ पश्यामीमास् समन्ततः ॥

6.175.9

अत्रैते पश्य पश्यामि सङ्कल्पजगतां गणैः ।
बुद्धिदृष्ट्या समुह्यन्ते पुरो मन्दरमेरवः ॥

6.175.10

खवाते ऽन्तर् मृतप्राणाḫ प्राणानाम् अन्तरे मनः ।
मनसो ऽन्तर् जगद् विद्धि तिले तैलम् इव स्थितम् ॥

6.175.11

खवातैẖ खे मृतप्राणा यथोह्यन्ते मनोमयाः ।
उह्यन्ते वै तथैतानि तदङ्गानि जगन्त्य् अपि ॥

6.175.12

सभूतान्य् अम्बरोर्व्यादिवृन्दानि त्रिजगन्त्य् अपि ।
उह्यन्ते वाप्य् अनूढानि पुरस् सर्वत्र गन्धवत् ॥

6.175.13

तानि बुद्ध्यैव दृश्यन्ते न दृशा रघुनन्दन ।
पुरस् सङ्कल्परूपाणि स्वस्वप्नपुरपूरवत् ॥

6.175.14

सर्वत्र सर्वदा सन्ति सुसूक्ष्माण्य् एव खाद् अपि ।
कल्पनामात्रसारत्वान् न दह्यन्ते मनाग् अपि ॥

6.175.15

तान्य् एव दृढभावत्वात् स्वेषु लोकेषु तेष्व् अलम् ।
मतान्य् एव चिदंशस्य सर्वगत्वाद् भवान् इव ॥

6.175.16

प्रतिबिम्बपुराणीव पुरḫ प्राणसरिद्रये ।
अनूढान्य् अपि चोह्यन्ते सूढान्य् अपि च नैव च ॥

6.175.17

सौरभाणि समुह्यन्ते वाताङ्गस्थानि राघव ।
जगन्ति प्राणसंस्थानि व्योमात्मकतया तथा ॥

6.175.18

कुम्भे देशान्तरं नीते यथान्तर् व्योम्नि नान्यता ।
स्पन्दनादिमये चित्ते तथैव त्रिजगद्भ्रमे ॥

6.175.19

इत्थं जगद्भ्रान्तिर् इयम् असत्यैवोदितैव ते ।
न विनश्यति नोदेति केवलं ब्रह्मरूपिणी ॥

6.175.20

यदि वाप्य् ऊह्यते वातैस् तत् तद् अस्या न लक्ष्यते ।
तदन्तस्संस्थितैस् स्पन्दो नावि कोशगतैर् इव ॥

6.175.21

यथा स्पन्दो ऽङ्ग लग्नो ऽपि नाव्य् अन्तस् संस्थितैर् अपि ।
न लक्ष्यते तथा ब्रह्म तत्संस्थैस् तन्मयैर् अपि ॥

6.175.22

यथा योजनविस्तीर्णं लघौ सद्मानुभूयते ।
यक्षस्य पादपस्तम्भे परमाणौ तथा जगत् ॥

6.175.23

वस्त्व् अल्पम् अप्य् अतिबृहल् लघुसत्त्वो ऽभिमन्यते ।
मूषिका स्वाञ्जलिद्रव्यम् इव पङ्कम् इवार्भकः ॥

6.175.24

असत्य् एव खरूपे ऽस्मिञ् जगदाख्ये विदो भ्रमे ।
लोकान्तराद्र्योघमयी सुदृढाज्ञस्य भावना ॥

6.175.25

इदं हेयम् उपादेयम् इदम् इत्य् अन्तर् अज्ञता ।
यस्य तस्य भवायास्ति सर्वज्ञस्यापि मूढता ॥

6.175.26

सचेतनो ह्य् अवयवी चेतत्य् अवयवान् यथा ।
स्वान्तर् एव ततं जीवस् त्रिजगद् बुध्यते तथा ॥

6.175.27

संविदात्म पराकाशम् अनन्तम् अहम् अव्ययः ।
व्योम्नो ऽवयवरूपाणि तस्येमानि जगन्ति मे ॥

6.175.28

सचेतनो ऽयḫपिण्डो ऽन्तẖ क्षुरसूच्यादिकं यथा ।
बुध्यते बुध्यते तद्वज् जीवो ऽन्तस् त्रिजगद्भ्रमम् ॥

6.175.29

अचित् सचिद् वा मृत्पिण्डश् शरावोदञ्चनादिकम् ।
यथाङ्गं मनुते जीवस् तथाङ्गं मनुते जगत् ॥

6.175.30

चिद् अचिद् वाङ्कुरो देहे वृक्षत्वं मन्यते यथा ।
वृक्षशब्दार्थरहितं ब्रह्मेदं त्रिजगत् तथा ॥

6.175.31

चिद् वाचिद् वा यथादर्शो बिम्बितं वाप्य् अबिम्बितम् ।
नगरं वेत्ति नो वापि तथा ब्रह्म जगत्त्रयम् ॥

6.175.32

देशकालक्रियाद्रव्यमात्रम् एव जगत्त्रयम् ।
अहन्त्वजगतोस् तेन भेदो नास्ति तदात्मनोः ॥

6.175.33

कल्पितेनोपमानेन यद् एतद् उपदिश्यते ।
अत्रोपमैकदेशेन उपमेयसधर्मता ॥

6.175.34

यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
अमुञ्चतḫ पराणुत्वं जीवस्यैतत् स्मृतं वपुः ॥

6.175.35

सर्वसंवेदनत्यागे शुद्धसत्तास्पदे पदे ।
न मनाग् अपि भेदो ऽस्ति निस्सङ्गोपलकोशयोः ॥

6.175.36

यो यो नाम समुल्लेखो यत्र यत्र यथा यथा ।
यदा यदा येन येन पयसस् स यथा द्रवः ॥

6.175.37

यो यो नाम विकल्पांशो यत्र यत्र यथा यथा ।
यदा यदा येन येन चीयते स तथेह चित् ॥

6.175.38

अचित्त्वान् नास्ति मनसि सङ्कल्पẖ ख इवाङ्कुरः ।
चित्त्वात् तु चेतसो विद्धि चितेर् एवेह कल्पनम् ॥

6.175.39

या योदेति विकल्पश्रीर् अप्रबुद्धाशयं प्रति ।
सर्वगत्वाद् अनन्तत्वाच् चिद्व्योम्नस् सा न सन्मयी ॥

6.175.40

सर्वसङ्कल्पकलना सत्येत्य् आबालम् अक्षतम् ।
स्वप्नादाव् अनुभूतो ऽन्तर् अर्थẖ केनापलप्स्यते ॥

6.175.41

सङ्कल्पो वास्त्व् असङ्कल्पो यो य आलिखितश् चिता ।
सो ऽनुभूतो ऽप्य् असत्यस् स्याद् असत्यस्यैव नो सतः ॥

6.175.42

असत्यताभिधं सत्यं मुक्त एव भवेच् छिवः ।
सो ऽतिवाहिकदेहैकपरिक्षयविकासवान् ॥

6.175.43

जगन्ति वातैर् उह्यन्ते व्योम्नि शल्मलितूलवत् ।
नोह्यन्ते चोपलानीव न च सन्त्य् एव कल्पनात् ॥

6.175.44

इत्य् अस्मिन्न् अखिलपदार्थसार्थकोशे व्योमन्य् अप्य् अतिवितते जगन्ति सन्ति ।
क्षुब्धाम्बुप्रसृततरङ्गभङ्गभङ्ग्या सर्वत्राविरलतरं मिथो मिलन्ति ॥

6.175.45

अन्योऽन्यं नियतम् अरोधकानि नित्यं प्रोत्कम्पान्य् अमलनभांसि वारिणीव ।
चित्रज्ञप्रविसृतचित्तचित्रजालानीवान्तर् बहिर् इव वृन्दजृम्भितानि ॥

6.175.46

अन्योऽन्यं परिमिलितानि कानिचित् खे नान्योऽन्यं परिमिलितानि कानिचिच् च ।
सर्वत्वात् परमचितेर् अनन्तरूपाण्य् आरम्भप्रचुरदिगन्तसम्भृतानि ॥

6.175.47

लोलाम्बूदरपुरबिम्बभङ्गुराणि स्वान्तस्थाविरलमहापुरोपमानि ।
सुस्थैर्याण्य् अपि सततं क्षणक्षयाणि चिद्रूपार्णवलहरीविवर्तनानि ॥

6.175.48

पृथक्स्थितानि व्यतिमिश्रितानि जलानि वेवाम्बुनिधौ नदीनाम् ।
तारार्कचन्द्रग्रहमण्डलानां समोदितानां नभसीव भासः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc