मोक्षोपाय · अध्याय 6.174
अनहंवेदनाद् एव शुभाशुभफलप्रदा ।
संसारफलिनी नूनम् इच्छान्तर् उपशाम्यति ॥
अनहंवेदनाभ्यासात् समलोष्टाश्मकाञ्चनः ।
भूत्वा शान्तभवापीडो न नरḫ परिताम्यति ॥
स्वसत्तापुटकोड्डीनḫ परबोधबलेरितः ।
अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति ॥
अहन्तापुटकोड्डीनो ब्रह्मवीरबलेरितः ।
शरीरयन्त्रपाषाणो न जाने क्वाशु गच्छति ॥
अहमर्थहिमं त्व् अन्तर् अनहन्ताविदर्चिषा ।
उड्डीयेव विलीनं सन् न जाने क्वाशु गच्छति ॥
अहंरसो विलीनो ऽन्तर् अनहन्ताविदर्चिषा ।
शरीरपर्णाद् उद्वर्णान् न जाने क्वाशु गच्छति ॥
शरीरपर्णान् निष्पीतो ह्य् अहम्भावरसासवः ।
अनहन्तार्कमार्गेण परताम् अधिगच्छति ॥
शयने कर्दमे शैले गृहे व्योम्नि स्थले जले ।
स्थूला सूक्ष्मा निराकारा रूपान्तरगतापि च ॥
यत्र तत्र स्थिता सुप्ता प्रबुद्धा भस्मतां गता ।
मृता पीता निमग्ना च दूरस्था निकटा सती ॥
शरीरवटधानान्तस्स्थिताहन्त्वनवाङ्कुरा ।
शाखाजालं तनोत्य् उच्चैस् संसाराख्यम् इदं क्षणात् ॥
अहन्त्ववटधानान्तस्स्थितो देहबृहद्द्रुमः ।
संसारशाखानिवहं यत्र तत्र तनोत्य् अलम् ॥
शाखाशतेद्धदलपुष्पफलो द्रुमो ऽस्ति बीजोदरे न तु दृशा परिदृश्यते ऽसौ ।
देहो ऽप्य् अहन्त्वकणिकान्तर् अशेषदृश्यसंवित्परीत इति दृश्यदृशैव दृष्टम् ॥
देहाद् अहन्त्वम् अनवाप्तवतो विचारैर् विद्व्योममात्रवपुषो वपुषो ऽथ वोच्चैः ।
नाहन्त्वबीजजठराद् असतो ऽभ्युदेति संसारवृक्ष इह बोधमहाग्निदग्धात् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0