भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.169

6.169.1

ख एव व्योम सम्पन्नम् इति सङ्कल्पनं यथा ।
भ्रान्तिमात्रम् असद्रूपं तथाहम्भावभावनम् ॥

6.169.2

खं खे जातम् इति भ्रान्तेर् अहं कल्पयिता यथा ।
तथा निर्व्यपदेश्यात्म सद् अस्त्य् असद् इवाततम् ॥

6.169.3

खे खात्मैवास्ति चिद्रूपं तत् स्वकं विद्यते वपुः ।
भासते यद् इदन्त्वेन नाहम् अस्मि न चानहम् ॥

6.169.4

ततं चिद्रूपम् अस्तीदृग् यत्र स्थूलं खम् अप्य् अलम् ।
अणाव् इव महामेरुस् तत्संवित्तिर् हि खादिता ॥

6.169.5

घनस् ततो विदाभासẖ खाद् अप्य् अतितराम् अणुः ।
जानाति यत् स्वभावं तद् एतत् सर्गतया स्थितम् ॥

6.169.6

अहन्ताखादिताद्यात्म विदḫ प्रसरणं जगत् ।
अम्भोद्रवप्रसरणं यथावर्तादिवेष्टनम् ॥

6.169.7

अवित्प्रसरणं शान्तम् अस्पन्दीव जलद्रवः ।
निस्स्पन्दपवनाकारम् आकाशहृदयोपमम् ॥

6.169.8

न देशकालादि जगत्प्रसरेषूपयुज्यते ।
घनाच् छून्यान् निराभासाद् विन्मात्रप्रसराद् ऋते ॥

6.169.9

विन्मात्रे प्रसृते काष्ठे व्योम्नि नावि जले स्थले ।
निद्रायां जाग्रति स्वप्ने भवेज् जगद् इवोदितम् ॥

6.169.10

प्रसरणाप्रसरणे न च सम्भवतो मिथः ।
खाद् अप्य् अतितराच्छत्वाद् अक्षोभादेस् सदैव हि ॥

6.169.11

ज्ञश् चेतति न भोगादि न चैवात्मन्य् असाव् अहम् ।
द्रवत्वम् अम्भसीवान्तर् अद्वितीयḫ परे स्थितः ॥

6.169.12

धीर् ह्रीश् श्रीस् स्त्री स्मृतिẖ कीर्तिẖ कान्तिर् इत्यादिकं गणम् ।
न पश्यति विसङ्कल्पस् तमसीव पदान्य् अहेः ॥

6.169.13

ब्रह्मेन्दुबिम्बस्फुरितश् चिज्ज्योत्स्नाच्छामृतद्रवः ।
दिक्कालासम्भवात् सर्गो नेश्वराद् व्यतिरिच्यते ॥

6.169.14

अदिगाद्य् अस्फुरच् चैव परे स्फुरति भासुरम् ।
जगदाद्यात्मकं चित्त्वं चक्रौघत्वम् इवाम्भसि ॥

6.169.15

मज्जनोन्मज्जनारावैर् विवर्तावर्तवेष्टनैः ।
अच्छिन्नानुपदं क्षीणा वाति सर्गसरिच् चिरम् ॥

6.169.16

यथावर्तैḫ पयो याति धूमो याति यथा नभः ।
तथा जडात्मकतया तृतीयस् सर्ग एतयोः ॥

6.169.17

दारुणि क्रकचच्छेदे यथावर्तादिकं तथा ।
अदिगादौ परे सर्गस् तद् एतद्रूपवान् अयम् ॥

6.169.18

संसारकदलीस्तम्भाद् विना सङ्कल्पपल्लवात् ।
मृदुनो ऽपि दृषत्क्रूरान् न किञ्चिल् लभ्यते ऽन्तरात् ॥

6.169.19

सहस्रखुरमूर्धाक्षिकरवक्त्रेहितेहितम् ।
नानाद्रितरुदिग्देशसरित्प्रादेशमात्रकम् ॥

6.169.20

अन्तश्शून्यम् असारात्म बहुरागोपरञ्जितम् ।
स्फुरद्विरागविहितमार्जनामात्रतर्जनम् ॥

6.169.21

ससुरासुरगन्धर्वविद्याधरमहोरगम् ।
जडात्मपवनस्पन्दि जडचेतनचेतितम् ॥

6.169.22

पटे चित्रमहाराज्यम् इव भासुरसुन्दरम् ।
परामर्शासहं चारु विकल्पस्फूर्जितं जगत् ॥

6.169.23

स्पन्दात्मनि विकल्पांशे प्रतिभासत्यरूपिणि ।
संवित् प्रसरति भ्रान्तौ तैलबिन्दुर् इवाम्भसि ॥

6.169.24

हृल्लेखाजालविसरैस् सर्गावर्तविवर्तनैः ।
विसरत्स्नेहसम्मिश्रजडानुशयचर्वणैः ॥

6.169.25

अहमित्यादिविद्रूपे विकल्पेनोन्मुखी सती ।
न पराद् व्यतिरिक्तैषा जलत्वाद् इव तोयता ॥

6.169.26

विदा नित्यस् स्व आत्मैव सर्ग इत्य् अभिधीयते ।
भूत्वाहम् इति तेनान्यो न सर्गो ऽस्ति न सर्गकः ॥

6.169.27

स्पन्दात्मतायां शान्तायां यथा स्पन्दं जलद्रवः ।
न वेत्ति जगदाभासं चितḫ प्रसरणं तथा ॥

6.169.28

आवर्तत्वे तरङ्गत्वं न यथा वेत्त्य् अपां द्रवः ।
तथा चिद् आत्मव्योमत्वे न व्योमत्वादि वेत्ति हि ॥

6.169.29

देशकालादिनिर्माणपूर्वकं वेदनं विदः ।
सर्गात्मकत्वात् तेनाम्बु द्रवसाम्यं न दूरगम् ॥

6.169.30

मनोऽहम्भावबुद्ध्यादि यत् किञ्चिन् नाम वेदनम् ।
अविद्यां विद्धि यत्नेन पौरुषेणाशु नश्यति ॥

6.169.31

अर्धं मिथस् सङ्कथया भागश् शास्त्रविचारणैः ।
आत्मप्रयत्नतश् शिष्टम् अविद्याया निवर्तते ॥

6.169.32

चतुर्भागात्मनि कृते इत्य् अविद्याक्षये क्रमात् ।
समकालं च यच् छिष्टं तद् अनामार्थसदसत् ॥

6.169.33

अर्धं मिथस्सङ्कथया भागश् शास्त्रविचारणैः ।
आत्मप्रयत्नतो भागẖ कथं तस्या निवर्तते ॥

6.169.34

समकालं क्रमाच् चेति मुनिनाथ किम् उच्यते ।
तद् अनामार्थसच् चेति तच् चासच् चेति किं वद ॥

6.169.35

सुजनेन विरक्तेन संसारोत्तरणार्थिना ।
सह वाध्यात्मविदुषा संसृतिं प्रविचारयेत् ॥

6.169.36

यतẖ कुतश्चिद् अन्विष्य सविरागम् अमत्सरम् ।
जनं सुजनम् आत्मज्ञं यत्नेनाराधयेद् बुधम् ॥

6.169.37

सम्पन्ने सङ्गमे साधोर् अविद्यार्धं क्षयं गतम् ।
विद्धि वेद्यविदां श्रेष्ठ ज्येष्ठश्रेष्ठदशोदयात् ॥

6.169.38

अर्धं सज्जनसम्पर्काद् अविद्याया विनश्यति ।
चतुर्भागस् तु शास्त्रोक्तैश् चतुर्भागस् स्वयत्नतः ॥

6.169.39

एको ऽभिलाष उत्पन्नो भोगेभ्यश् च निवार्यते ।
तत् क्षयं यात्य् अविद्यायाश् चतुर्थो ऽंशस् स्वयत्नतः ॥

6.169.40

साधुसङ्गमशास्त्रार्थस्वयत्नैẖ क्षीयते मलम् ।
एकैकेनाथ सर्वैश् च समकालं क्रमाद् अपि ॥

6.169.41

यद् अविद्याक्षयैकात्म नकिञ्चित् किञ्चिद् एव वा ।
शिष्यते तत् परं प्राहुर् अनामार्थम् असच् च सत् ॥

6.169.42

ब्रह्मेदं घनम् अजराद्य् अनन्तम् एकं सङ्कल्पस्फुरणम् अनाद्य् अनन्तम् एव ।
बुद्ध्वैवं व्यपगतमानमेयमोहो निर्वाणḫ परिविहरन् विशोकम् आस्स्व ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc