भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.170

6.170.1

जगत्प्रसरपूरस्य न देश उपयुज्यते ।
न कालो धारणे स्तम्भ आलोकस्याम्बरे यथा ॥

6.170.2

मनोमनननिर्माणमात्रम् एतज् जगत्त्रयम् ।
शान्तं तनु लघु स्वच्छं वातान्तस् सौरभाद् अपि ॥

6.170.3

चिच्चमत्कृतिमात्रस्य साधो जगदणोẖ किल ।
वातान्तस् सौरभं मेरुर् अन्यानुभवयोगतः ॥

6.170.4

यं प्रत्य् उदेति सर्गो ऽयं स एवेह हि चेतति ।
पदार्थस् सन्निवेशं स्वम् इह स्वप्नं पुमान् इव ॥

6.170.5

अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ।
यद् वृत्तं देवराजस्य त्रसरेणूदरे पुरा ॥

6.170.6

क्वचित् कदाचित् कस्मिंश्चित् किञ्चित् कल्पद्रुमे ऽभवत् ।
कस्याञ्चिद् युगशाखायां फलं जगदुडुम्बरम् ॥

6.170.7

ससुरासुरभूतौघमषकाहितघुङ्घुमम् ।
शैलमांसलपातालद्युभूम्युग्रकवाटकम् ॥

6.170.8

चिच्चमत्कृतिचारूच्चैर् वासनारसपीवरम् ।
विविधानुभवामोदं चित्तास्वादमनोहरं ॥

6.170.9

बृहद्ब्रह्मतरुप्रौढसत्ताव्रततिकोटिगम् ।
अहङ्कारमहावृन्तं समालोकसमुज्ज्वलम् ॥

6.170.10

मोक्षद्वारविकासास्यं सरिदब्धिसिरावृतम् ।
मात्रापञ्चककोशस्थं तरत्तारकशीकरम् ॥

6.170.11

कल्पावसानजरढं कालकोकिलरूपया ।
पातितं शान्तम् आयातं क्वाप्य् अन्तर्धानम् आगतम् ॥

6.170.12

तत्राभूद् अमराधीशश् शक्रस् त्रिभुवनेश्वरः ।
क्षौद्रकुम्भनिषण्णानां क्षुद्राणाम् इव नायकः ॥

6.170.13

गुरूपदेशस्वाभ्यासात् स क्षीणावरणो ऽभवत् ।
महात्मा भावितात्मान्तḫ पूर्वापरविदां वरः ॥

6.170.14

नारायणादिषु ततẖ कदाचिद् वीर्यशालिषु ।
क्वचिद् एव निलीनेषु सत्स्व् एकस् स सुराधिपः ॥

6.170.15

शस्त्रज्वालानलोद्गारैर् अयुध्यत महासुरैः ।
विजितस् तैर् महावीरैर् अतो व्यद्रवद् आद्रुतम् ॥

6.170.16

दिशो दश स वेगेन दुद्रावाभिद्रुतो ऽरिभिः ।
न विश्रमास्पदं प्राप परलोक इवाधमः ॥

6.170.17

उद्भ्रान्तवृत्तिष्व् अरिषु मनाक् छिद्रम् अवाप्य सः ।
प्रशमं कार्यसङ्कल्पं नीत्वा स्वं स्वान्तर् एव हि ॥

6.170.18

कम् अप्य् अर्कांशुकोटिस्थं त्रसरेणुं विवेश सः ।
संविद्रूपतया पद्मकोशं स मधुपो यथा ॥

6.170.19

स तत्राशु विशश्राम चिराद् आश्वासम् आययौ ।
अथ विस्मृतसङ्ग्रामो निर्वृतिं समुपागमत् ॥

6.170.20

कल्पितं सद्म तत्राथ स क्षणाद् अनुभूतवान् ।
तस्मिन् सद्मनि पद्माभे रेमे स्व इव विष्टपे ॥

6.170.21

गृहस्थस् स ददर्शाथ कल्पितं नगरं हरिः ।
मणिमुक्ताप्रवालादिकृतप्राकारमन्दिरम् ॥

6.170.22

नगरान्तर्गतो ऽपश्यत् ततो जनपदं हरिः ।
नानाद्रिग्रामगोवाटपत्तनारण्यसंयुतम् ॥

6.170.23

तादृग्रतिश् चेतितवान् स शक्रो भुवणं ततः ।
साद्रिद्यूर्वीनदीशांशं सक्रियाकालकल्पनम् ॥

6.170.24

तादृग्रतिश् चेतितवान् स शक्रस् त्रिजगत् ततः ।
सपातालमहीव्योमविष्टपार्कादिपर्वतम् ॥

6.170.25

तत्रातिष्ठत् सुरेशत्वे स भोगभरभूषितः ।
पुत्रो बभूव तस्याथ कुन्दो नामातिवीर्यवान् ॥

6.170.26

ततो जीवितपर्यन्ते त्यक्त्वा देहम् अनिन्दितः ।
निर्वाणम् आययौ शक्रो निस्स्नेह इव दीपकः ॥

6.170.27

कुन्दस् त्रैलोक्यराजो ऽभूज् जनयित्वा सुतं शुभम् ।
कालेन जीवितस्यान्ते प्राप्तवान् परमं पदम् ॥

6.170.28

तत्पुत्रो ऽपि तथैवाथ कृत्वा राज्ये सुतं निजम् ।
जगाम जीवितस्यान्ते पावनं परमं पदम् ॥

6.170.29

एवं पौत्रसहस्राणि समतीतानि सुन्दर ।
तत्राद्यापि सुरेशस्य येषां राज्ये स्थितो ऽंशकः ॥

6.170.30

इत्य् अद्य यावद् अमरेश्वरवंश एष सङ्कल्पितो जगति वंशपदं विधत्ते ।
तस्मिन् क्षते ऽपि गलिते ऽपि हते ऽपि नष्टे क्वाप्य् अम्बरे दिनकरातपपावनाणौ ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc