भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.168

6.168.1

शस्त्राणि दयिताङ्गानि मग्नान्य् अङ्गे निरम्बरे ।
यो बुध्यमानस् सुसमस् स परस्मिन् पदे स्थितः ॥

6.168.2

तावत् पुरुषयत्नेन धैर्येणाभ्यासम् आहरेत् ।
यावत् सुषुप्ततोदेति पदार्थोदयनं प्रति ॥

6.168.3

यथाभूतार्थतत्त्वज्ञम् आधयो ऽङ्गगता अपि ।
न मनाग् अपि लिम्पन्ति पयांसीव सरोरुहम् ॥

6.168.4

शस्त्राङ्गनानभांस्य् अङ्गलग्नान्य् अलम् असंविदन् ।
अलग्नानीव शान्तात्मा यḫ पश्यति स पश्यति ॥

6.168.5

विषं यथा स्वान्तर् एव घुग्घुन्थीभवति स्वयम् ।
न च घुग्घुन्थता नाम विषाद् अन्यास्ति काचन ॥

6.168.6

स्वरूपम् अजहन्न् एव जीवताम् अधितिष्ठति ।
तथात्मा तत्परिज्ञानमात्रैकप्रविलायिनीम् ॥

6.168.7

जीवीभवति घुग्घुन्थो मृत्यात्मैव यथा तथा ।
अत्यजन्ती निजं रूपं चिज् जडं रूपम् ऋच्छति ॥

6.168.8

ब्रह्मण्य् अनन्यो ऽप्य् अन्याभो घुग्घुन्थकवद् उत्थितः ।
तत्स्थस् स एवास इवाप्य् अतत्स्थ इव सर्गकः ॥

6.168.9

विषं विषत्वम् अजहद् यथा स्वान्तẖ क्रिमिẖ क्रमात् ।
न जायते न म्रियते जायते म्रियते ऽपि च ॥

6.168.10

स्वेनैव संविदर्थेन पदार्थानाम् अरूपिणा ।
तीर्यते गोष्पदम् इव न तु दैवाद् भवार्णवः ॥

6.168.11

सर्वभावान्तरावस्था सर्वभावातिशायिनी ।
अन्तश्शीतलता यस्मिंस् तस्मिन् किम् अवहेलनम् ॥

6.168.12

जगत्पदार्थसत्तान्तस् सामान्येनाशु भाव्यताम् ।
मनोऽहङ्कारबुद्ध्यादिẖ कẖ कलङ्को ऽमलात्मनि ॥

6.168.13

यथा घटपटाद्य् अर्थान् पश्यस्य् अर्थं शरीरकम् ।
तथाहन्त्वमनोबुद्धिवेदनाद्य् अपि पश्य हे ॥

6.168.14

जगत्पदार्थसार्थौघं मनोबुद्ध्यादिसंयुतम् ।
ज्ञ एवासंविदंस् तिष्ठ परिनिष्ठितनिष्ठया ॥

6.168.15

न केनचित् कस्यचिद् एव कश्चिद् दोषो न चैवेह गुणẖ कदाचित् ।
सुखेन दुẖखेन भवाभवेन न चास्ति भोक्ता न च कर्तृतेति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc