मोक्षोपाय · अध्याय 6.163
यद् उदारम् अनायासं क्षयातिशयवर्जितम् ।
पदं पावनम् आद्यन्तरहितं तद् वदाशु मे ॥
एतावन्तम् अहं कालं सुप्त आसं जडात्मकः ।
इदानीं सम्प्रबुद्धो ऽस्मि प्रसादाद् आत्मनो मुने ॥
मनोमहामयोत्तब्धं लुब्धम् अज्ञानवृत्तिषु ।
माम् उद्धर दुरन्तेहं मोहाद् अहम् इति स्थितात् ॥
श्रीमत्य् अपि पतन्त्य् आशु शातनोत्का दुराधयः ।
गुणवत्य् अग्रपत्त्रे हि तुहिनानीव पङ्कजे ॥
जायन्ते च म्रियन्ते च केवलं जीर्णजन्तवः ।
न धर्माय न मोक्षाय मषका इव पङ्कजे ॥
भावैस् तैर् एव तैर् एव तुच्छलाभविडम्बनैः ।
चिरेण परिखिन्नास् स्मो विप्रलब्धाḫ पुनḫ पुनः ॥
नाणुम् अप्य् अवगच्छामि विश्रान्तिं श्रान्तमानसः ।
प्रभ्रमन् भोगभङ्गेषु मरुभूमिष्व् इवाध्वगः ॥
आपातमधुरारम्भा भङ्गुरा भवहेतवः ।
अचिरेण विकारिण्यो भीषणा भोगभूमयः ॥
मानावमानपरया दुरहङ्कारकान्तया ।
न रमे वामया तात हतविद्याधरश्रिया ॥
दृष्टाश् चैत्ररथोद्यानभुवẖ कुसुमकोमलाः ।
कल्पवृक्षलतादत्तसमस्तविभवश्रियः ॥
विहृतं मेरुकुञ्जेषु विद्याधरपुरेषु च ।
विमानवरमालासु वातस्कन्धस्थलीषु च ॥
विश्रान्तं सुरसेनासु कान्ताभुजलतासु च ।
हारिहारविलासासु लोकपालपुरीषु च ॥
न किञ्चिद् उचितं साधु सर्वम् आधिविषोष्मणा ।
दग्धं भस्मायते तात विज्ञातम् अधुना मया ॥
रूपालोकनलोलेन वनिताननगृध्नुना ।
सावभासेन दोषाय दुẖखं नीतो ऽस्मि चक्षुषा ॥
इदं गुणावहं नेदम् इति मुक्त्वा विकल्पनम् ।
रूपमात्रानुसारित्वाद् अवस्तुन्य् अपि धावति ॥
तावद् आयाति विरतिं न शठं यावद् आपदम् ।
नानीतवत् परां चेतḫ परानर्थेहितोन्मुखम् ॥
घ्राणम् एतद् अनर्थाय धावच् चैवाभितस् स्फुटम् ।
न निवारयितुं तात शक्नोमीह हयं यथा ॥
गन्धोदकप्रणालेन सुखदुẖखानुपातिना ।
वैरिणेवातिदोषेषु घ्राणेनास्मि नियोजितः ॥
चिरं रसनया चाहम् अनया नयहीनया ।
गर्धगोमायुगुप्तेषु दुẖखाद्रिष्व् अलम् आहतः ॥
निषेद्धुं न च शक्नोमि स्पर्शलम्पटतां त्वचः ।
ग्रीष्मकालसमिद्धस्य तापम् अंशुमतो यथा ॥
शुभशब्दरसार्थिन्यो मुने श्रवणशक्तयः ।
मां योजयन्ति विषमे तृणेच्छा हरिणं यथा ॥
प्रणताḫ प्रियकारिण्यḫ प्रह्वभृत्यसमीरिताः ।
वाद्यगेयरवोन्मिश्राश् शुभशब्दश्रियश् श्रुताः ॥
श्रियस् स्त्रियो दिशश् चैव तट्यश् चाम्भोधिभूभृताम् ।
दृष्टा विभ्रमहारिण्यḫ प्रक्वणन्मणिभूषणाः ॥
चिरम् आस्वादितास् स्वादु चमत्कारमनोरमाः ।
प्रह्वकान्ताजनानीताष् षड्रसा गुणशालिनः ॥
कौशेयकामिनीहारकुसुमास्तरणानिलाः ।
निर्विघ्नम् अभितस् स्पृष्टा भृशम् आभोगभूमिषु ॥
वधूमुखौषधीपुष्पसमालम्भनभूमयः ।
अनुभूता मुने गन्धा मन्दानिलसमीरिताः ॥
श्रुतं दृष्टं तथा स्पृष्टं भुक्तं घ्रातं पुनḫ पुनः ।
तत्रापि हि न तृप्तास् स्मो धिग् अज्ञानविजृम्भितं ॥
एतावन्मात्रसारे ऽस्मिन् संसारे व्यस्तविग्रहे ।
संशुष्कविरसे भूयẖ किं भजामि वदाशु मे ॥
भुक्त्वा वर्षसहस्राणि दुर्भोगपटलीम् इमाम् ।
आब्रह्मस्तम्बपर्यन्तं न तृप्तिर् उपजायते ॥
साम्राज्यं सुचिरं कृत्वा तथा भुक्त्वा वधूगणम् ।
भङ्क्त्वाप्य् अरिगणान् उच्चैẖ किम् अपूर्वम् अवाप्यते ॥
येषां दिनाशनं नासीद् यैर् भुक्तं भुवनत्रयम् ।
ते ऽपि ते ऽप्य् अचिरेणैव समं भस्मत्वम् आगताः ॥
प्राप्तेन येन नो भूयḫ प्राप्तव्यम् अवशिष्यते ।
तत्प्राप्तौ यत्नम् आतिष्ठेत् कष्टयापि हि चेष्टया ॥
येन कान्ताश् चिरं भुक्ता भोगास् तस्येह जन्तुभिः ।
दृष्टो न कस्यचिन् मूर्ध्नि तरुर् व्योमप्लवश् च वा ॥
चिरम् एतासु दूरासु विषयारण्यराजिषु ।
इन्द्रियैर् विप्रलब्धो ऽस्मि धूर्तबालैर् इवार्भकः ॥
अद्य त्व् एते परिज्ञाता मया स्वविषयारयः ।
कष्टा इन्द्रियनामानो वञ्चयन्ति न मां पुनः ॥
संसारे जङ्गले शून्ये मुग्धं नरमृगं शठाः ।
आश्वास्याश्वास्य निघ्नन्ति विषयेन्द्रियलुब्धकाः ॥
विषमाशाविषैर् एभिर् विषयेन्द्रियपन्नगैः ।
ये न दष्टा न दृष्टास् ते द्वित्रा एव जगत्य् अपि ॥
भोगभीमेभवलितां तृष्णातरलवागुराम् ।
लोभोग्रकरवालाढ्यां कोपकुन्तकुलाङ्किताम् ॥
द्वन्द्वजालरथव्याप्ताम् अहङ्कारानुपालिताम् ।
चेष्टातुरङ्गमाकीर्णां कामकोलाहलाकुलाम् ॥
शरीरसीमान्तगतां दुरिन्द्रियपताकिनीम् ।
ये जेतुम् उद्यतास् तात त एवेह हि सद्भटाः ॥
सुसाध्यẖ करटोद्भेदो मत्तैरावणदन्तिनः ।
नोत्पथप्रतिपन्नानां स्वेन्द्रियाणां विनिग्रहः ॥
पौरुषस्य महत्त्वस्य सत्त्वस्य महतश् श्रियः ।
इन्द्रियाक्रमणं साधो सीमान्तो महताम् इह ॥
तावद् उत्तमताम् एति पुमान् अपि दिवौकसाम् ।
कृपणैर् इन्द्रियैर् यावन् न स्वैर् एव निपीड्यते ॥
यावज् जितेन्द्रियो जन्तुस् तावन् मेरुर् इवोन्नतः ।
जितश् चेद् इन्द्रियैर् याति तृणाद् अप्य् अपकृष्टताम् ॥
जितेन्द्रिया महासत्त्वा ये त एव नरा भुवि ।
शेषान् अहम् इमान् मन्ये मांसयन्त्रगणांश् चलान् ॥
मनस्सेनापतेस् सेनाम् इमम् इन्द्रियपञ्चकम् ।
जेतुं चेद् अस्ति मे यत्नो जयामि तद् अलं मुने ॥
इन्द्रियोत्तमरोगाणां भोगाशावर्जनाद् ऋते ।
नौषधानि न तीर्थानि न च मन्त्राḫ प्रशान्तये ॥
नीतो ऽस्मि परमं खेदम् अभिधावद्भिर् इन्द्रियैः ।
एक एव महारण्ये तस्करैḫ पथिको यथा ॥
पङ्कवन्त्य् अप्रसन्नानि मद्गुदौर्भाग्यवन्ति च ।
गन्धिशेवालतुच्छानि पल्वलानीन्द्रियाणि च ॥
दुरतिक्रमणीयानि नीहारगहनानि च ।
जीवितानन्तजालानि जङ्गलानीन्द्रियाणि च ॥
पङ्कजानि सरन्ध्राणि सुदुर्लक्ष्यगुणानि च ।
ग्रन्थिमन्ति जडाङ्गानि मृणालानीन्द्रियाणि च ॥
रूक्षाणि रत्नलुब्धानि कल्लोलवलितानि च ।
दुर्ग्रहग्राहघोराणि क्षाराम्बूनीन्द्रियाणि च ॥
बान्धवोद्वेगदायीनि देहान्तरपराणि च ।
करुणाक्रन्दकारीणि मरणानीन्द्रियाणि च ॥
अविवेकिष्व् अमित्राणि मित्राणि च विवेकिषु ।
गहनाततशून्यानि काननानीन्द्रियाणि च ॥
घनास्फोटान्य् असाराणि मलिनानि जडानि च ।
विद्युत्प्रकाशान्य् एतानि महाभ्राणीन्द्रियाणि च ॥
क्षुद्रप्राणिगृहीतानि वर्जितानि कृतात्मभिः ।
रजस्तमोऽभिभूतानि स्वेन्द्रियाण्य् अवटानि च ॥
पातनैकान्तदक्षाणि दोषाशीविषवन्ति च ।
रूक्षकण्टकलग्नानि श्वभ्राग्राणीन्द्रियाणि च ॥
आत्मम्भरीण्य् अनार्याणि साहसैकरतानि च ।
अन्धकारविकारीणि रक्षांसि स्वेन्द्रियाणि च ॥
अन्तश्शून्यान्य् असाराणि वक्राणि ग्रन्थिमन्ति च ।
दहनैकान्तयोग्यानि दुर्दारूणीन्द्रियाणि च ॥
घनमोहप्रतर्दानि दुष्कूपगहनानि च ।
महावकरतुच्छानि कुपुराणीन्द्रियाणि च ॥
अनन्तेषु पदार्थेषु करणानि घटादिषु ।
सभ्रमाणि सपङ्कानि चक्राङ्गानीन्द्रियाणि च ॥
आपन्निमग्नम् इमम् एवम् अकिञ्चनं त्वं माम् उद्धरोद्धरणशील दयोदयेन ।
ये नाम केचन जगत्सु जयन्ति सन्तस् तत्सङ्गमं परमशोकहरं वदन्ति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0