भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.162

6.162.1

स्वभावम् अवजित्यादाव् इन्द्रियाणां सचेतसाम् ।
प्रवर्तते विवेके यस् सर्वं तस्याशु सिध्यति ॥

6.162.2

स्वभावमात्रं येनान्तर् न जितं दग्धबुद्धिना ।
तस्योत्तमपदप्राप्तिस् सिकतातैलदुर्लभा ॥

6.162.3

शुद्धे ऽल्पो ऽप्य् उपदेशो हि निर्मलादर्शतैलवत् ।
लगत्य् उत्तानचित्ते तु नादर्श इव मौक्तिकम् ॥

6.162.4

अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ।
मम पूर्वं भुसुण्डेन कथितं मेरुमूर्धनि ॥

6.162.5

पुरा भुसुण्डẖ कस्मिंश्चित् पृष्ट आसीत् कथान्तरे ।
मया कदाचिद् एकान्ते मेरोश् शिखरकोटरे ॥

6.162.6

मुग्धबुद्धिम् अनात्मज्ञं कञ्चित् त्वं चिरजीवितम् ।
स्मरसीति मया पृष्टेनोक्तं तेनेदम् अङ्ग मे ॥

6.162.7

आसीद् विद्याधरḫ पूर्वम् अनात्मज्ञस् सुखोचितः ।
लोकालोकोत्तरे शृङ्गे शुष्क आर्यो ऽविचारवान् ॥

6.162.8

तपसा बहुरूपेण यमेन नियमेन च ।
अक्षीणायुर् व्यतिष्ठत् स पुरा कल्पचतुष्टयम् ॥

6.162.9

ततश् चतुर्थे कल्पान्ते विवेकस् तस्य तूदभूत् ।
विडूरस्येव वैडूर्यम् औचित्याज् जलदोदयात् ॥

6.162.10

पुनर्मृतिḫ पुनर्जन्म जरा चेति विचारयन् ।
लज्जे ऽहं तत् किम् एकं स्यात् स्थिरम् इत्य् अवमृश्य सः ॥

6.162.11

समाजगाम सम्प्रष्टुम् अष्टापदमयीं पुरीम् ।
स्वाम् उपोज्झ्य विरक्तात्मा संसारारसतां गतः ॥

6.162.12

स मत्समीपम् आगत्य कृतोदारनमस्कृतिः ।
मत्पूजितो ऽवसरत उवाचेदम् अनिन्दितम् ॥

6.162.13

मृदूनि परितापेन दृषद्दृढमलानि च ।
छेदे भेदे च दक्षाणि शस्त्राङ्गानीन्द्रियाणि च ॥

6.162.14

पर्याकुलानि मलिनानि विपत्प्रदानि दुẖखोर्मिमन्ति गुणकाननपावकत्वात् ।
हार्दान्धकारगहनानि तमोमयानि जित्वेन्द्रियाणि सुखम् एमि हि किं ममार्थैः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc