मोक्षोपाय · अध्याय 6.164
ततस् तस्य मया ब्रह्मंस् तच् छ्रुत्वा पावनं वचः ।
इदम् उक्तं यथापृष्टं सुस्पष्टपदया गिरा ॥
साधु विद्याधराधीश दिष्ट्या बुद्धो ऽसि भूतये ।
भवान्धकूपकुहराच् चिरेणोत्थातुम् इच्छसि ॥
पावनीयं तव मती राजते शुद्धरूपिणी ।
विवेकेनानलेनेव कनकद्रवसन्ततिः ॥
उपदेशगिराम् अर्थम् आदत्ते हारिहेलया ।
मकुरे निर्मले द्रव्यम् अयत्नेनैव बिम्बते ॥
यद् इदं वच्मि तत् सर्वम् ओम् इत्य् आदातुम् अर्हसि ।
अस्माभिश् चिरम् अन्विष्टं नात्र कार्या विचारणा ॥
यत् किञ्चित् स्वदते ऽन्तस् ते वस्तु वस्तुतयाश्रितम् ।
तद् अस्वाद्व् इति निर्विघ्नं त्यजंस् तिष्ठ यथासुखम् ॥
निरहङ्कारितां सत्यां बुध्यस्वाबोधम् उत्सृजन् ।
नासि त्वं चिरम् अप्य् अन्तḫ प्रेक्षितो ऽसि न लक्ष्यसे ॥
नाहन्त्वम् अस्ति न जगद् इति निश्चयिनस् तव ।
सर्वम् अस्ति शिवं तच् च न दुẖखाय सुखाय नो ॥
किम् अज्ञत्वाज् जगज् जातं जगतो ऽथ किम् अज्ञता ।
विचार्यापीति नो विद्म एकत्वाद् अलम् एतयोः ॥
मृगतृष्णाम्बुवद् विश्वं अवस्तुत्वात् सद् अप्य् असत् ।
यच् चेदं भाति तत्रैव किञ्चिद् इत्य् एव निश्चयः ॥
मृगतृष्णाम्बुवद् विश्वं अवस्तुत्वात् सद् अप्य् असत् ।
यच् चेदं भाति तद् ब्रह्म नकिञ्चित् किञ्चिद् एव वा ॥
मृगतृष्णाम्बुवद् विश्वं न सन् नासन् न किञ्चन ।
प्रतिभासवशात् सत्यम् अवस्तुत्वाद् असत् सदा ॥
मृगतृष्णाम्बुवद् विश्वं नास्ति सत्यम् अथास्ति च ।
प्रतिभातापि नास्त्य् अत्र तदभावाद् अतश् शिवम् ॥
विश्वबीजम् अहन्त्वं त्वं विद्धि तस्माद् धि जायते ।
साद्रिद्यूर्वीनदीशादिजगज्जरढपादपः ॥
अहन्त्वबीजाद् अणुतो जायते ऽसौ जगद्द्रुमः ।
तस्येन्द्रियरसाढ्यानि मूलानि भुवनानि च ॥
तारका बालकलिका ऋक्षौघẖ कोरकोत्करः ।
वासरा गुच्छविसराḫ पूर्णचन्द्राḫ फलालयः ॥
स्वर्गादयो बृहद्वर्गा महाविटपकोटराः ।
मेरुमन्दरसह्याद्या गिरयḫ पत्त्रराजयः ॥
सप्ताब्धयो ऽङ्ग स्रुतयḫ पातालं मूलकोटरम् ।
अगानि घुणवृन्दानि पर्वाणि पुरपङ्क्तयः ॥
अज्ञानम् उत्पत्तिमही विहगा भूतकोटयः ।
उपलम्भो बृहत्स्तम्भो दावो निर्वाणनिर्वृतिः ॥
रूपालोकमनस्कारा विविधामोदवृत्तयः ।
वनं विपुलम् आकाशं शुक्ला जलमुचस् त्वचः ॥
विचित्रशाखा ऋतव उपशाखा दिशो दश ।
संविद् रसमहापूरो वातस्पन्दो विवर्तनः ॥
चन्द्रार्करुचयो लोला मज्जनोन्मज्जनोन्मुखाः ।
रम्याẖ कुसुममञ्जर्यस् तिमिरभ्रमरभ्रमाः ॥
पातालम् आशागणम् अन्तरिक्षम् आपूर्य तिष्ठत्य् असद् एव सद्वत् ।
तस्यानहन्ताग्निहते ऽहमर्थबीजे पुनर् नास्ति सतो ऽपि रोहः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0