मोक्षोपाय · अध्याय 6.161
साहन्तादिजगच्छान्तौ बोधे संवित्कलात्मनि ।
दीपसंशान्तिसङ्काशस् त्यागस् सिध्यति नान्यथा ॥
न त्यागẖ कर्मसन्त्यागो बोधस् त्याग इति स्मृतः ।
अजगत्प्रतिभैकात्मा यो ऽनहन्तादिर् अव्ययः ॥
अयं सो ऽहम् इदं तन् मे इति निस्स्नेहदीपवत् ।
शान्ते परमनिर्वाणं प्रबोधात्मैव शिष्यते ॥
अयं सो ऽहम् इदं तन् मे शान्तम् इत्य् एव यस्य नो ।
न ज्ञानं तस्य नो शान्तिर् न त्यागो न च निर्वृतिः ॥
ममेदम् अयम् एवाहम् इत्य् एतावति यẖ क्षयः ।
बोधात्मा शिवं शान्तं तु तस्माद् अन्यन् न विद्यते ॥
अहमंशे चिता क्षीणे सर्वम् एव क्षयं गतम् ।
न किञ्चिच् च क्वचित् क्षीणं निर्वाणैकघनं स्थितम् ॥
अहंविद् अनहंवित्त्वाद् एव शाम्यत्य् अविघ्नतः ।
एतावन्मात्रसाध्येयं किम् एवेयं कदर्थना ॥
अहं नाहम् इति भ्रान्तिर् न च वित्त्वाद् ऋते ऽस्ति सा ।
वित्त्वं चाकाशविशदम् अतẖ क्वैषा भ्रमस्थितिः ॥
न भ्रमो भ्रमणं नैव न भ्रान्तिर् भ्रमको ऽस्ति वा ।
अनालोकनम् एवेदम् आलोकान् नेदम् अस्ति ते ॥
विद्धि विन्मात्रम् एवेदम् असद्रूपोपमं ततम् ।
ओम् अलं मौनम् आस्स्वैवं सर्वं निर्वाणमात्रकम् ॥
येनैवाशु निमेषेण त्व् अहम् इत्य् एव चेतति ।
तेनैव नाहम् इत्य् एव चेतित्वाशु न शोच्यते ॥
अहम्भावं नञर्थेन निर्वाप्यारूढबाणवत् ।
अजस्रम् आसवक्षीवस् तिष्ठावष्टब्धतत्पदः ॥
सनञर्थाम् अहन्तां त्वं चेतन्न् एवम् अनारतम् ।
सर्वभावैर् अनारूढो भव तीर्णभवार्णवः ॥
स्वभावमात्रावजये स्वयं यस्य न वीरता ।
तस्योत्तमपदप्राप्तौ पशोर् ब्रूहि कथैव का ॥
षड्वर्गो निर्जितḫ पूर्वं येनोत्तमविदा स्वतः ।
भाजनं स प्रकर्षाणां नेतरो नरगर्दभः ॥
यस्य स्वान्तर् मनोवृत्तिर् जीयमाना जिताथ वा ।
विषयस् स विवेकानां स पुमान् इति कथ्यते ॥
अर्थो दृषद् इवाम्भोधौ यो य आपतति त्वयि ।
तस्माद् एव पलाय्यास्स्व नाहम् इत्य् एव भावनात् ॥
नाहम् अस्मीति बुद्ध्वापि सोपपत्तिकम् अप्य् अलम् ।
ज्ञानाज् ज्ञो ज्ञप्तिमात्रं च किम् अज्ञ इव मुह्यसि ॥
न ज्ञे ऽहमर्थतास्तीह हेम्नीव कटकादिता ।
भ्रान्तिमात्राद् ऋते सा च शाम्यत्य् अस्मरणेन ते ॥
यो यो भाव उदेत्य् अन्तस् त्वयि स्पन्द इवानिले ।
नाहम् अस्मीति चिद्वृत्त्या तम् अनाधारतां नय ॥
लोभो लज्जा मदो मोहो येनादाव् इति नो जिताः ।
निरर्थकम् अनर्थे ऽस्मिन् स किमर्थं प्रवर्तते ॥
अहन्त्वं पवने स्पन्द इव यत् त्वयि संस्थितम् ।
परमात्मनि तन् नान्यद् एतत् स्पन्द इवानिले ॥
असर्गसंविदा सर्गḫ परे ऽस्तीति विराजते ।
सन्निवेशविशेषेण दुरर्थो ऽपि हि शोभते ॥
परमात्मा तु नोदेति नास्तं याति कदाचन ।
न चास्माद् अन्यद् अस्तीति को भावो ऽभाव एव वा ॥
परं परे परापूर्णं शान्ते शान्तं शिवश् शिवे ।
इत्येवमात्रं विततं नाहं न च जगन् न धीः ॥
अनिर्वाणं विनिर्वाणे शान्ते शान्तं शिवे शिवम् ।
निर्वाणम् अपि निर्वाणे सनञर्थं न वापि तत् ॥
शस्त्राघाताḫ प्रसह्यन्ते सह्यन्ते व्याधिवेदनाः ।
नाहम् इत्येवमात्रस्य सहने का कदर्थना ॥
जगत्पदार्थसार्थानाम् अहम् इत्य् अङ्कुरो ऽक्षयः ।
तस्मिन् निर्मूलतां नीते जगन् निर्मूलतां गतम् ॥
बाष्पेणेवाहमर्थेन निस्सारेणापि सारवान् ।
श्यामलḫ परमादर्शस् तच्छान्तौ सम्प्रसीदति ॥
अहमर्थḫ परे वायौ स्पन्दस् तत्प्रशमे तु तत् ।
अनिर्देश्यम् अनाभासम् अनन्तम् अजम् अव्ययम् ॥
अहमर्थḫ पुरो द्रव्यप्रतिबिम्बकरḫ परे ।
रत्ने तद्विलयाद् आस्ते तदरागम् अबिम्बनम् ॥
अहमर्थḫ पुरो द्रव्यप्रतिबिम्बप्रदश् चिति ।
तच्छान्तौ सा निराभासा परमा केवलायते ॥
अहमर्थाम्बुदे क्षीणे परमार्थशरन्नभः ।
परयानन्तया लक्ष्म्या स्वच्छयाच्छं विराजते ॥
अहमर्थमलोन्मुक्तम् अहन्ताताम्रम् अङ्ग चेत् ।
तद् परं परमाभासं सम्पन्नं हेमकान्तिमत् ॥
यथा निरभिधार्थश्रीर् भजत्य् अव्यपदेश्यताम् ।
तथानहन्ताहन्तेयं ब्रह्मत्वम् अधिगच्छति ॥
सत्य् अहन्त्वे स्थितं ब्रह्म सनामेव पदार्थवत् ।
शान्तवत् सद् इवासद्वत् तद्वत् सव्यपदेशवत् ॥
अहमर्थो जगद्बीजं यदि दग्धम् अभावनात् ।
तद् अहं त्वं जगद् बन्ध इत्यादेẖ कलनैव का ॥
सद् ब्रह्म शिवम् आत्मेति परे नामकलङ्किता ।
उदेत्य् अहन्ता कुम्भत्वाद् इव मृद्धातुविस्मृतिः ॥
अहमर्थाद् इयं बीजात् सत्ता विषलतोत्थिता ।
यस्यां जगन्त्य् अनन्तानि फलान्य् आयान्ति यान्ति च ॥
साद्रिद्यूर्वीनदीशेयं रूपालोकैषणादिका ।
अहमर्थस्य मरिचबीजस्यान्तश् चमत्कृतिः ॥
द्यौẖ क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः ।
इत्य् आमोदो ऽहमर्थोग्रकुसुमस्य विकासिनः ॥
अहमर्थḫ प्रविसृतḫ प्रकटीकुरुते जगत् ।
सद्रूपालोकमननं प्रवृत्त इव वासरः ॥
प्रवृत्तेन दिनेनाभा प्रकटीक्रियते यथा ।
असज् जगद् अहन्त्वेन क्षणान् निर्मीयते तथा ॥
अहम् इत्य् अर्थदुस्तैललवो ब्रह्मणि वारिणि ।
प्रसृतो यत् तद् आश्व् एतत् त्रिजगच्चक्रिकं स्थितम् ॥
उन्मेषमात्रेणाहन्ता जगन्त्य् अनुभवत्य् अहो ।
न निमेषेण दृग् इव सत्यानीत्य् अप्य् असन्त्य् अलम् ॥
अहमर्थे प्रविसृते संसारो ह्य् अनुभूयते ।
नान्तर्लयपरिक्षीणे लोचनस्येव तारके ॥
अहमंशे निरंशत्वं नीते शाश्वतसंविदा ।
शाम्यतीयम् अशेषेण संसारमृगतृष्णिका ॥
स्वसंविद्भावनामात्रसाध्ये ऽस्मिन् वरवस्तुनि ।
सिद्धमात्रात्मनि स्वैरं मा खेदं गच्छ मा भ्रमीः ॥
स्वयत्नमात्रसंसाध्याद् असहायादिसाधनात् ।
अनहंवेदनान् नान्यच् छ्रेयḫ पश्यामि ते ऽनघ ॥
विस्मृत्याहन्त्वम् आस्स्व प्रविसृतविभवो भूषिताशेषविश्वो विष्वक्शैलान्तरिक्षक्षितिजलधिमरुन्मार्गरूपो ऽमलात्मा ।
स्वस्थश् शान्तो विशोकẖ करणमलकलावर्जितो निष्प्रपञ्चो निस्सञ्चारश् चरात्मा सकलम् असकलं चेति सिद्धान्तसारः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0