मोक्षोपाय · अध्याय 6.160
अवेदनं वेदनस्य मुनीन्द्र क्रियते कथम् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
यदा तदैव सुकरं वेदनावेदनं स्वयम् ॥
एतौ वेदनशब्दार्थौ रज्जुसर्पभ्रमोपमौ ।
असत्याव् उदितौ विद्धि मृगतृष्णाम्भसस् समौ ॥
अबोधस् त्व् अनयोश् श्रेयान् बोधो दुẖखाय चैतयोः ।
तस्मात् सद् एव बुध्यस्व मासद् बुध्यस्व राघव ॥
जन्तोर् वेदनशब्दार्थबोधो दुẖखकरḫ परः ।
न्यक्कृत्य ज्ञप्तिशब्दार्थबोधं तिष्ठ यथास्थितम् ॥
सर्वावबोधावसरे ज्ञप्तिशब्दार्थयोर् इह ।
निर्वाणोदय इत्य् एव परम् ओम् इति शाम्यताम् ॥
शुभाशुभात्म कर्म स्वं नाशनीयं विवेकिना ।
तन् नास्तीत्य् अवबोधेन तत्त्वज्ञानेन सिध्यति ॥
कर्ममूलनिकाषेण संसारḫ परिशाम्यति ।
सुविचारितम् अन्विष्टं यावत् कर्म न विद्यते ॥
चिद्रूपो बिल्वमज्जो ऽन्तश् चित्रास् सञ्ज्ञा यद् आत्मनि ।
करोति तद् यथा बिल्वान् न स्वल्पम् अपि भिद्यते ॥
तथा ब्रह्मघनस्यान्तर् अनानैवावभासते ।
नानेव ननु तस्मात् तन् न मनाग् अपि भिद्यते ॥
न यथा सन्निवेशो ऽन्तस् सन्निवेशवतḫ पृथक् ।
तथा नञर्थादि पृथङ् न परस्मान् मनाग् अपि ॥
यद् एवान्तस् तद् एवान्तर् द्रवत्वम् अपृथग् यथा ।
वित्त्वम् एव तथावित्त्वं तद्रूपत्वान् नञर्थयोः ॥
यथा द्रवत्वं पयसि यथालोकश् च तेजसि ।
तथा ब्रह्मण्य् अतद्भावश् चित्य् अचित्त्वं न विद्यते ॥
चेतनं कर्म तच् चान्तर् निर्मूलं भ्रमयक्षवत् ।
उदेत्य् अहेतुकं तच् चेन् नोदितं तन् न विद्यते ॥
चेतनं कर्म तच् चैतद् भाति स्पन्द इवानिले ।
अहेतुकं यदात्मैतद् बहिर् अन्तश् च सार्थधीः ॥
विस्तारẖ कर्मणां देहस् सो ऽहन्तात्मा स संसृतिः ।
अचेतनानहन्त्वेन शाम्यत्य् अस्पन्दवातवत् ॥
अवेदनाद् अनन्तात्मा भूत्वा ज्ञो ऽप्य् उपलोपमः ।
संसारे मूलकषणं कुरु क्रोडमुखाग्रवत् ॥
कर्मबीजकलाकोशत्याग एवं कृतो भवेत् ।
नान्यथा राघवातस् ते शान्तम् अस्तु सदा स्थितम् ॥
कर्मबीजकलात्यागे त्व् एतस्माद् इतरात्मनि ।
अविद्यमाने जीवस्य तज्ज्ञैर् विदितवस्तुभिः ॥
शान्तैर् न गृह्यते किञ्चिन् न च सन्त्यज्यते ऽपि च ।
त्यागादाने न जानन्ति ते ऽतस् तैश् शान्तम् आस्यते ॥
आकाशशून्यहृदयैर् ज्ञैर् यथास्थितम् आस्यते ।
क्रियते च यथाप्राप्तं नास्यते क्रियते न च ॥
प्रवाहापतितस्पन्दं स्पन्दन्ते शान्तचेतसाम् ।
तेषां कर्मेन्द्रियाण्य् एवम् अर्धसंसुप्तबालवत् ॥
रसे निर्वासने लब्धरसा अप्य् अतिनीरसाः ।
नान्तस् तिष्ठन्ति न बहिर् ज्ञा अज्ञा निपुणा इव ॥
कर्मणो ऽवेदनं त्यागस् स च सिद्धḫ प्रबोधतः ।
अवस्तुनेतरेणाथ किं कृतेनाकृतेन वा ॥
अवेदनम् असंवेद्यं यद् अवासनम् आसितम् ।
शान्तं समम् अनुल्लेखं स कर्मत्याग उच्यते ॥
अपुनस्स्मरणं सम्यक् चिरविस्मृतकर्म यत् ।
स्थितं स्तम्भोदरसमं स कर्मत्याग उच्यते ॥
अत्यागं त्यागम् इति ये कुर्वते व्यर्थबोधिनः ।
तेषाम् अवटलग्नानां विधिस् त्राणं करिष्यति ॥
कर्मत्यागम् अकृत्वैवम् अर्धं ये कर्म कुर्वते ।
सा भुङ्क्ते तान् पशून् अज्ञान् कर्मत्यागपिशाचिका ॥
समूलकर्मसन्त्यागेनैव ये शान्तम् आस्थिताः ।
नैव तेषां कृतेनार्थो नाकृतेनेह कश्चन ॥
समूलम् अलम् उद्धृत्य कर्मबीजकलाम् इति ।
नित्यम् एकसमाधानास् तज्ज्ञास् तिष्ठन्त्य् अलं सुखम् ॥
प्रवाहापतिते कार्ये ईषत्स्पन्दा अतन्मयाः ।
घूर्णमाना इव क्षीवा यन्त्रसञ्चारिता इव ॥
मोक्षलक्ष्म्या विलासिन्या व्यसनोपहता इव ।
अर्धसुप्तप्रबुद्धाभाẖ काम् अप्य् अवगतिं गताः ॥
यत् समूलं परित्यक्तं तत् त्यक्तम् इति कथ्यते ।
अमूलकाषस् त्यागो यस् स शाखालवनोपमः ॥
अकृष्टमूलश् शाखाग्रविलूनẖ कर्मपादपः ।
पुनश् शाखासहस्रेण दुẖखाय परिवर्धते ॥
अवेदनात्मनानेन कर्मत्यागो ऽङ्ग सिध्यति ।
क्रमेण नेतरेणात एतद् एवाहरन् भव ॥
ये त्व् एवं कर्मसन्त्यागम् अकृत्वान्यत्प्रवर्तिताः ।
अत्यागं त्यागरूपात्म गगनं मारयन्ति ते ॥
बोधात्मकतया कर्मत्यागस् सम्पद्यते स्वयम् ।
दग्धबीजा निरिच्छोच्चैर् अक्रियैव भवेत् क्रिया ॥
बुद्धीन्द्रियेहितं कर्म सफलं रसभावनात् ।
वेष्टितत्यक्तदाम्नीव स्पन्दो ऽन्यो निष्फलो ऽङ्गजः ॥
कर्मत्यागे स्थिते बोधाज् जीवन्मुक्तो विवासनः ।
गेहे तिष्ठत्व् अरण्ये वा शाम्यत्व् अभ्येतु वोदयम् ॥
गेहम् एवोपशान्तस्य विजनं दूरकाननम् ।
अशान्तस्याप्य् अरण्यानी विजना सजना पुरी ॥
परिशान्तमतेर् ज्ञस्य स्वप्ने ऽप्य् अप्राप्तमानवा ।
निर्मला वितता हृद्या हृद् एव वनभूमिका ॥
ज्ञस्य निर्वाणदृश्यस्य निष्पदार्था मनोमयी ।
शान्ताशेषविशेषार्था जगद् एव महाटवी ॥
अनन्तसङ्कल्पवतो हृदयोद्यज्जगत्स्थितेः ।
हृद्य् एवावर्तते भूमिर् अज्ञस्याखिलसागरा ॥
घनस्याज्ञस्य दीनस्य विविधद्वन्द्वसङ्कटा ।
सारम्भा विपुलाकारा हृद्य् एव ग्राममण्डली ॥
विविधकार्यविकारदशामयी सपुरपत्तनपर्वतमण्डला ।
मकुरकोश इव प्रतिबिम्बिता हृदि भवत्य् अमला मलिने मही ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0