मोक्षोपाय · अध्याय 6.159
अद्वैतैक्यं विमननं शान्तम् आत्मन्य् अवस्थितम् ।
यथा पुस्तमयं सैन्यं तथा शिवमयं जगत् ॥
मनोऽहङ्कारबुद्ध्यादि चैवम् एव च तन्मयम् ।
कालाकारक्रियाशब्दशक्तिसन्दर्भसंयुतम् ॥
शिवपङ्कमया एव रूपालोकमनẖक्रमाः ।
तन्मयत्वाद् अनन्तत्वाद् अतẖ किं केन चेत्यते ॥
मानमेयप्रमाणादि देशकालौ दिगादि च ।
भावाभावविवर्तादि शिवपङ्कमयात्मकम् ॥
अहं ममेत्य् अतस् सारान् नेतरत् परमाम्बरात् ।
असंसक्तमतिस् तिष्ठ ज्ञश् शिलोदरमौनवत् ॥
अहं ममेत्य् असद्रूपं ज्ञस्याभावयतḫ प्रभो ।
असङ्गं कर्मणां त्यागाद् अनुष्ठानाच् च किं शुभम् ॥
पृच्छामि यद् अहं त्वं तत् कथयाशु ममानघ ।
यदि जानासि तत्त्वेन कर्म तावत् किम् उच्यते ॥
विस्तारẖ कर्मणां कीदृङ् मूलं तस्य च किं भवेत् ।
नाशनीयं च निपुणं कथं कथय नाश्यते ॥
यन् नाशनीयं निपुणं तन् नूनं प्रविनाश्यते ।
मूलकाषेण भगवन् न शाखादिविकर्तनैः ॥
शुभाशुभं नाशनीयं स्वकर्म खलु धीमता ।
मूलकाषविनाशेन तच् च नष्टं भवत्य् अलम् ॥
कर्मवृक्षस्य वक्ष्यामि ब्रह्मन् मूलानि मे शृणु ।
यन् निकाषेण निर्मूलो न स भूयḫ प्ररोहति ॥
देहस् तावद् अयं ब्रह्मन् कर्मवृक्षस् समुत्थितः ।
रूढस् संसारविपिने विचित्राङ्गलतान्वितः ॥
कर्मबीजतरोर् अस्य सुखदुẖखफलावलेः ।
जाग्रद्वसन्तकालस्य सुषुप्तशिशिरस्थितेः ॥
पावनाचारकलिकागुच्छकोत्करकारिणः ।
क्षणतारुण्यकान्तस्य जराकुसुमहासिनः ॥
मुहूर्तं प्रति कल्लोलमर्कटध्वंसिताकृतेः ।
निद्राहेमन्तजठरलीनस्वप्नदलोद्गतेः ॥
स्ववार्द्धकशरच्छान्तिशीर्णेहापर्णसन्ततेः ।
जगज्जङ्गलजातस्य कलत्रोपतृणावलेः ॥
पेलवावयवा हस्तपादगुल्फादयो ऽरुणाः ।
पत्त्राणि तनुवृन्तानि सुरेखानि चलानि च ॥
अरुणाḫ पवनालोला मृद्व्यो मसृणमूर्तयः ।
स्नाय्वस्थिदिग्धास् सरसा अङ्गुल्यो बालपल्लवाः ॥
मृद्व्यो मसृणतीक्ष्णाग्रा वृन्तरूढाḫ पुनḫ पुनः ।
द्वितीयेन्दुकराकाराẖ कलिका नखशुक्तयः ॥
कर्मणḫ परिफुल्लस्य देहरूपतयेति हि ।
कर्मेन्द्रियाणि मूलानि दृढानि ग्रन्थिमन्ति च ॥
सिरास्थिग्रन्थिनद्धानि पङ्कमग्नात्मकानि च ।
वासनारसपीनानि निजरक्तरसानि च ॥
गुल्फवन्ति दृढाङ्गानि सुत्वञ्चि मसृणानि च ।
तेषाम् अपि च मूलानि विद्धि बुद्धीन्द्रियाणि हि ॥
सुदूरम् अपि यातानि पञ्चस्तम्भानि तानि तु ।
वासनापङ्कमग्नानि रसवन्ति महान्ति च ॥
तेषां मूलं बृहत् स्तम्भं मनो व्याप्तजगत्त्रयम् ।
पञ्चस्रोतस्सिराकृष्टमुक्तानन्तरसद्रवम् ॥
तस्य मूलं विदुर् जीवं चेत्योन्मुखचिदात्मकम् ।
जीवस्य चेतनं मूलं सर्वमूलैककारणम् ॥
चितेस् तु ब्रह्म मूलं यत् तस्य मूलं न विद्यते ।
अनाख्यत्वाद् अनन्तत्वाच् छुद्धत्वात् सत्यरूपिणः ॥
सर्वेषां कर्मणाम् एवं वेदनं बीजम् उत्तमम् ।
स्वरूपं चेतयित्वान्तस् ततस् स्पन्दḫ प्रवर्तते ॥
मुने चेतनम् एवाद्यं कर्मणां बीजम् उच्यते ।
तस्मिन् सति महाशाखो जायते देहशल्मलिः ॥
एतच् चेतनशब्दार्थं भावनावलितं यदि ।
तत् कर्मबीजताम् एति नो चेत् साध्यं परं पदम् ॥
चितिश् चेतनशब्दार्थभावनावलिता यदि ।
तत् कर्मबीजताम् एति नो चेत् साध्यं परं पदम् ॥
तस्माद् वेदनम् एवेह कर्म कारणम् आकृतेः ।
एतत् तत् कर्मणां बीजं त्वयैवोक्तं मुनीश्वर ॥
अस्य राघव सूक्ष्मस्य कर्मणो वेदनात्मनः ।
कस् त्यागẖ किम् अनुष्ठानं यावद्देहम् इदं स्थितम् ॥
यच् चेत्यते तु तेनाशु बहिर् अन्तश् च भूयते ।
सत्याकारम् असत्यं वा भवत्व् आहितविभ्रमम् ॥
न चेत्यते चेत् तद् अलं भ्रमाद् अस्माद् विमुच्यते ।
भ्रमस् सत्यो ऽस्त्व् असत्यो वा किं विचारणयानया ॥
एतच् चेतनम् एवान्तर् विकसत्य् उद्भवभ्रमैः ।
वासनेच्छामनẖकर्मसङ्कल्पाद्यभिधात्मभिः ॥
प्रबुद्धस्याप्रबुद्धस्य देहिनो देहगेहके ।
आदेहं विद्यते वित्त्वं त्यागस् त्व् अस्य न विद्यते ।
जीवतां तस्य सन्त्यागẖ कथं नामोपपद्यते ॥
केवलं कर्मशब्दार्थभावनाभावने सति ।
कर्म कर्मत्वम् उत्सृज्य स्वयम् एव भवत्य् अजम् ॥
असम्भवति सन्त्यागे कर्मणो यẖ करोति हि ।
इदंकर्तव्यतात्यागं न किञ्चित् तेन तत् कृतम् ॥
बोधाद् इदन्तासंवित्तेस् स्वयं विलयनं तु यत् ।
जगतस् तं विदुस् त्यागम् असङ्गं मोक्षम् एव च ॥
वेदनं सति संवेद्ये सर्गादाव् एव वेद्यदृक् ।
नोत्पन्ना विद्यते नैव तस्मात् किं क्वेव वेदनम् ॥
वेद्योन्मुखत्वं सन्त्यज्य रूपं यद् वेदनस्य वै ।
न वेदनं तन् नो कर्म तच् छान्तं ब्रह्म कथ्यते ॥
चेतनं प्रोच्यते कर्म संसृत्या प्रविकासितम् ।
अचेतनं विदुर् मोक्षं ज्ञं चेत्य् एवोपदेशधीः ॥
त्यागो हि कर्मणां तस्माद् आदेहं नोपपद्यते ।
यैस् तु सन्त्यज्यते कर्म तन्मूलं तैर् न मुच्यते ॥
मूलं स्वकर्मणस् संविन् मनसो वासनात्मनः ।
सा चादेहं समुच्छेत्तुम् ऋते बोधान् न शक्यते ॥
राम केवलम् एषान्तẖ कर्ममूलकला परा ।
सूक्ष्मा संविद् असंवित्त्या स्वयत्नेन निकृन्त्यते ॥
येन संविद् असंवित्त्या स्वयत्नेन निवार्यते ।
तेन संसृतिवृक्षस्य मूलकाषो वितन्यते ॥
अचेतनाकाशम् अजं यद् एकं तत्रैवम् अस्ति त्व् इदम् अर्थहीनम् ।
तद् व्योमरूपं यत एतद् एवं निरामयं चेतनसारम् आहुः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0