भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.158

6.158.1

नैष्कर्म्यात् कल्पनात्यागात् तनुḫ पतति देहिनः ।
कथम् एतद् अतो ब्रह्मन् सम्भवत्य् आशु जीवतः ॥

6.158.2

जीवतẖ कल्पनात्यागो युज्यते न त्व् अजीवतः ।
रूपम् अस्य यथावत् त्वं शृणु श्रवणभूषणम् ॥

6.158.3

अहम्भावनम् एवाहुẖ कल्पनं कल्पकोविदाः ।
नञर्थभावनं तस्य सङ्कल्पत्याग उच्यते ॥

6.158.4

पदार्थरसम् एवाहुẖ कल्पनं कल्पनाविदः ।
नञर्थभावनं तस्य सङ्कल्पत्याग उच्यते ॥

6.158.5

इदम् अस्त्व् इति संवेगम् आहुस् सङ्कल्पम् उत्तमाः ।
नञर्थभावनं तस्य सङ्कल्पत्याग उच्यते ॥

6.158.6

स्मरणं विद्धि सङ्कल्पं शिवम् अस्मरणं विदुः ।
तच् च प्रागनुभूतं च नानुभूतं च भाव्यते ॥

6.158.7

अनुभूतां नानुभूतां स्मृतिं विस्मृत्य कारणम् ।
सर्वम् एवाशु विस्मृत्य गूढस् तिष्ठ महामुनिः ॥

6.158.8

सर्वास्मरणमात्रेण तिष्ठायातेषु कर्मसु ।
अर्धसुप्तशिशुस्पन्द इवाभ्यस्तोपपत्तिषु ॥

6.158.9

निस्सङ्कल्पं प्रवाहेण चक्रं प्रस्पन्दते यथा ।
स्पन्दस्व कर्मस्व् अनघ प्राक्संस्कारवशात् तथा ॥

6.158.10

अविद्यमानचित्तस् त्वं सत्त्वसंस्कारम् आगतः ।
प्रवाहापतितेष्व् एव स्पन्दस्व स्वेषु कर्मसु ॥

6.158.11

ऊर्ध्वबाहुर् विरौम्य् एष न च कश्चिच् छृणोति मे ।
असङ्कल्पḫ परं श्रेयस् स किम् अन्तर् न भाव्यते ॥

6.158.12

अहो मोहस्य माहात्म्यं यद् अयं सर्वदुẖखहा ।
चिन्तामणिर् विचाराख्यो हृत्स्थो ऽपि त्यज्यते जनैः ॥

6.158.13

अवेदनम् असङ्कल्पस् तन्मयेनैव भूयताम् ।
एतावत् परमं श्रेयस् स्वयम् एवानुभूयताम् ॥

6.158.14

किल तूष्णींस्थितेनैव तत् पदं प्राप्यते परम् ।
परमं यत्र साम्राज्यम् अपि राम तृणायते ॥

6.158.15

गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः ।
स्पन्दो ऽविदितसङ्कल्पस् तथा स्पन्दस्व कर्मसु ॥

6.158.16

सर्वकर्मफलाभोगम् अलं विस्मृत्य सुप्तवत् ।
प्रवाहापतिते कार्ये स्पन्दस्व गतवेदनम् ॥

6.158.17

स्पन्दस्व गतसङ्कल्पं सुखदुẖखान्य् अभावयन् ।
प्रवाहापतिते कार्ये वेष्टितोन्मुक्तशष्पवत् ॥

6.158.18

रसभावनम् अन्तस् ते मालं भवतु कर्मसु ।
दारुयन्त्रमयस्येव परार्थम् इव कुर्वतः ॥

6.158.19

नीरसा एव ते सन्तु समस्तेन्द्रियसंविदः ।
आकारमात्रसंलक्ष्या हेमन्तर्तौ लता इव ॥

6.158.20

बोधार्कापीतरसया स्पन्दिषड्वर्गसत्तया ।
यन्त्रस्पन्दाभया तिष्ठ वल्ल्येव शिशिरे द्रुमः ॥

6.158.21

विदान्तररसान्य् एव प्रवृत्तान्य् अपि धारय ।
स्वयत्नेनेन्द्रियाण्य् आशु हेमन्तर्तुस् तरून् इव ॥

6.158.22

सरसेन्द्रियवृत्तैस् तैẖ कुर्वतो ऽकुर्वतस् तथा ।
संसारानर्थसार्थो ऽयं न कदाचन शाम्यति ॥

6.158.23

निस्सङ्कल्पं मरुज्ज्वालायन्त्राम्बुस्पन्दवद् यदि ।
स्पन्दसे तद् अनन्ताय श्रेयसे परिकल्पसे ॥

6.158.24

एतद् एव परं धैर्यं जन्मज्वरनिवारणम् ।
यद् अवासनम् अभ्यस्तनिजकर्मसु कर्तृता ॥

6.158.25

अवासनम् असङ्कल्पं यथाप्राप्तानुवृत्तिमान् ।
शनैश् चक्रं भ्रमाभोग इव स्पन्दस्व कर्मसु ॥

6.158.26

मा कर्मफलबुद्धिर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि ।
उभयं वा त्यजैतत् त्वम् उभयं वा समाश्रय ॥

6.158.27

बहुनात्र किम् उक्तेन सङ्क्षेपाद् इदम् उच्यते ।
सङ्कल्पनं परो बन्धस् तदभावो विमुक्तता ॥

6.158.28

नेह कार्यं न चाकार्यम् अस्ति किञ्चन कुत्रचित् ।
सर्वं शिवम् अनाद्यन्तम् अनन्तं प्राग्वद् आस्यताम् ॥

6.158.29

पश्यन् कर्मण्य् अकर्मत्वम् अकर्मणि च कर्मताम् ।
यथाभूतार्थविद्रूपश् शान्तम् आस्स्व यथासुखम् ॥

6.158.30

अवेदनं विदुर् योगं शान्तम् आसितम् अक्षयम् ।
योगस्थẖ कुरु कर्माणि नीरसो माथ वा कुरु ॥

6.158.31

अवेदनं विदुर् योगं चित्तक्षयम् अकृत्रिमम् ।
अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भोः ॥

6.158.32

समे शान्ते शिवे सूक्ष्मे द्वैतैक्यपरिवर्जिते ।
तते ऽनन्ते पदे शुद्धे किं केन किल विद्यते ॥

6.158.33

मोदेतु त्वयि सङ्कल्पो मरुभूमाव् इवाङ्कुरः ।
इच्छा मोदेतु भवतो लतिकेवोपलोदरे ॥

6.158.34

अवेदनस्य शान्तस्य जीवतो वाप्य् अजीवतः ।
नेह कश्चित् कृतेनार्थो नाकृतेनापि कश्चन ॥

6.158.35

न कर्माकर्म शान्ते ऽन्तश् शाश्वताभेदरूपिणि ।
न कर्मण्य् अपि कर्माणि न कर्तर्य् अपि कर्तृता ॥

6.158.36

अहं ममेति संविदन् न दुẖखतो विमुच्यसे ।
असंविदन् विमुच्यसे यद् ईप्सितं तद् आहर ॥

6.158.37

अहं ममेति नास्त्य् अलं यद् अस्ति तच् छिवं परम् ।
परात् परं त्व् इदं शिवम् अशब्दम् अर्थवर्जितम् ॥

6.158.38

यद् दृश्यते जगद् इदं खलु किञ्चिद् एतद् धेम्नो ऽङ्गदत्वम् इव भाति न विद्यमानम् ।
अर्थक्षयं विदुर् अवेदनम् एव पश्चात् सत्यं तद् एव परमार्थम् अथावशिष्टम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc