भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.155

6.155.1

कुर्वन्न् अभ्यासम् एतस्यां भूमिकायां विवासनः ।
षष्ठीं तुर्याभिधाम् अन्यां क्रमात् पतति भूमिकाम् ॥

6.155.2

यत्र नासन् न सद्रूपो नाहं नाप्य् अनहङ्कृतिः ।
केवलं क्षीणमननं तद् आस्ते गतवासनः ॥

6.155.3

निर्ग्रन्थिश् शान्तसद्रूपो जीवन्मुक्तो विभावनः ।
सकृद्विभाता विमलम् आस्ते द्वैतैक्यनिर्गतः ॥

6.155.4

जीवन्मुक्तो गतरसो निर्भेदो ऽम्बरसुन्दरः ।
अनिर्वाणो ऽपि निर्वाणश् चित्रदीप इव स्थिरः ॥

6.155.5

अवासनत्वाद् वैरस्यान् न किञ्चन करोत्य् असौ ।
करोत्य् एवंस्थितिर् यच् च तत्राकर्तैव काष्ठवत् ॥

6.155.6

सम्यग्दर्शनसम्पन्नो जीवन्मुक्तपदं गतः ।
यथास्थितम् इदं पश्यन् कर्मभिर् न निबध्यते ॥

6.155.7

कुर्वन् न किञ्चित् कुरुते गन्तापि च न गच्छति ।
भुञ्जानो ऽपि च नो भुङ्क्ते वक्तापि च न वक्त्य् असौ ॥

6.155.8

जाग्रति स्वप्नदृष्टस्य पुंसẖ कर्तृत्वभोक्तृते ।
यादृश्यौ तत्स्थिती विद्धि जीवन्मुक्तस्य राघव ॥

6.155.9

समश् शान्तमतिर् मौनी जीवन्मुक्तो विवासनः ।
द्रष्टारं दर्शनं दृश्यम् आकाशम् इव पश्यति ॥

6.155.10

निर्वाणमतिर् आत्मानं परं चाद्रिम् अणुं तनुम् ।
श्वानं ब्राह्मणम् आदित्यं सर्वं खम् इव पश्यति ॥

6.155.11

सम्पन्नश् शान्तम् आभासं परम् एकम् अकृत्रिमम् ।
क्वास्तम् एतु क्व वोदेतु कीदृग्वपुर् असाव् इह ॥

6.155.12

प्रज्ञाप्रासादम् आरूढस् त्व् अशोच्यश् शोचते जनान् ।
भूमिष्ठान् इव शैलस्थस् सर्वान् प्राज्ञो ऽनुपश्यति ॥

6.155.13

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिद् अर्थव्यपाश्रयः ॥

6.155.14

जले जलम् इव क्षिप्तं ब्रह्मण्य् एवैकतां गतः ।
गलितद्वैतनिर्भासो जाग्रत्य् एव सुषुप्तकम् ॥

6.155.15

चराचरम् इदं विष्वक् चेतमानो न चेतति ।
भेदम् अस्तङ्गताहन्त्वḫ पश्यन्न् अपि न पश्यति ॥

6.155.16

भग्नस्थालीघटाकाशम् इव खे मिलितḫ परे ।
समाम् एकाम् असद्रूपां शान्ताम् उपगतो दशाम् ॥

6.155.17

अनिर्वाणो ऽपि निर्वाणो बालवत् प्रविचेष्टते ।
हेयोपादेयतामुक्तो जीवन्मुक्तḫ प्रतिष्ठते ॥

6.155.18

समग्रगतम् अप्य् अन्ता रागद्वेषभवामयाः ।
नाकाशम् इव चेतन्ते समस्ता मृगपक्षिणः ॥

6.155.19

संशान्ताहन्त्वनीहारḫ प्रसन्नवितताकृतिः ।
अशून्यम् इव शून्यात्म शरत्खम् इव राजते ॥

6.155.20

क्षीवतायां प्रशान्तायाम् इव सोम्यत्वम् आगतः ।
भूतले गाढनिद्रस् सन् स्वर्गं नीत इवोदितः ॥

6.155.21

आनन्दैकनिमग्नत्वाद् अनानन्दपदं गतः ।
केवलं ज्ञप्तिरूपत्वाद् अज्ञप्तिर् इव संस्थितः ॥

6.155.22

निर्मन्दर इवाम्भोधिर् दग्धदाह्य इवानलः ।
शान्तभ्रमं चक्रम् इव स्वात्मन्य् एव शमं गतः ॥

6.155.23

त्वष्ट्रेव यन्त्रोल्लिखितस् सो ऽपूर्वाकारतां गतः ।
ऋत्वन्तरे द्रुम इव स एवान्यतयोदितः ॥

6.155.24

उपशान्तश् च कान्तश् च दीप्तो ऽप्य् आलोकसुन्दरः ।
चन्द्रबिम्बाद् इवोत्कीर्णस् सोम्य आह्लादकारकः ॥

6.155.25

अन्तश्शून्यो बहिश्शून्यश् शून्यकुम्भ इवाम्बरे ।
अन्तḫपूर्णो बहिḫपूर्णḫ पूर्णकुम्भ इवार्णवे ॥

6.155.26

विक्रियादिविनिर्मुक्तस् सन्त्यक्तो मरणाद् इव ।
महाव्याधेर् इवोत्तीर्णस् तीर्णापूर्णभवार्णवः ॥

6.155.27

दीर्घाध्वश्रमखिन्नात्मा सुखसुप्त इवाक्षयम् ।
प्रबुद्ध इति निद्रालुर् इव दृश्ये प्रसुप्तधीः ॥

6.155.28

सबाह्याभ्यन्तरं शीतस् तुषाराद् इव निर्मितः ।
सबाह्याभ्यन्तरं पूर्ण आलोकेनामलाम्ब्व् इव ॥

6.155.29

सबाह्याभ्यन्तरं स्वच्छẖ कचन् मणिर् इवात्मनि ।
सबाह्याभ्यन्तरं शून्यो नभसेव विनिर्मितः ॥

6.155.30

निर्मनस्कतया जित्वा संस्थितस् सालभञ्जिकाम् ।
यन्त्राकृतिर् इव स्वैरं स्पन्दिकर्मेन्द्रियव्रजः ॥

6.155.31

स्याम् इत्य् अन्तर् अहन्तात्मसत्तास्नेहपरिक्षयात् ।
जीवदीपो विनिर्वाण आत्मन्य् एव स लीयते ॥

6.155.32

नित्यतृप्तो निरानन्दो निर्दुẖखो निरुपाश्रयः ।
निस्सङ्गो निरभिप्रायो ज्ञो ऽनीहो नावबध्यते ॥

6.155.33

नास्य देहो न कर्मादि न दृश्यद्रष्टृदर्शनम् ।
न जीवितं न मरणं नासन् न सदसन् न सत् ॥

6.155.34

किञ्चिद् एवैष सम्पन्नẖ को ऽपि वा वा न किञ्चन ।
शुद्धं वेदनमात्रं वा किञ्चिद् वा ज्ञप्तिर् एव वा ॥

6.155.35

सबाह्याभ्यन्तरं नान्यद् एकम् एव पदार्थवत् ।
स्थितो दूरे ऽप्य् अदूरे च प्रसृतानन्ततन्तुवत् ॥

6.155.36

स बह्वीष्व् अप्य् अवस्थासु नित्यैकात्मा समो ऽमलः ।
संशान्तगुणभेदश्रीर् महाकाल इवाकलः ॥

6.155.37

अजम् अमरम् अनाद्यं बुद्धम् आद्यन्तशुद्धं शिवम् अमलम् अजल्पं सर्वगं शान्तम् एकम् ।
बहिर् अबहिर् अपीशं ज्ञं विनिर्माणम् अग्र्यं कम् अपि तम् उपगम्यं सारम् आभासम् आहुः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc