भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.154

6.154.1

विच्छिन्नशरदभ्रांशविलयं प्रविलीयते ।
सत्तावशेष एवास्ते पञ्चमीं भूमिकाम् इतः ॥

6.154.3

समस्तशब्दशब्दार्थभावनाभावनात्मकम् ।
बीजाङ्कुरसमुत्सेधसत्तासुषमम् आस्यताम् ॥

6.154.4

अनहन्तादिमननं समं सर्वगतं स्थिरम् ।
अवेद्यवेदनं पुष्पविकाससमम् आस्यताम् ॥

6.154.5

अद्वैतैक्यं समं शान्तं विज्ञानैकघनं परम् ।
आकाशकोशविशदं ज्ञḫ पश्यन् न विनश्यति ॥

6.154.6

भेदबुद्ध्या पुरात्तानां सम्प्रत्य् अद्वयभावनम् ।
स्थिरीकुर्वन् पदार्थानां समम् आस्ते सुषुप्तवत् ॥

6.154.7

सुषुप्तघनविज्ञानभासुरावरणक्षयः ।
नास्तम् एति न चोदेति न तिष्ठति न गच्छति ॥

6.154.8

गलितद्वैतनिर्भासम् उदितो ऽन्तḫ प्रबोधवान् ।
सुषुप्तघनम् एवास्ते पञ्चमीं भूमिकाम् इतः ॥

6.154.10

अहन्त्वं चेतमानस्य न कदाचन शाम्यति ।
हृत्पद्मकोशभ्रमरी संसृत्याख्याविषूचिका ॥

6.154.12

अमनोबुद्ध्यहङ्कारम् आवर्तादि यथा पयः ।
संवेत्ति देशकालादि तथा ब्रह्म जगत्त्रयम् ॥

6.154.13

अहन्त्वं चेतमानस्य न कदाचन शाम्यति ।
अहन्त्वतिलतैलश्रीस् संसारोग्रविषूचिका ॥

6.154.14

अहन्त्वमुकुलस्यान्तर् यत् स्वं संसारसौरभम् ।
तद् अस्य सविकासस्य बहिर् दृश्यतया स्थितम् ॥

6.154.15

न यथा पद्मसौगन्ध्ये व्यतिरिक्ते कदाचन ।
अहन्त्वदृश्ये न तथा व्यतिरिक्ते कदाचन ॥

6.154.16

अहन्त्वं स्वस्वरूपस्य द्रष्टृदृश्यमयात्मनी ।
अन्तर् बहिर् इति स्वैरं कृतवन् नाम नामनी ॥

6.154.17

प्रेक्षितं सन् न चाहन्त्वं नान्तर् न बहिर् अस्ति च ।
मायैषा भात्य् असद्रूपा स्वालोचनपलायिनी ॥

6.154.18

यद् असन् मृगतृष्णाम्बु भासते तत् परीक्षितम् ।
कथं विलाप्यते तद्वद् एवाहन्तादिविभ्रमः ॥

6.154.19

द्रष्टा दृश्यं दर्शनं च मृगतृष्णाम्ब्व् इति त्रयम् ।
नास्ति कस्यचिद् एवातश् शान्तं शिवम् इदं ततम् ॥

6.154.20

इति निश्चयवान् ऐक्यद्वैतातीतवपुश् शिवम् ।
समम् आस्ते महासत्त्वḫ पञ्चमीं भूमिकाम् इतः ॥

6.154.21

अन्तर्मुखतया तिष्ठन् बहिर्वृत्तिपरो ऽपि सन् ।
परिशान्ततया नित्यं निद्रालुर् इव लक्ष्यते ॥

6.154.22

लोकसंव्यवहारे ऽस्मिन् नान्तर् न व्योम्नि नो बहिः ।
रमते ऽथ भ्रमति वा व्योमरूपो गलन्मनाः ॥

6.154.23

सुषुप्तवज् जाग्रति दृश्यविभ्रमं त्व् अभावयन् भावपरिक्षयोदयी ।
चितित्वम् अप्य् अन्तरसंविदन्न् इदं प्रतिष्ठते चित्रनरोपमो बुधः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc