भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.156

6.156.1

अहन्तादेहताद्यर्थश् चिरम् एव लयं गतः ।
जीवन्मुक्तस्य तेनासौ ज्ञो ऽपि व्योम्नैकतां गतः ॥

6.156.3

अगम्या वचसां सा तु सा सीमा भवभूमिषु ।
संसारसरसḫ पारम् अपारस्येह सा परम् ॥

6.156.4

कैश्चित् सा शिव इत्य् उक्ता कैश्चिद् ब्रह्मेत्य् उदाहृता ।
कैश्चिज् ज्ञप्तिर् इति प्रोक्ता कैश्चिच् छून्यम् इति स्मृता ॥

6.156.5

अर्थ इत्य् ऊहिता कैश्चित् कैश्चित् काल इति श्रिता ।
कैश्चित् प्रकृतिपुंभावविभाग इति भाविता ॥

6.156.6

अन्यैर् अप्य् अन्यथा नानाभेदैर् आत्मविकल्पितैः ।
नित्यम् अव्यपदेश्यापि किलान्यैवोपदिश्यते ॥

6.156.7

विदेहमुक्तैर् एवैषा विदेहैकान्तमुक्तता ।
बुध्यते तादृशैर् एव समनस्कैस् तु नेतरैः ॥

6.156.8

न सत्त्वस्थैर् न चित्तस्थैẖ कैश्चिद् एवावगम्यते ।
विदेहमुक्तत्वम् ऋते विदेहा मुक्ततेति हि ॥

6.156.9

असंसक्तधियो ये हि ज्ञत्वात् प्रक्षीणवासनाः ।
तृतीयां भूमिकां प्राप्तास् तेषां चित्तं न विद्यते ॥

6.156.10

अज्ञत्वे घनभावत्वं चित्तम् आहुर् मनीषिणः ।
पुनर्जन्मान्तरकरं कारणं भवभूरुहाम् ॥

6.156.11

ज्ञत्वात् क्षीणरसं चित्तम् अजन्ममयवासनम् ।
सत्त्वम् इत्य् उच्यते तज्ज्ञैस् तत्स्थास् सत्त्वपदे स्थिताः ॥

6.156.12

सत्त्वस्था ज्ञानदहनैर् दग्धवासनतां गताः ।
जीवाẖ क्षीणाḫ प्रयच्छन्ति न संसाराङ्कुरं पुनः ॥

6.156.13

चित्तस्थैर् अथ सत्त्वस्थैर् एतैर् या नावबुध्यते ।
सप्तमीभूमिका सैषा विदेहा मुक्ततोच्यते ॥

6.156.14

एतास् ता भूमिकाḫ प्रोक्ता मया तव रघूद्वह ।
आसाम् अभ्यासयोगेन न दुẖखम् अनुभूयते ॥

6.156.15

एतासु भूमिषु पदं कुरु कारणज्ञ कार्यान्तराण्य् अविकलानि निजानि कुर्वन् ।
जीवन् विमुक्त इह तिष्ठ चिरं ततो ऽन्ते भूत्वा विदेह उदितं पदम् एकम् आस्स्व ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc