भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.153

6.153.1

भूमिकात्रितयाभ्यासाद् अज्ञाने क्षयम् आगते ।
सम्यग्ज्ञानोदये चित्ते पूर्णचन्द्रोदयोपमे ॥

6.153.2

निर्विभागम् अनाद्यन्तं योगिनो युक्तचेतसः ।
समं सर्वं प्रपश्यन्ति चतुर्थीं भूमिकाम् इताः ॥

6.153.3

अद्वैते स्थैर्यम् आयाते द्वैते च प्रशमं गते ।
पश्यन्ति स्वप्नवल् लोकं चतुर्थीं भूमिकाम् इताः ॥

6.153.4

भेदे त्व् अप्रसृतप्रज्ञा अभेदे शान्तबुद्धयः ।
ईषच्छेषविदो भान्ति चतुर्थीं भूमिकाम् इताः ॥

6.153.5

ईषच्छेषातिविलया अर्धसुप्ताभसंविदः ।
बालका इव चेष्टन्ते चतुर्थीं भूमिकाम् इताः ॥

6.153.6

भूभृताम् इव काठिन्यम् अर्करश्मिघनोपमम् ।
पश्यन्ति कल्पनांशात्म चतुर्थीं भूमिकाम् इताः ॥

6.153.7

ईप्सितानीप्सितानर्थैर् जगद् दुẖखे निमज्जति ।
तन् मनाग् अपि नोपैति चतुर्थीं भूमिकाम् इतः ॥

6.153.8

भूमिकात्रितयं यावत् तावज् जाग्रद् इति स्थितम् ।
चतुर्थीं भूमिकां प्राप्य स्वप्नाभं दृश्यते जगत् ॥

6.153.9

उत्तमप्रतिबिम्बाभम् अव्यवस्थिति भङ्गुरम् ।
दृश्यं द्रष्टा न जानाति चतुर्थीं भूमिकाम् इतः ॥

6.153.10

जाग्रत्स्वप्नसुषुप्तानां यथावद् ब्रूहि लक्षणम् ।
तुर्यस्य तुर्यातीतस्य मुने यदि न खिद्यसे ॥

6.153.11

अपरामृष्टतत्त्वस्य यत् पदार्थैकभावनम् ।
अम्लानं तद् भवेज् जाग्रद् असद् अस्तु सद् अस्तु वा ॥

6.153.12

भाविन्या क्षणविध्वंसधियानुत्फुल्लरूपया ।
असत्यप्रत्ययतया युक्तं गर्भनिषण्णया ॥

6.153.13

जाग्रद् एवानुभूतं यद् असत्यं सत्यम् एव वा ।
म्लानम् आबिलबुद्धित्वात् स्वप्नम् आहुस् तम् उत्तमाः ॥

6.153.14

जाग्रत्स्वप्नानुभवयोर् अवश्यम्भाविनोḫ पुनः ।
कम् अप्य् अस्तमयẖ कालं यस् तम् आहुः सुषुप्तकम् ॥

6.153.15

बुद्धत्वाच् छान्तभेदं यद् अजाग्रत्स्वप्नम् अक्षयम् ।
असुषुप्तं स्थितं स्वच्छं तत् तुर्यम् इति कथ्यते ॥

6.153.16

यत् परामृष्टतत्त्वानाम् अपदार्थविभावनम् ।
अवस्थात्रयनिर्मुक्तं तत् तुरीयम् इति स्थितम् ॥

6.153.17

एतद्दशात्रयं पूर्वं सर्वेणैवानुभूयते ।
जीवन्मुक्ताद् ऋते त्व् एषा तुर्यावस्था न लभ्यते ॥

6.153.18

सम्यग्ज्ञानवतैवान्तर् अवस्थात्रितयक्षये ।
चिदाकाशात्मनाच्छेन तुर्यावस्थानुभूयते ॥

6.153.19

विदेहमुक्तैर् यावस्था तुर्यातीतानुभूयते ।
तुर्यस्थितिचिराभ्यासैर् न वाग्गोचरम् एति सा ॥

6.153.20

न जीवन्मुक्तविषया तुर्यातीतदशा यतः ।
ततो ऽस्याẖ कथनं नास्ति ब्रह्मत्वाद् इतरत् क्वचित् ॥

6.153.21

न स्वप्नसुप्तताजाग्रत्कारणं कार्यकोविद ।
जाग्रत्स्वप्नसुषुप्तानां परम् एव हि तिष्ठति ॥

6.153.22

जाग्रत् स्वप्नत्वम् आयाति बुद्धिश्यामलतावशात् ।
स्वप्नश् च जाग्रद् भवति बुद्धिनिर्मलतोदयात् ॥

6.153.23

घनमोहतया जाग्रद् अपि याति सुषुप्तताम् ।
स्वप्नश् चापि तथैवैष स्वभावो राम संसृतेः ॥

6.153.24

निद्रालोर् अप्य् अनिद्रालो राघवैतद् दशात्रयम् ।
भवत्य् आ तुर्यसम्प्राप्तेẖ क्रमान् नो तुल्यकालतः ॥

6.153.25

तुर्यावस्थस्य चाभ्यासाद् अवस्थात्रितयं शनैः ।
शाम्यति प्रौढरूपायां शरदीव घनभ्रमः ॥

6.153.26

तुर्यावस्थास्थितो भूयो नावस्थात्रयम् एति हि ।
जीवन्न् अपि चिरं भृष्टं बीजम् अङ्कुरताम् इव ॥

6.153.27

भासुराकारम् अस्कन्धस्तम्भशाखादलादिकम् ।
छायावृक्षं जगद् वेत्ति चतुर्थीं भूमिकाम् इतः ॥

6.153.28

अर्थशून्यसमारम्भं दृश्यमानम् असन्मयम् ।
बालेनेव कृतं पङ्काज् ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.29

नानेवैताम् अनानात्तां तरङ्गरचनाम् इव ।
निर्वासनां स्पन्दमयीं ज्ञḫ पश्यति जगत्स्थितिम् ॥

6.153.30

अदृष्टम् इतराचारं श्रुतं दूरे क्षणक्षयम् ।
अज्ञो देशम् इवापूर्वं तज्ज्ञस् सर्वं प्रपश्यति ॥

6.153.31

अजिह्वस्वप्नकथनं भावनानुभवोपमम् ।
भ्रमाभ्रमात्रं विभ्रान्तं ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.32

नीहारसदृशं दूराद् दृश्यमानबृहद्वपुः ।
नकिञ्चिन् निपुणालोके ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.33

शरदभ्रसमं स्फारम् आमृष्टं सन् नकिञ्चन ।
नकार्यकारि शून्यात्म ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.34

परामर्शासहानेकरागनिर्मितमण्डलम् ।
बर्हिबर्हसमाकारं ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.35

अविद्यमानं भ्रमदं प्रेक्षितं प्रशमं गतम् ।
त्रस्तबालकयक्षाभं ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.36

विस्तीर्णम् अप्य् अनाक्रान्तदेशं पश्यति सर्गकम् ।
आख्यायिकारम्भम् इव चतुर्थीं भूमिकाम् इतः ॥

6.153.37

अस्पृष्टदेशकालांशम् असत्यम् इव सत्यवत् ।
महारवं मौनमयं महारम्भम् अपक्रियम् ॥

6.153.38

स्थूलं कर्मेन्द्रियालभ्यं जगत् पश्यत्य् असद्वपुः ।
सङ्कल्पसैन्यसङ्काशं चतुर्थीं भूमिकाम् इतः ॥

6.153.39

चित्तभित्तिगतं भावि चित्रतन्त्रम् इव स्थितम् ।
पश्यत्य् असर्गकं सर्वं चतुर्थीं भूमिकाम् इतः ॥

6.153.40

इन्द्रजालजलादर्शप्रतिबिम्बम् इवास्थितम् ।
सर्गं सदानुभवति चतुर्थीं भूमिकाम् इतः ॥

6.153.41

द्रव्यभावक्रियेहानाम् अज्ञत्वान् मूकतां गतः ।
दुर्देशम् इव विक्रीतो ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.42

अत्यन्तापूर्वसंस्थानं देशान्तरम् इवाल्पधीः ।
अशून्यं शून्यम् एवाति ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.43

अनूढम् उह्यमानात्म स्थिरं चलम् असच् च सत् ।
सरिद्बिम्बस्थपुरवज् ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.44

प्रतिबिम्बितम् अम्भोधाव् इव निर्मज्जद् एव वा ।
चलिते शफरस्पन्दाज् ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.45

जात्यन्धरूपानुभवम् इव नासन् न सन्मयम् ।
अन्धप्राग्दृष्टरूपाभं ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.46

मसृणैकमहाभित्तौ सङ्कल्पोल्लिखितात्मकम् ।
चित्रसैन्यम् इवाभाति जगज् ज्ञं प्रत्य् अरोधकम् ॥

6.153.47

आकाशभित्तिलिखितम् अलब्धम् अपि वायुना ।
चित्तचित्रकृतश् चित्रं ज्ञḫ पश्यति जगत्त्रयम् ॥

6.153.48

दृश्ये पतत्य् अदृश्ये ऽपि परयत्नावबोधितः ।
बहिर् द्रष्टैव नान्तर् ज्ञो हृदयेनापराजितः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc