मोक्षोपाय · अध्याय 6.152
सत्यं भवत्व् असत्यं वाप्य् असतापि सतापि वा ।
चेतसेषद् अपि स्पृष्टम् अवश्यम् अनुभूयते ॥
सद्यẖ कालान्तरे वापि सकृद् दृष्टं हि चेतसा ।
द्रवत्वम् अम्भसेवान्तर् अवश्यम् अनुभूयते ॥
कालान्तरविसार्य् अन्तस् सकृद् दृष्टं दधन् मनः ।
विस्मृत्य तिष्ठति जडं बर्ह्यण्डरसपिण्डवत् ॥
विना ज्ञानाग्निदाहेन न कदाचिन् निवर्तते ।
चित्तात् सकृद्गृहीतो ऽर्थो नीलीराग इवाम्बरात् ॥
न चास्त्य् अवासनं चित्तम् अकार्ष्ण्यम् इव कज्जलम् ।
जगत्पदार्थसार्थात्मा वासनौघो मनोऽभिधः ॥
न चास्य लभ्यते सत्ता चेतसẖ काचिद् ईक्षिता ।
तिमिरस्येव दीपेन तदसत्तैव शिष्यते ॥
नातश् चित्तं न चैत्तादि विद्म इत्येवमात्रकम् ।
विद्धि ज्ञानम् अनेनैषा शाम्येद् भवविषूचिका ॥
ख एवाहन्त्वम् उदितं शून्यत्वम् इव तन् मनः ।
नोदितं तद् इति ज्ञप्तेर् मनश्शान्त्योपशाम्यति ॥
मनḫप्रशमनोपायो योग इत्य् अभिधीयते ।
सप्तभूमिस् तु स प्रोक्तस् तत्र भूमिक्रमं शृणु ॥
भूमिकानां त्रयं प्रोक्तं तव राम यथाक्रमम् ।
भूमिकात्रितयस्था ये ते महापुरुषास् स्मृताः ॥
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर् विमुक्तास् सुखदुẖखसारैर् भवन्ति भूमित्रयम् अभ्युपेताः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0