भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.148

6.148.1

भगवन् भूमिकामध्यमरणोक्तिप्रसङ्गतः ।
एतद् उक्तं त्वया सारम् इदानीं तद् उदाहर ॥

6.148.2

परलोकगतो योगी शुभसङ्कल्पसंसृतौ ।
भोगान् सुरपुरे भुक्त्वा भूयो भवति कीदृशः ॥

6.148.3

ततस् सुकृतसम्भारे दुष्कृते च पुराकृते ।
भोगक्षये परिक्षीणे जायन्ते योगिनो भुवि ॥

6.148.4

शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् ।
असतां नैव पश्यन्ति पैशुन्याभिमुखं मुखम् ॥

6.148.5

तत्र प्राग्वासनाभ्यस्तं योगभूमिक्रमं बुधाः ।
स्पृष्ट्वा परिपतन्त्य् उच्चैर् उत्तरं भूमिकाक्रमम् ॥

6.148.6

तत्रोद्वेगमदग्लानिमोहमात्सर्यविभ्रमैः ।
दूरोज्झिताḫ प्रतिष्ठन्ते समं सोम्या इवेन्दवः ॥

6.148.7

असंसक्तधियो धीरा धन्या धवलबुद्धयः ।
भवन्ति भवभारस्थास् तृतीयां भूमिकाम् इताः ॥

6.148.8

जाग्रत्स्वप्नसुषुप्तांशतुर्यतुर्यातिगाभिधा ।
सप्तप्रकारा ब्रह्मात्मसत्तेयं पारमात्मिकी ॥

6.148.9

भूमिकात्रितयं ह्य् एतद् राम जाग्रद् इति स्थितम् ।
तच् च ब्राह्मम् अवस्थानम् अन्यासम्भवसम्भृतम् ॥

6.148.10

भूमिकात्रितये योगी सर्वं जाग्रद् इदं स्फुटम् ।
परिपश्यति संसारं पृथक्कार्यशताकुलम् ॥

6.148.11

घटादिता घटांशादौ पटांशादौ पटादिता ।
वटांशादौ वटादित्वम् अवस्थात्रयसंस्थितौ ॥

6.148.12

यथावद् भेदबुद्ध्येदं जगज् जाग्रति दृश्यते ।
उदेति योगयुक्तानाम् अत्र केवलम् आर्यता ॥

6.148.13

अपरामृष्टतत्त्वस्य यत् पदार्थैकभावनम् ।
अम्लानं तद् भवेज् जाग्रद् असद् अस्तु सद् अस्तु वा ॥

6.148.14

कर्तव्यम् आचरन् कार्यम् अकर्तव्यम् अनाचरन् ।
तिष्ठति प्रकृताचारो यस् स आर्य इति स्मृतः ॥

6.148.15

यथाचारं यथाशास्त्रं यथाचित्तं यथास्थितम् ।
व्यवहारम् उपादत्ते यस् स आर्य इति स्मृतः ॥

6.148.16

प्राप्तं कर्मेन्द्रियैर् याति नाप्राप्तम् अभिवाञ्छति ।
हर्षामर्षमदोन्मुक्तो यस् स आर्य इति स्मृतः ॥

6.148.17

प्रथमायाम् अङ्कुरितं भूमौ विकसितं ततः ।
फलीभूतं तृतीयायाम् आर्यत्वं योगिनो भवेत् ॥

6.148.18

आर्यतायां मृतो योगी शुभसङ्कल्पसम्भृतान् ।
भोगान् भुक्त्वा कल्पितांश् च योगवाञ् जायते पुनः ॥

6.148.19

आदेहं भावितं यत् स्यात् तद् देहान्ते ऽनुभूयते ।
तन् मुहूर्ते युगावस्था किं जीवेनानुभूयते ॥

6.148.20

यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
कालत्रयविभागस्थम् आद्यन्तपरिवर्जितम् ॥

6.148.21

तद् ब्रह्मतिलतैलत्वं विद्धि ब्रह्मविदां वर ।
यथा तिले स्थितं तैलं तथेदं ब्रह्मणि स्थितम् ॥

6.148.22

मरणं जीवितं चेष्टा जाड्यचित्त्वे सुखासुखे ।
इतीदं ब्रह्मणि ब्रह्म तिले तैलम् इव स्थितम् ॥

6.148.23

माया जीवो मनश् चित्तम् ईहानीहा गतिर् जगत् ।
इतीदं ब्रह्मणि बृहत् तिले तैलम् इव स्थितम् ॥

6.148.24

तिलो ऽन्तस्संस्थितं तैलं यथानुभवति स्वयम् ।
तथानुभवति ब्रह्म स्वस्मिन्न् एवान्तरे जगत् ॥

6.148.25

चेतत्य् अन्तस् तिलस् तैलं क्वचित् पूर्वं क्वचित् परम् ।
क्वचिद् अल्पं क्वचिद् भूरि म्लानं शुद्धं क्वचिद् यथा ॥

6.148.26

चेतत्य् अन्तस् तथा ब्रह्म क्वचिज् जाड्यं क्वचिच् चितिम् ।
क्वचिच् चित्तादि शैलादि क्वचिद् आकाशतां क्वचित् ॥

6.148.27

क्वचिच् छून्यं क्वचित् स्पन्दं क्वचित् कालं क्वचिद् दिशम् ।
क्वचिच् छब्दं क्वचिच् छान्तं क्वचित् तनु क्वचिद् घनम् ॥

6.148.28

तमस् तेजश् शुभं पापम् अहं त्वं तानि तत्र तत् ।
देशं तत्त्वम् अतत्त्वं प्राग् अद्य सत्त्वम् असद् बलम् ॥

6.148.29

एवम् एकम् अनानैव नानेवास्ते परं पदम् ।
दण्डचक्रलताकारैस् तरङ्गैर् अम्ब्व् इवाम्भसि ॥

6.148.30

एवं सर्वात्मनि तते क्वचित् किञ्चित् प्रकाशते ।
अद्वितीयम् अनाद्यन्ते द्रवत्वम् इव वारिणि ॥

6.148.31

तन्मृतिप्रसरे राम मुहूर्तं जडताभ्रमे ।
चिराचिरप्रत्ययिनि प्रश्नस् ते नोपपद्यते ॥

6.148.32

प्रतिभात्मनि विस्तारे यद् यथा प्रतिभासते ।
स एव तत् तथा तेन किम् इवात्र विकल्प्यते ॥

6.148.33

किं द्रवस्पन्दने वारिमरुतोर् इव नो यथा ।
तयोस् तदात्मकतया युक्तḫ प्रश्नो भवादृशाम् ॥

6.148.34

ब्रह्मात्मनि तथा सर्गे सर्गताप्रत्यये कृते ।
किं भूẖ किं खं किम् आशेति प्रश्नस् ते राम नोचितः ॥

6.148.35

एतस्माच् च पदाच् छुद्धाल् लुठितानां भवार्णवे ।
भूतानां सुचिराभ्यस्ता वासनैवात्र कारणं ॥

6.148.36

यद् यथा संविदाभ्यस्तं शैत्यौष्ण्यादि निजोदयम् ।
असद् एव द्विचन्द्राभं तत् स्वभावं विदुर् बुधाः ॥

6.148.37

स्वभावस्य स्वभावं स्वम् अबुद्ध्वैव भ्रमाकुलाः ।
अविकल्प्यस् स्वभावो न इति निश्चयिनस् स्थिताः ॥

6.148.38

असम्भवात् परे तत्त्वे स्वत्वभावदृशोḫ पृथक् ।
स्वभावो ब्रह्मणीत्य् उक्तिर् अमूला न विराजते ॥

6.148.39

एवम् एव प्रवर्तन्ते इति भावा भवा इव ।
एवम् एव निवर्तन्ते इत्य् अवृत्तियुता इव ॥

6.148.40

न जायते न म्रियते क्वचित् किञ्चित् कदाचन ।
सर्वं शान्तम् अनिर्देश्यं शैलोत्कीर्णम् इवाक्षयम् ॥

6.148.41

घनवासनयोच्छूने मोहे घनतरात्मनि ।
मुहूर्त एव कल्पत्वं दुẖखित्वाद् अनुमीयते ॥

6.148.42

यथा ब्रह्मणि ब्रह्मत्वं तथैवैतास् तदात्मिकाः ।
नामशब्दार्थरहितास् संस्थितास् स्वानुभूतयः ॥

6.148.43

वासना दीर्घदुẖखाय प्रेक्षिता सा न विद्यते ।
नाहम् इत्य् एव संवित्त्या स्वयत्नेन विलीयते ॥

6.148.44

अहन्तानुभवो दुẖखम् अनहन्तोदयस् सुखम् ।
दृषद्धृदयताभावाद् अलम् एतद् उदेति ते ॥

6.148.45

परमं मौनम् आश्रित्य यथास्थितम् अवस्थितः ।
अखण्डम् एतद् आप्नोति नरो निर्विघ्नम् उत्तमम् ॥

6.148.46

ब्रह्माभिधानास्ति शिलातिविस्तृता तस्यां त्रिलोकीचिरसालभञ्जिका ।
स्थिता भवाभावरयादिकात्मिका चित्तान्विताचित्तककाष्ठमौनिनी ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc