भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.147

6.147.1

कलनामात्रकार्यत्वाद् इमे मेर्वादयो ऽद्रयः ।
मृदवो लघवस् साक्षात् कौशेयनिकराद् अपि ॥

6.147.2

निस्स्पन्दपवनाकारशरीरा भूतजातयः ।
ब्रह्माद्या अपि विद्यन्ते पिशाचपटलादिवत् ॥

6.147.3

अहोरात्रात्मनी तुच्छे प्रकाशतमसी तते ।
जन्तोḫ पवनदेहस्य च्छायाविहसने इव ॥

6.147.4

अन्विष्यमाणम् अप्राप्यं जगत् स्फुरति खे परे ।
केशपिञ्छलवभ्रान्तिर् इवानिर्मलचक्षुषः ॥

6.147.5

सुरासुरास् स्फुरन्तीमे छिन्नवृक्षपिशाचवत् ।
परिपश्यन्ति संसारं दग्धदेहकजीववत् ॥

6.147.6

निश्श्वसन्ति च भस्त्रावद् विवर्तन्ते खधूमवत् ।
चिन्वन्त्य् अर्धप्रसुप्ताभं पश्यन्त्य् उद्भ्रान्तम् आबिलम् ॥

6.147.7

जडास् स्फुरन्ति जनता नदीरयतरङ्गवत् ।
बुध्यन्ते ऽन्यात्मकाश् चान्यत् कोकिलाẖ काकताम् इव ॥

6.147.8

उद्यन्ति स्थावरा भूमौ रयरेखा इवाम्भसि ।
भावाḫ परिणमन्त्य् अन्तर् जलानीव रयाज् जले ॥

6.147.9

अनुभूतय आत्मस्था इक्षोर् मधुरता इव ।
क्षोभ्यन्ते विक्रियन्ते च पवनस्पर्शपीडनैः ॥

6.147.10

कलनैकात्मिका लघ्वी सकुलाद्रीन्द्रमण्डला ।
तुलाम् आरोपिता भूमिर् न भवत्य् अर्धरक्तिका ॥

6.147.11

भविष्यद्भूतकोशस्थं द्यौḫ पातालतलं गता ।
अग्नेश् चित्रकृतस्येव शैत्यम् एवानुभूयते ॥

6.147.12

अधूमात्म निराधारम् अवातादिसमीरितम् ।
खम् ऊर्ध्वम् अम्बु यात्य् अभ्रैर् बान्धवैर् इव शिक्षितम् ॥

6.147.13

समुद्रा दिवि तिष्ठन्ति तारका उदिता भुवः ।
नृत्यन्ति सभुजाश् शैलाश् सैकतं तैलम् उज्झति ॥

6.147.14

यथा सङ्कल्प्यते यद् यत् तत् तथा न तद् अन्यथा ।
सङ्कल्पकलनाकल्पं किं सत् किं वाप्य् असद् भवेत् ॥

6.147.15

न स्थिरं नास्थिरं किञ्चिन् न जडं न च चेतनम् ।
नाहं न त्वं न सन् नासन् न स्थूलं नाणुताततम् ॥

6.147.16

सर्वं च सर्वथा सर्वं सर्वदा सार्वसार्विकम् ।
कल्पनाविश्वरूपात्म न तद् अस्ति न यद् वपुः ॥

6.147.17

बालेनैरावणो बद्धो दग्धाश् चन्द्रत्विषाद्रयः ।
सरित्प्रवाहलगुडैर् युध्यन्ते चित्रमानवाः ॥

6.147.18

सुफालकृष्टे वितते व्योम्नि व्युप्तास् सुशालयः ।
पक्वाश् च सङ्गृहीताश् च भाण्डेषु च नियोजिताः ॥

6.147.19

हरिणा हारि गायन्ति नृत्यन्ति वनराजयः ।
पद्मा दृषदि जायन्ते प्रसूताẖ कलभं शिलाः ॥

6.147.20

उड्डीयन्ते पुराण्य् उच्चैर् भिक्षन्ति भुवि भानवः ।
सानवो नगरायन्ते गायन्ति मृदु मद्गवः ॥

6.147.21

इत्यादिकापि सङ्कल्पकला सत्येव राजते ।
अन्या सत्याप्य् असत्येव न संवित्तिर् विराजते ॥

6.147.22

एषा च सङ्कल्पकला तीव्रसङ्कल्पकल्पिता ।
पूर्वसङ्कल्पसन्त्यागात् सत्यरूपानुमीयते ॥

6.147.23

अतस् सत्यम् असत्यं वा नेह किञ्चन विद्यते ।
यद् यथा भाव्यते यत्र तत् तथा तत्र दृश्यते ॥

6.147.24

इति नास्तीदम् अखिलम् अस्ति वा ब्रह्मसत्तया ।
आकाशात्म निराकाशं सुप्तमानवहृत्समम् ॥

6.147.25

इतीयं हृदयेनैव त्रिजगत्पुस्तपुत्रिका ।
न जन्यते जन्यते वा धार्यते वा न धार्यते ॥

6.147.26

यादृशेन यदा यत्र संस्थानेनाभिरोचते ।
तादृशेन तदा तत्र स्वेच्छयोत्पाद्यते न वा ॥

6.147.27

इत्य् अस्मिन् पेलवाकारे सङ्कल्पायत्तरूपिणि ।
स्वायत्ते सदसद्भावभ्रमे केव कदर्थना ॥

6.147.28

स्वयत्नमात्रसंसिद्धिर् एष सो ऽङ्ग शिशोर् अपि ।
सर्गो ऽपवर्गलाभो वा मन्ये सिध्यति हेलया ॥

6.147.29

एतद् बुद्ध्वा बुद्धिमत्त्वान् निरामयमनोमयः ।
भावाभावोभयात्तस् त्वम् अमनोमय एव वा ॥

6.147.30

इति भ्रान्तिमयं विश्वं बुद्ध्वा विष्वग् असारवत् ।
विश्वशब्दार्थसन्त्यागे निष्ठायां तिष्ठ सारवत् ॥

6.147.31

नेह सत्यं न वासत्यं नावस्तुत्वं न वस्तुता ।
केनापीदं क्वचित् किञ्चित् किम् अपीव क्वचित् स्थितम् ॥

6.147.32

का नाम सास्ति कलना कलयापवर्गो वाचां ययैति विषयं विशदावभासः ।
शास्त्रेण केवलम् असौ परिवर्ण्यते ऽन्तस् सम्बोधम् एति तु कयापि निजैकयुक्त्या ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc