मोक्षोपाय · अध्याय 6.149
अहन्ताबीजसङ्कल्पमात्रम् एवम् इदं मुने ।
अविद्यमानम् एवाति विद्यमानम् इव स्थितम् ॥
एवं चेत् तद् वद ब्रह्मंल् लोके शास्त्रे श्रुतौ स्मृतौ ।
देहḫ पिण्डादिनोदेति मृतस्येति किम् उच्यते ॥
यथा ब्रह्म तथैवास्ति सर्गो ऽयं नियमान्वितः ।
अतदन्यस् तदन्यत्वं सर्गताप्रत्ययाद् गतः ॥
अत्र सर्गादिशब्दार्थो भूतादीन्य् उपसंस्थितः ।
भूतत्वं विद्धि भूतानाम् अहन्तामननात्मकम् ॥
रागद्वेषात्मिका चैषा कलना नेतरात्मिका ।
इदम् एवम् इदं नैवम् इत्य् एकात्मस्वरूपिणी ॥
सोदिता सर्गशब्दार्थकलना मानमानिनी ।
ब्रह्मादिनादिपुरुषरूपेणाहन्त्वरूपिणी ॥
इदं कार्यम् इदं नेति नियमेन विना च सा ।
न भवत्य् आत्मनैतावन्मात्ररूपैकजीविता ॥
ब्रह्मादितां गतायास् तु तस्यास् तवममात्मिकाम् ।
न भवत्य् अन्यता तस्मात् स्वभावात् परमात्मनः ॥
तेन ब्रह्मादिताम् एत्य स्वरूपस्थैव तिष्ठति ।
नोपशाम्यति नोदेति निरिच्छत्वात् परात्मिका ॥
भावाभावौ समाव् अस्या निष्कलङ्कात्मकस्थितेः ।
तेनैषास्ते समं वेत्ति नाभावं भवनं न च ॥
यदोत्पन्नैव सा संविद् ब्रह्मादिकलनामयी ।
आत्मन्य् एव निरिच्छास्ते शान्तानुत्पन्नसन्निभम् ॥
तद् एवम् अखिलं शान्तं व्योमेवानन्तकं स्थितम् ।
कम् अप्य् अकलितं कालं नास्माभिस् तद् विचार्यते ॥
यदा तु सा मनस्सत्ता प्रसरन्ती स्वभावतः ।
आस्ते तदा तदाकारस् सर्ग इत्य् एव तिष्ठति ॥
प्रसरन्त्या यथा नद्यास् स्वावर्तादिस्वरूपकम् ।
तथा सङ्कल्पसत्ताया जगदाद्यात्मकं वपुः ॥
स्थितायास् सर्गसंवित्तेर् इदम् इत्थम् इदं त्व् इति ।
इति संस्थानरचनाद् ऋते सत्ता न विद्यते ॥
विरिञ्चतादिसम्पन्ना यदात्मन्य् एव शाम्यति ।
इदम् इत्थम् इदं चेति तदा न भवति क्रमः ॥
शान्तं सर्वगतं शून्यम् आस्ते ब्रह्मैव केवलम् ।
वारीवावर्तवत् सत्यं तद् अस्माभिर् न चर्च्यते ॥
यदा त्व् आशु न निर्वाति स्वात्मसत्तात्मकं तदा ।
इदं कार्यम् इदं नेति सर्गदृष्ट्या प्रसर्पति ॥
यत् कल्पनाविसरणं तत् सर्ग इति दृश्यते ।
विसारी चक्रकव्यूहस् तैलबिन्दुर् इवाम्भसि ॥
यद् एव सर्गसंस्थानं सर्गसत्ताकरं परम् ।
तद् एवेत्थम् इदं त्व् इत्थम् इदम् अत्यर्थजृम्भणम् ॥
इदम् इत्थम् इदं चेत्थम् इत्य् आस्ते यदि नेह तत् ।
कथम् ऊर्ध्वं भवेद् ऊर्ध्वम् अधश् चाधẖ कथं भवेत् ॥
प्रतिभात्मनि सम्पन्ने सन्निवेशे जगत्स्थितेः ।
ब्रह्मादिरूपमननं मरुमार्गवृथाम्भसि ॥
शब्दस्पर्शादयस् तस्यास् स्व एवावयवास् ततः ।
सङ्कल्पात्मान एवाशु सरूपालोकवेदनैः ॥
परस्परं विवर्तन्ते पयांसीव द्रवौजसः ।
अर्थस् सत्ताम् उपादत्ते शब्दो ऽर्थम् अनुधावति ॥
अन्य आधारतां धत्ते पर आधेयताम् अपि ।
प्रयच्छत्य् आर्तवम् ऋतुकालश् चेद् ऋतुतां वहन् ॥
एवं क्रमे विकसिते वस्तुसत्तानियामके ।
नियतिस् स्थिरताम् एति स्वयं निम्ने यथा पयः ॥
वेदा इत्य् एव नियतेस् ततस् ते नाम तद्गताः ।
भावयन्त्य् अर्थरूपेण नियन्त्रितजगत्स्थितेः ॥
जगत्स्थितेर् अथाकल्पं ज्ञानायापि च सिद्धये ।
स्थैर्याय चाशु नियतिं ते वेदा इति कल्पिताम् ॥
शब्दराशिमयीं कृत्वा ब्रह्मविष्णुहरादयः ।
धारयन्ति चिरारूढां हृद्य् अर्थगणनाम् इव ॥
तस्या वेदाभिधानायास् स्थितेर् अवयवा इमे ।
पिण्डदानादयस् तेन सैव रूढिम् उपागता ॥
भावितास् ते यथाभावं फलन्ति मनसि स्थिताः ।
पक्षीवाण्डरसाच् चित्त्वात् कालेनोद्यन्ति सन्ति च ॥
श्रुतिस्मृत्यर्थभावात्मा मृतो भावितम् अग्रगम् ।
सर्वं पश्यति सद्रूपं तच् च तस्य फलप्रदम् ॥
श्रुतिस्मृतिगतिर् येन न मनाग् अपि भाविता ।
स मृतो मोहम् आयाति घनम् आत्मज्ञतां विना ॥
मनाग् अपि च सा येन भाविता स मृतḫ पुमान् ।
तावन्मात्रफलं भुक्त्वा पुनर्जन्मनि जायते ॥
श्रुतिस्मृतिगतिर् येन भाविता वा न भाविता ।
भाविता चात्मसत्तासौ मुक्त एव न संशयः ॥
यच् चित्तभूमौ पतितं बीजम् आशु मनाग् अपि ।
तद् अवश्यं हि कालेन फलत्य् अविकलं फलम् ॥
पिण्डादिदानस्य फलानि लोके श्रुत्वा मृतस् सन् पुरुषḫ पुरस्तात् ।
प्राप्नोति तान्य् अन्तर् अवश्यम् एव भुङ्क्ते यथाभावितम् एव चेतः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0