भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.146

6.146.1

यथा पुस्तमयं सैन्यं महारम्भम् अपि स्फुटम् ।
विद्यमानम् अनन्तं च सहस्राङ्गायुधादिकम् ॥

6.146.2

स्वरूपं प्रति तज् जाड्यान् नित्यासम्भवदीहनम् ।
अरूपालोकमननम् अदिक्कालकलादिकम् ॥

6.146.3

केवलं केवलं शान्तं समनिर्वाणम् आत्मनि ।
दृष्टैर् अनुमितैर् ज्ञातैर् इतरेण दशाभ्रमैः ॥

6.146.4

मनाग् अप्य् अपरामृष्टं विद्यमानम् असन्मयम् ।
अहमादित्वम् आद्यं च तथैवाखण्डितं जगत् ॥

6.146.5

ब्रह्मपुस्तमयं सर्वं विद्यमानम् असन्मयम् ।
रूपालोकमनस्कारशब्दार्थपरिवर्जितम् ॥

6.146.6

अन्येनानुमितैर् अर्थैर् मुक्तम् आत्मनि संस्थितम् ।
न च सत्यं न चासत्यम् आत्मन्य् अद्वयतावशात् ॥

6.146.7

अन्यो ऽस्ति पुस्तसैन्यानाम् अस्मदादिर् मुनीश्वर ।
अस्मदादेस् तु को ऽन्यस् स्याद् अनन्ताद् ब्रह्मणḫ पदात् ॥

6.146.8

नास्त्य् एव यस् स नो ऽन्यो ऽस्ति ब्रह्मपुस्तमयात्मकः ।
असन्न् अभ्युदितो मोहḫ प्रेक्षितो यो न लभ्यते ॥

6.146.9

स एतान् असतो ऽनन्यान् दूराद् भावविकारकान् ।
पश्यत्य् उन्मत्तको जन्तुर् जीवन्न् आत्ममृतिं यथा ॥

6.146.10

स एषो ऽप्रेक्षणात्मैव शुक्तौ रजतधीर् इव ।
न विद्यते प्रेक्षितस् सञ् शुक्तौ रजतधीर् इव ॥

6.146.11

अस्माभिḫ प्रेक्षितस् तेन नूनं निर्मूलतां गतः ।
अनालोकḫ पुरो रूढं वस्तु नेति विलोकनात् ॥

6.146.12

यैस् तु न प्रेक्ष्यते तेषां शतशाखं विजृम्भते ।
असत्य एव सत्येन बालवेतालसैन्यवत् ॥

6.146.13

आसृष्टिकरम् आरुद्रम् इयं भ्रान्तिर् उपस्थिता ।
तथाप्य् अनन्तदुẖखाय किं शुभं ज्ञातयानया ॥

6.146.14

असन् निवर्तते राम क्षणाद् एव निरीक्षितम् ।
सत्यं तु वस्तु कृच्छ्रेण क्षीयते नैव वानघ ॥

6.146.15

अविद्या ज्ञातमात्रैव शाम्यत्य् आशु न बाधते ।
न विप्रलम्भयत्य् अन्तर् मृगतृष्णाम्बुधीर् इव ॥

6.146.16

यद् एवास्याḫ परिज्ञानं स एवास्याḫ परिक्षयः ।
श्रेयसे परमायैव मित्रे शत्रुधियो यथा ॥

6.146.17

परिज्ञातैव गलति लगत्य् अज्ञानरूषिता ।
स्वभावतश् च नास्त्य् एव मिथ्या यक्षमतिर् यथा ॥

6.146.18

नास्त्य् अविद्यालम् इत्य् एव प्रत्ययो ज्ञानम् उच्यते ।
रूढिं गताज्ञे ज्ञे त्व् एषा ब्रह्म मोक्षस् स एव च ॥

6.146.19

असत् प्रेक्षितम् एवासत् सत् तु नैव निवर्तते ।
यदासत्यजगद्भ्रान्तिस् तदैषाशु निवर्तते ॥

6.146.20

कल्पनामात्रसम्पत्तिर् अकल्पनविलायिनी ।
मनस्सत्तेव मृद्वङ्गी नरायत्तभवाभवा ॥

6.146.21

पुरुषायत्तजननमरणायाम् अखिन्दतः ।
यथावद् अस्यां बुद्धायां मोक्ष एवावशिष्यते ॥

6.146.22

अद्रिद्यूर्वीनदीशादिकल्पनामात्रकात्मकाम् ।
पीत्वाकल्पनमात्रेण निर्वाति निपुणं पुमान् ॥

6.146.23

यदि शैलादि सत्यं स्यात् तत् केन विनिवार्यते ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥

6.146.24

यथा प्रसरति स्पन्दाच् चक्रवृन्दम् असज् जले ।
तथोल्लसति सङ्कल्पाच् चित्खे संसारमण्डलम् ॥

6.146.25

निजस्पन्दवशाद् एकं शतावर्तं पयो यथा ।
निजस्पन्दवशाद् एकं जगदात्म परं तथा ॥

6.146.26

प्रविचारितम् अन्विष्टं यावच् चक्रादि नाम्भसि ।
अस्ति नापि च सर्गादि चिद्व्योम्नि न च कल्पना ॥

6.146.27

स्वयत्नमात्रसङ्कल्पप्राप्यौ सर्गापवर्गकौ ।
य एव रोचते यस्मै तयोस् तं सो ऽनुगच्छति ॥

6.146.28

अवित्त्वाद् अपवर्गत्वं वित्त्वाज् जन्मचमत्कृतिः ।
वेद्यम् अस्ति च नो सत्यं यथेच्छसि तथा कुरु ॥

6.146.29

असद् वेद्यं विनिर्माय भुङ्क्ते क इव दुẖखदम् ।
प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥

6.146.30

क ईदृशो ऽस्ति मुक्तात्मा यो विनिर्माय यक्षकम् ।
तेनैव घट्टयत्य् आर्तं स्वयम् आत्मानम् अक्षतम् ॥

6.146.31

यस्मै वा सर्गवेतालसमुत्थानं विरोचते ।
आत्मनाशाय सङ्कल्पाद् उत्थापयतु सो ऽङ्ग तम् ॥

6.146.32

दृश्यं निर्माय द्रष्टृत्वम् एत्यात्मानं निबध्य च ।
य इच्छति सुखं स स्वं विदधातु यथेप्सितम् ॥

6.146.33

यथाभूतार्थकथने वयं नाम समुद्यताः ।
श्रुत्वा सत्यम् असत्यं तु गृह्णातु स्वेच्छया जनः ॥

6.146.34

सर्गार्थी सर्गयुक्तीहो मोक्षार्थी मोक्षयुक्तिमान् ।
भवत्व् अत्र महाबाहो न नẖ कश्चिद् अपि ग्रहः ॥

6.146.35

सर्गाद् व्यावृत्तसंविद् यस् सबाह्याभ्यन्तरात्मनः ।
सर्गासत्तावबोधात्मा सो ऽमृतत्वाय कल्पते ॥

6.146.36

सर्गासत्ताप्रत्ययेन सर्गसंविन् निवर्तते ।
साहन्ता समनस्कारा शिष्यते यद् अनाम तत् ॥

6.146.37

सुविचारितम् अन्विष्टं यावत् सर्गो न विद्यते ।
साहन्तादिमनस्कारẖ किम् अन्यद् भ्रमकारणम् ॥

6.146.38

पातालम् आविशसि यासि नभो विलङ्घ्य दिङ्मण्डलं भ्रमसि चेत् तद् अनात्मतात्मा ।
भ्रान्तीतरो ऽहम् इति नास्ति न सर्गवर्गस् स्पन्देतरो ऽनिल इवाम्ब्वितरेव धारा ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc