मोक्षोपाय · अध्याय 6.145
खात्मानस् सकलास् सर्गास् सर्गात्म सकलं च खम् ।
न नभस्सर्गयोर् भेदḫ पवनस्पन्दयोर् इव ॥
पूरितानन्तगगनाḫ प्रभा व्योम्नि गमागमम् ।
न यथा रोधयन्त्य् एतास् तथा सर्गाḫ परस्परम् ॥
मिलन्ति न मिलन्त्य् अन्तर् यथैते परमाणवः ।
खे सूक्ष्मत्वाद् अलक्ष्यत्वात् तथा सर्गाḫ परस्परम् ॥
मनाग् अपि न भेदो ऽस्ति मिलितानां यथाम्भसाम् ।
तथा चिद्घनरूपाणाम् सर्गाणां श्लिष्यताम् अपि ॥
नीहाराणां विमिश्राणां लक्ष्यन्ते नाणवो यथा ।
पृथग् जीवैर् न सर्गाणां लक्ष्यन्ते जन्तवस् तथा ॥
यथा याति सरित्य् अम्बु मज्जनोन्मज्जनाबिलम् ।
तथा स्फुरति सर्गौघḫ पृथङ् मिश्रश् च चिद्धृदि ॥
अवायवो यथामोदा मिश्रीभूताḫ परस्परम् ।
न रोधका न पश्यन्ति तथा सर्गाẖ खरूपिणः ॥
आवर्ताḫ परिवर्तन्ते यथा रजसि राजसाः ।
अस्पष्टोग्रानिले स्फारे तथा सर्गाḫ परस्परम् ॥
सङ्कल्पात्मतयान्योऽन्यं न द्रष्टारो न रोधकाः ।
नभसीव नभोभागास् स्वप्रभास्व् इव च प्रभाः ॥
केचिन् मिथः सम्मिलिता एकताम् उपयान्त्य् अलम् ।
नीहारेष्व् इव नीहारास् स्वप्रभास्व् इव च प्रभाः ॥
केचिन् मिथस् सम्मिलिता अपि भान्ति विलक्षणाः ।
घृतोदा इव दुग्धाब्धौ रत्नदीप्ताव् इवार्कभाः ॥
सविकासा यथा स्वप्ने मेरुमन्दरकोटयः ।
संवित्तत्त्वे तथा सर्गा दृषदाद्यन्तरेष्व् अपि ॥
संवित् सर्वगता शान्ता सत्तासामान्यरूपिणी ।
सर्गशब्दार्थरहितास् सर्गास् तस्याẖ किलोदरम् ॥
स्थलं जलं नभश् शैलं पूर्वम् अद्याधुनाखिलम् ।
सर्वं सर्वगतं शान्तं सर्वगत्वान् महाचितेः ॥
संविन्मयत्वाद् वार्यन्तर् अपि सन्त्य् एव सृष्टयः ।
चित्ताकाशात्मिका नोढाḫ प्रतिबिम्बान्विता इव ॥
भूतपञ्चकसत्तासु सबाह्याभ्यान्तरं सदा ।
सन्ति सर्गसहस्राणि न च सन्ति कदाचन ॥
सर्वत्र सर्वदा सर्वं सार्वं सर्वेण सर्वथा ।
न तद् अस्ति न यत् सत्यं न तद् अस्ति न यन् मृषा ॥
न च किञ्चिन् मृषा नैव सत्यं किञ्चिन् न मध्यमम् ।
बृहद् ब्रह्मायते ब्रह्म शान्तम् अन्तविवर्जितम् ॥
सर्वभावोपमर्देन भावḫ फलति पीवरः ।
तेनातिभावो जयति श्लिष्टयोर् अपि सर्गयोः ॥
जीवḫ परस्पराप्राप्ताव् ऊनभावेन सिध्यति ।
संसारस् समभावस् तु समतां गच्छति द्वयोः ॥
विलक्षणा बृहद्भावास् समत्वान् मिलिता मिथः ।
वैलक्षण्येन तिष्ठन्ति नानावर्णा इव त्विषः ॥
निरर्गला सर्गपरम्परेति विजृम्भते ऽन्तḫ परमाणुधातोः ।
अप्य् अन्तर् अद्रीन्द्रशिलान्तरे च वह्नौ जले वाखिलवस्तुजाते ॥
सङ्कल्परूपाद्रिनदीदिनेशदिक्कालकल्पस्फुरणाकुलापि ।
जगन्महामण्डलपिण्डपीठी व्योमोदरं चिद्घनशून्यधातौ ॥
नभश् च वास्या उदरे ऽप्य् अपारं सचन्द्रताराद्रिदिवाकरादि ।
मिथस् त्व् अदृष्टश्रुतशब्दसारा काचिन् मिथोलब्धशरीरिकापि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0