मोक्षोपाय · अध्याय 6.144
प्रत्येकम् एवम् उदितḫ पृथक्संसारषण्डकः ।
ससुरासुरपाताललोकान्तरधराम्बरः ॥
ब्रह्मविष्ण्विन्द्ररुद्राद्या एवम् एव गतास् स्थितिम् ।
सङ्कल्पात्मान एवेमं सर्गसङ्कल्पम् आश्रिताः ॥
ब्रह्मविष्ण्विन्द्ररुद्रादिḫ पूर्वम् एव मनोमयी ।
मायेयम् उदिता मिथ्या सर्गता कल्पनात्मिका ॥
यद् यद् आलोक्यते किञ्चिन् मायायास् तद् असन् नभः ।
अन्तरन्तरसारात्मरम्भास्तम्भा इवोदिताः ॥
सङ्कल्पपुरुषा एते ब्रह्मरुद्रेन्द्रकादयः ।
असत्याश् चैव सत्याश् च चित्त्वाचित्त्वैर् इह स्थिताः ॥
भूतं प्रति पृथग्भूतस् सर्गो विकसितस् स्वयम् ।
सङ्कल्पस्वप्नपुरवन् मनोराज्यवद् आततः ॥
सर्वगत्वाच् च चिद्धातोर् मिथश् चानुभवभ्रमात् ।
सर्गेष्व् एतेषु सद्रूपास् समस्ता भूतजातयः ॥
सम्मिलन्ति मिथẖ केचिन् निरावरणसंविदः ।
सर्गाḫ परिणमन्त्य् अन्ये त्व् अपरस्परवेदिनः ॥
काकतालीयवत् केचित् सर्गास् सर्गे पतन्त्य् अपि ।
देशम् अन्यम् इमं प्राप्ता वयम् इत्य् एव भाविताः ॥
क्रमेणानेन हे राम ते स्वप्नपुरुषा अपि ।
सङ्कल्पपुरुषाश् चैव सत्याश् चित्त्वाद् अखण्डितात् ॥
चिद्घनं चित्त्वसारत्वाच् चित्त्वम् एवावतिष्ठते ।
नास्य विघ्नो न वेधो ऽस्ति नान्यता न च नाशिता ॥
सङ्कल्पपुरुषास् सत्यास् सत्याश् च स्वप्नविभ्रमाः ।
वर्तमानार्थकारित्वान् नेह किञ्चिद् असन्मयम् ॥
परस्परम् अलभ्यत्वाद् यन् नार्थाय न वस्तु तत् ।
सत्यम् अस्माकम् अप्य् एष देशान्तरनरो यथा ॥
यद् यथा येन यत्रास्ति तत् तथा तेन तत्र तत् ।
नात्र सत्ये सदसती तेनालं मौनवान् भव ॥
जगत् स्वभावतो नास्ति यच् चेदं परिदृश्यते ।
तत् सर्वं ब्रह्मसत्तैव प्रेक्षितं वा न किञ्चन ॥
ब्रवीम्य् अभ्युपगम्यापि सर्गादि यदि विद्यते ।
तद् एतज् जठरं ब्राह्मं विद्धि तत्कचनात्मकम् ॥
यथान्तर् इक्षोर् माधुर्यं तैक्ष्ण्यं च मरिचादिषु ।
तथान्तर् ब्रह्मणो दृश्यम् अहन्तादि जगत्त्रयम् ॥
अहं जगद् दृश्यम् इति शब्दार्थैḫ परिवर्जितम् ।
अखण्डितम् इदं सत्यम् इदंशब्दार्थवर्जितम् ॥
द्यौẖ क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः ।
सतो ऽनवयवस्यापि भागा बहिर् अवस्थिताः ॥
पुरुषं प्रति सङ्कल्पात् सर्गो हृदि विजृम्भते ।
साद्रिद्यूर्वीनदीशांशẖ कौशे रस इवाङ्कुरे ॥
संवित् स्वोदरसंलीनं खात्मका खात्मकं जगत् ।
यथाभिरुचितेनान्तर् भोगेनास्वादयत्य् अलम् ॥
न स्वप्ने गम्यते देशो न देशो हृदम् एति वा ।
न जाग्रति बहिर्देशो न जाग्रद् देशवर्ति वा ॥
नान्तस्त्वं विद्यते किञ्चिन् न बहिष्ट्वं च वानघ ।
नाकल्पना नापि च वा कल्पनाकलनास्ति वा ॥
संविन् मुकुलितात्मानं त्रिजगन्मण्डलीम् इयम् ।
यत् स्वादयति तस्यैतन् नाम स्वप्नाभिधं स्थितम् ॥
यद् आत्मानं विकसिता त्रिजगन्मण्डलीम् इयम् ।
यत् स्वादयति तस्यैतच् चिह्नं जाग्रद् इति स्थितम् ॥
यन् न संवित् स्वम् आत्मानं कञ्चित् कालं श्रमाद् इव ।
आस्वादयति शान्तेव तत् सुषुप्ताभिधं स्मृतम् ॥
निर्वाणे वापुनर्भ्रान्त्यै यद् आत्मानं न विन्दते ।
संवित् स्थिरसमाभासा तत् तुर्यं मोक्ष उच्यते ॥
अन्तश् चेतनपद्मस्य जगद्गन्धो ऽस्त्य् असौ बहिः ।
स्फुरति प्रसृते तस्मिन्न् अन्तरस्फुरितात्मनि ॥
न सर्गसंविदोर् भेदḫ पवनस्पन्दयोर् इव ।
वात एव यथा स्पन्दस् संविद् एव तथा जगत् ॥
स्पन्दशब्दार्थधीत्यागे यादृशी पवनस्थितिः ।
सर्गशब्दार्थधीत्यागे तादृशी सर्गसंस्थितिः ॥
स्पन्दशब्दार्थधीर् वायौ कल्पिताकलनाक्षया ।
सर्गशब्दार्थधीश् शान्ते कल्पिताकलनाक्षया ॥
यत् सङ्कल्पसमुत्थानं तद् असङ्कल्पनं क्षयि ।
एतच् चानुभवात् सिद्धं किम् एतावति दुष्करम् ॥
न सर्गो ऽस्ति विद् अस्त्य् अच्छा सा च सत्येव खोपमा ।
विच्छब्दार्थाकल्पनेन तद् एतद् बुध्यते स्वयम् ॥
न सर्गसर्गशब्दार्थमतिर् अस्तीति निश्चयः ।
सर्गसङ्कल्पसंशान्ताव् आत्मनैवाशु बुध्यते ॥
असर्गप्रतिपत्तिर् हि सर्गशब्दार्थविस्मृतौ ।
स्फुटीभवत्य् अशेषेण शिष्यते यद् अनाम तत् ॥
वेदनं सर्गसंवित्तिर् अवेदनम् असर्गकम् ।
न वेदनावेदनयोर् भेदश् शब्दाद् ऋते ऽस्ति च ॥
सर्वस्यानन्तरूपत्वात् क्व भेदẖ क्व च भेदनम् ।
क्व विस्मृतिर् अतश् शान्तं तूष्णीम् एवासनं शिवम् ॥
निरस्तसङ्कल्पविकल्पजालम् आलानकल्पं सुचिरोषितं यत् ।
प्रशान्तशास्त्रार्थविचारसत्तम् अशङ्कम् आद्यं शिवम् अव्ययं तत् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0