भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.143

6.143.1

योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः ।
भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम् ॥

6.143.2

पुराभूवम् अहं जन्तुर् मृतो ऽहं तत्र बन्धुषु ।
चिरेणेहाहम् उत्पन्न इति पश्यत्य् असौ ततः ॥

6.143.3

एवं भावनयोच्छूनं जातं पश्यति देहकम् ।
सर्वावयवसम्पन्नं पङ्काद् इव विनिर्मितम् ॥

6.143.4

शरीरम् अभिसम्पन्नं पश्यन् प्रोच्छूनवासनम् ।
परलोकम् अथ स्फारं चिनोत्य् आशु च पश्यति ॥

6.143.5

ततẖ कतिपयं कालं शेषं दुष्कृतकर्मणाम् ।
भुक्त्वा सुकृतभोगाय याति पुण्यवतां पदम् ॥

6.143.6

तत्रोपरि विमानेषु लोकपालपुरेषु च ।
मेरूपवनकुञ्जेषु रमते रमणीसखः ॥

6.143.7

मन्दारदलदोलासु पुन्नागगहनेषु च ।
पारिजातवनाग्रेषु रमते रमणीसखः ॥

6.143.8

सन्तानकवितानेषु पारिभद्रद्रुमेषु च ।
कल्पपादपकुञ्जेषु रमते रमणीसखः ॥

6.143.9

योगभूमिगता ये ये म्रियन्ते पुरुषोत्तमाः ।
ते क्षीणदुष्कृता मत्ता रमन्ते सुरसद्मसु ॥

6.143.10

स्वास्तीर्णकल्पतरुपल्लवसंस्तरेषु पुष्पावनद्धमृदुहेमलतालयेषु ।
सम्यक्क्रियास् सुरपुरेषु सहाप्सरोभिर् विद्याधरास् सुरतसारसुखं रमन्ते ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc