मोक्षोपाय · अध्याय 6.142
मूढस्यासत्कुलोत्थस्य प्रवृत्तस्य नरस्य च ।
अप्राप्तयोगसङ्गस्य कथम् उत्तरणं भवेत् ॥
एकाम् अथ द्वितीयां वा तृतीयां चेतरां च वा ।
आरूढस्य मृतस्य स्यात् कीदृशी भगवन् गतिः ॥
मूढस्यारूढदोषस्य तावत् संसृतिर् आतता ।
यावज् जन्मान्तरशतैश् काकतालीययोगतः ॥
अथ वा साधुसङ्गत्या प्रवृत्तस्य नरस्य नो ।
उदेति वैराग्यमतिर् मरौ पुष्पलता यथा ॥
वैराग्यमतिर् एवं सा प्रवृद्धा भूमिकाक्रमे ।
नियोजयति संसारे तटीम् इव तरङ्गिणी ॥
केचिज् जन्ममहायोगैर् अप्य् अलब्धविचारणाः ।
अरघट्टघटीयन्त्रम् इवोर्ध्वाधḫपरास् स्थिताः ॥
प्रथमां वेतरां वापि योगभूमिं तु यो ऽभ्यसेत् ।
आयुẖक्षयम् अवाप्नोति पुनḫपाश्चात्यजन्मने ॥
स तम् अभ्यस्तम् एवान्तर् बुद्धौ परिकरं वरम् ।
वहन् याति मृतेḫ पार्श्वं यथा स्रोतस् सरिद्रयम् ॥
तत्र तैश् शुभसङ्कल्पैḫ पवित्रकलनात्मकः ।
तादृग्गुणमयैर् एव मित्रबन्धुभिर् अन्वितः ॥
अदीनात्मा जगद्भावान् अखिलान् अपरामृशन् ।
संस्मरन् परया भक्त्या जगत्तरणकारणम् ॥
सद्वासनामनोरूपो विजहाति शरीरकम् ।
वातावधूननाधूतम् आमोदẖ कुसुमं यथा ॥
प्राणवातान्वितो जीवगन्धो देहसरोरुहम् ।
प्रविहाय समुड्डीनẖ कम् अप्य् आकाशम् आगतः ॥
मुहूर्तम् एकं सौषुप्तीम् अवस्थाम् अनुतिष्ठति ।
देहभारं परित्यज्य गाढां निद्राम् उपागतः ॥
क्षणात् प्रबोधम् आयातस् सतताभ्यस्तया स्वया ।
आपूर्यते वासनया सरित्खात इवाम्भसा ॥
संस्मृत्य स्वधिया साधुस् स स्वभावनया तया ।
व्योम्नि व्योमवपुर् यस्मिंस् तिष्ठेत् पुर्यष्टकान्वितः ॥
न तु दूरे न निकटे व्योम नेदं न चेतरत् ।
काम् अप्य् अवर्णनायोग्यां ताम् आकाशदशां विदुः ॥
ततस् स जीवो व्योम्न्य् अत्र प्राणवातमयात्मकः ।
शनैḫ प्राग्भावम् आदत्ते मधौ रसम् इवाङ्कुरः ॥
भावना या सदाभ्यस्ता ताम् एव मरणावधौ ।
स्मरञ् जीवो जहातीमं भीमं भारं कलेवरम् ॥
यं यं भावं स्मरन् देहात् सदाभावितम् उत्प्लुतः ।
तस्यैव फलम् आप्नोति स्वपौरुषबलार्जितम् ॥
आदेहं यत् सदाभ्यस्तं जीवेन तद् असौ मृतौ ।
सर्वान् भावान् अनादृत्य स्मरतीदं कृतं मया ॥
युद्धराज्यसुरारामपाठरोदनविभ्रमान् ।
स्वकर्मफलभीतो ऽसौ नाग्रस्थान् अपि पश्यति ॥
य आसन्नफलो भावस् स्ववशेनावशेन वा ।
सर्वभावोपमर्देन स एवाग्रे विलोक्यते ॥
शुभम् अस्तु ममेदानीं चिरं माशुभम् अस्तु मे ।
आकीटामरम् आशैषा क्षीयते न कदाचन ॥
क्षीयते भावनैषान्तẖ केवलं विदितात्मनः ।
आकाशविशदश् शान्तो ज्ञḫ प्रनिर्वाति शाम्यति ॥
जडश् चेत् तत् पुरो भावान् मृतौ कांश्चिन् न पश्यति ।
अजडश् चेत् तदभ्यस्तैर् भावैर् आक्रम्यते ऽवशः ॥
एवम् आकाशरूपो ऽसौ जीवस् संवृतवासनः ।
तं मुहूर्तं जडावस्थो युगं यातं प्रपश्यति ॥
अभवं प्राग् अहं जन्तुर् मृतस् तत्रास्मि बन्धुषु ।
युगम् अत्र परिक्षीणम् अभिपश्यति स क्षणात् ॥
मुहूर्त एव सञ्जाते स जीवो युगनिश्चये ।
इह जातु प्रवृत्तो ऽस्मि देश इत्य् अवबुध्यते ॥
अभवं प्राग् अहं जन्तुर् मृतस् तत्रास्मि बन्धुषु ।
ततẖ कृता मे स्वजनैḫ पिण्डदानादिकाẖ क्रियाः ॥
ताभिर् लब्धशरीरेण मया सुकृतदुष्कृते ।
भुक्ते चिरतरं कालं जातो ऽस्म्य् अद्येत्थम् उत्थितः ॥
इत्थं मुहूर्त एवासौ गते प्रत्ययवान् भवन् ।
स्ववासनानुसारेण देहम् आत्मनि पश्यति ॥
मुहूर्ते सुचिरं कालम् अशरीरश् शरीरकम् ।
चिनोति पश्यत्य् अभ्येति जीवस् स्वप्नं भवान् इव ॥
अश्रेष्ठया वासनया दुष्टात्मफलवान् अहम् ।
दुẖखवान् अधमो जात इति पश्यति जीवकः ॥
प्रधानया वासनया प्रधानफलवान् अहम् ।
जातḫ प्रधान एवेति चिनोत्य् आत्मानम् आत्मना ॥
जीव एवम् अदेहो ऽपि सदेहत्वम् उपागतः ।
देशकालक्रमप्रौढं परलोकं प्रपश्यति ॥
अयं स परलोको मे धर्मराजनरा इमे ।
अयं नीतो ऽस्मि नेयो ऽयं ममेदं तत्त्वम् ईहितम् ॥
परलोकभुवस् त्व् एतास् सत्यं वच्मि पुराकृतम् ।
पृष्टो ऽस्म्य् अयं धर्मभृता च्छायेयं मम साक्षिणी ॥
सुकृतं दुष्कृतं चेदं कर्म मे पुरतस् स्थितम् ।
अयं नीतो ऽस्मि गच्छामि स्वर्गं नरकम् एव वा ॥
एवम्प्रत्ययवाञ् जीवो दीर्घं संसृतिविभ्रमम् ।
सम्पश्यति क्षणेनैव संवत्सरशतेन च ॥
एष दुẖखमहाषण्डो वासनाबीजकोटरात् ।
अहम् इत्य् आत्मनो व्यक्तं दुर्जाताद् उपजायते ॥
नियोजितो ऽस्म्य् अयं दुẖखे सुखे वा योजितो ऽस्म्य् अयम् ।
अयं मे वत्सरो यात इदं वर्षशतं गतम् ॥
एतत् तद् दुष्कृतं भुक्तम् एतास् तास् स्वर्गसम्पदः ।
योन्यन्तरेषु तिष्ठन् हि स्थितो ऽस्म्य् अहम् इह द्रुमः ॥
स्थितास्मीयम् अहं वल्ली सम्पन्नो ऽस्मीह षण्डकः ।
गर्दभो ऽयम् अहं जातश् शुको ऽयम् अहम् आस्थितः ॥
मर्कटो ऽस्मीह सम्पन्नस् सम्पन्नो ऽस्मीह तित्तिरिः ।
ऋक्षो ऽस्मीह वटो ऽस्मीह मत्स्यो ऽस्मीहाथ कच्छपः ॥
इह वर्षशतं तिर्यग् इह वर्षशतं तृणम् ।
प्राप्नोमि मानुषीं जातिं नरो भूयो भवाम्य् अहम् ॥
पिण्डदानादिभिर् बन्धुकृत्यैस् सत्पुत्रचेष्टितैः ।
क्षीणदुष्कृतसम्पन्नो भवामि पुरुषो ऽधुना ॥
अयम् अस्यास् स्त्रिया गर्भे मातुर् अस्मि नियोजितः ।
गर्भमासाष्टके क्षीणे पितुर् जातो ऽस्म्य् अयं गृहे ॥
स्थितो ऽस्म्य् अयम् अहं बालḫ प्राप्तो ऽस्मि नवयौवनम् ।
अयं जराम् अहम् इतश् चिराद् अयम् अहं मृतः ॥
इत्याद्य् अनुभवञ् जीवो निजविभ्रमजर्जरः ।
उह्यते वासनावात्यापरावर्तैḫ पुनḫ पुनः ॥
वासनाबिलकल्लोलैर् विविधावर्तवृत्तिभिः ।
जीवतृण्यास् स्फुरन्तीमास् संसारैकमहार्णवे ॥
जीवẖ क्वचित् सुषुप्तस्थẖ क्वचित् स्थावरताजडः ।
क्वचिद् व्याधिपरिम्लानẖ क्वचिद् आधिभिर् आतुरः ॥
सुखी दुẖखी भवो ऽभावो नरो नागो ऽमरो ऽसुरः ।
बकẖ काकश् शुकश् शङ्खस् तित्तिरिर् हरिणो वृषः ॥
भवत्य् अभव्यताम् एत्य दुẖखाद् दुẖखं भयाद् भयम् ।
पतन्न् आपातरम्येषु रमते भोगभस्मसु ॥
अशरीरो निराकारस् सङ्कल्पात्माम्बरास्पदः ।
पिशाचो ऽस्मीति संवित्त्या क्वचिद् धत्ते पिशाचताम् ॥
यद् यत् सर्गे यथा रूढं तत् तथा तु निषेवते ।
जीवं सर्वात्मकं तज्ज्ञम् अतज्ज्ञम् अपि वानघ ॥
यक्षरक्षḫपिशाचादिभावनाभ्रमभेदतः ।
जन्मनाम् अत्र सङ्ख्यां न कर्तुं मम समार्थता ॥
पदार्थभावनामात्राद् अतिदुẖखपरम्पराः ।
अहन्तात्मन उद्यन्ति सत्यासत्यघनभ्रमाः ॥
एवं ख एव जायन्ते खरूपास् संसृतिभ्रमाः ।
न देशकालावरणं कुर्वन्त्य् एते मनाग् अपि ॥
अनारतं सर्गपरम्पराणाम् अरूपिणीनाम् अथ रूपिणीनाम् ।
जलद्रवानुक्रमसंस्थितानां क्रान्तो ऽस्मि खे खात्मतयोदितानाम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0