भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.141

6.141.1

अभ्यासाज् ज्ञानशास्त्राणां करणात् पुण्यकर्मणाम् ।
जन्तोर् यथावद् एवेयं वस्तुदृष्टिḫ प्रसीदति ॥

6.141.2

तृतीयां भूमिकां प्राप्य बुद्धो ऽनुभवति स्वयम् ।
द्विप्रकारम् असंसङ्गं तस्य भेदम् इमं शृणु ॥

6.141.3

असंसङ्गस्य भगवन् प्रथमं ब्रूहि लक्षणम् ।
कथयिष्यसि मे पश्चाद् अस्यैव द्विप्रकारताम् ॥

6.141.4

द्विप्रकारत्वकथनप्रसङ्गेनैव लक्षणम् ।
असंसक्तेश् शृणुतरां दुरितं येन नश्यति ॥

6.141.5

द्विविधो ऽयम् असंसङ्गस् सामान्यश् श्रेष्ठ एव च ।
शृणु सामान्यम् एवादौ स एव श्रैष्ठ्यम् एष्यति ॥

6.141.6

नाहं कर्तेश्वरẖ कर्ता न कश्चिद् वाथ को ऽपि वा ।
इत्य् अमज्जनम् अर्थेषु सामान्यासङ्गनामकम् ॥

6.141.7

सम्पद्यत इदं किञ्चित् कयाप्य् एवेश्वरेच्छया ।
भावनाभावनम् इति सामान्यासङ्गनामकम् ॥

6.141.8

अजो ऽहम् अव्ययात्माहम् अनन्तो ऽहम् अनामयः ।
अकर्तास्मीत्य् अनिच्छत्वं सामान्यासङ्गनामकम् ॥

6.141.9

एवम् एव प्रवर्तन्ते प्रेमाणि च धनानि च ।
एवम् एवावहीयन्ते कस्य केवात्र कर्तृता ॥

6.141.10

आपातरमणीयानि विमर्दविरसानि च ।
काकतालीययोगेन सुखान्य् आयान्ति यान्ति च ॥

6.141.11

भोगा विषमसम्भोगा भोगा इव फणावताम् ।
नाहम् एतेषु नैते मे जागर्म्य् आत्मनि शान्तधीः ॥

6.141.12

भोगा भवमहारोगास् सम्पदḫ परमापदः ।
वियोगा एव संयोगा आधयो व्याधयो धियः ॥

6.141.13

कालẖ कवलनोद्युक्तस् सर्वभावान् असन्मयान् ।
अप्य् अत्ति विप्रलम्भेन स्वात्मानम् अपि मोहयन् ॥

6.141.14

अप्य् असत्यानि सन्तीव नान्तवन्त्य् अन्तवन्ति च ।
चिद्रत्नरश्मिजालानि जगन्त्य् अगणितान्य् अहो ॥

6.141.15

विचारेण न लभ्यन्ते न सन्त्य् अग्रगतान्य् अलम् ।
जाग्रति स्वप्नदृष्टानि पुराणीव स्थितान्य् अपि ॥

6.141.16

सवातवनवल्लीनां छाया इव पुनḫ पुनः ।
अनारतविलोलानि भवन्ति न भवन्ति च ॥

6.141.17

अनास्थयेति भावानां यद् अभावनम् आन्तरम् ।
नाहं कर्ता न भोक्तेति सामान्यो ऽसाव् असङ्गमः ॥

6.141.18

न कर्तास्मि न भोक्तास्मि न वक्तास्मि न यामि च ।
प्रसृतेहेश्वरेच्छेत्थं सामान्यैवम् असङ्गतिः ॥

6.141.19

ईश्वरार्पणया यद् यत् क्रियते मुक्तवासनम् ।
सामान्यासक्तितानाम तद् आहुḫ परमं पदम् ॥

6.141.20

असंसङ्गो ऽयम् उक्तस् ते सामान्यो रघुनन्दन ।
इमं श्रेष्ठम् असंसङ्गं शृणु श्रुतिरसायनम् ॥

6.141.21

अनेन क्रमयोगेन संयोगेन महात्मनाम् ।
नियोगेन सताम् अन्तḫ प्रयोगेण स्वसंविदाम् ॥

6.141.22

पौरुषेण प्रयत्नेन तावद् अभ्यास उह्यते ।
करामलकवद् यावत् सर्वसारो ऽनुभूयते ॥

6.141.23

या योदेति मनाग् इच्छा तस्यास् तस्या निपातनात् ।
पदम् आसाद्यते सारं कयाचिन् नान्यया धिया ॥

6.141.24

दृष्टे सकलसीमान्ते त्रिजगत्कणदीपके ।
संसारसरितḫ पारे सारे परमकारणे ॥

6.141.25

नाहं कर्तेश्वरẖ कर्ता नास्मि कर्ता न चेश्वरः ।
नायम् अस्मि न चान्यो ऽहम् अहम् अस्मीतरश् च वा ॥

6.141.26

कृत्वा दूरतरे नूनम् इति शब्दार्थभावनाः ।
यन् मौनम् आसितं शान्तं श्रेष्ठासंसङ्ग उच्यते ॥

6.141.27

यन् नान्तर् नाम्बरे नाधो नोर्ध्वे नाशासु नावनौ ।
न पदार्थे नापदार्थे न जडे न च चेतने ॥

6.141.28

आसितं भासनं शान्तम् अवासनम् अभावनम् ।
अनाद्यन्तम् अजं कान्तं तच् छ्रेष्ठासङ्ग उच्यते ॥

6.141.29

अचित्तचेतनानन्दं सर्वभावान्तरासनम् ।
यद् वसन्तादिरसवत् तच् छ्रेष्ठासङ्ग उच्यते ॥

6.141.30

अनिमज्जनम् अर्थेषु भावनाभावनं हृदि ।
अवेदनं सुखादीनाम् असंसङ्गं परं विदुः ॥

6.141.31

कर्मस्व् अर्थेषु चिन्तासु वासनास्व् आत्मतासु च ।
अवेदनम् अमग्नत्वं श्रेष्ठासंसङ्ग उच्यते ॥

6.141.32

अज्ञानपङ्कपीठायां ज्ञप्तिभूमौ स्वभावतः ।
काकतालीययोगाद् वाक्षयाद् वा सर्वकर्मणाम् ॥

6.141.33

संविज्जलविलासायां विशद्देहमृणालकः ।
जातो हृदयसद्वाप्यां चिन्ताशफरिकान्वितः ॥

6.141.34

सन्तोषामोदमधुरस् सत्कार्यामलपल्लवः ।
चित्तनालाग्रसंलीनो ऽविघ्नकण्टकसङ्कटः ॥

6.141.35

विवेकपद्मो रूढो ऽन्तर् विचारार्कविकासितः ।
फलं फलत्य् असंसङ्गं तृतीयां भूमिकां गतः ॥

6.141.36

असंसक्तमना मौनी मुनिर् मदबहिष्कृतः ।
भवत्य् अविद्यमानाभस् तृतीयां भूमिकाम् इतः ॥

6.141.37

समवायाद् विशुद्धानां समत्वाद् धर्मकर्मणाम् ।
काकतालीययोगेन प्रथमोदेति भूमिका ॥

6.141.38

भूमिḫ प्रोदितमात्रान्तर् अमृताङ्कुरिकैव सा ।
विवेकेनाम्बुसेकेन रक्ष्या पाल्याति धीमता ॥

6.141.39

येनांशेनोल्लसत्य् एषा विचारेणोदयं नयेत् ।
तम् एवानुदिनं यत्नात् कृषीवल इवाङ्कुरम् ॥

6.141.40

एषा हि परिमृष्टान्तर् अन्यासां प्रसवैकभूः ।
पत्त्राणाम् अङ्कुर इव तद्रूढो ऽन्यासु रोहति ॥

6.141.41

तृतीयेयम् असंसङ्गकारिणी भवतारिणी ।
अनयोदितयोदेति भानुभासेव पद्मिनी ॥

6.141.42

विजित्यावग्रहक्षोभदुर्देशप्रमुखान् अरीन् ।
सुसिक्तमूला लतिका ददात्य् अविकलं फलम् ॥

6.141.43

असंसक्तमतिर् मौनी मदमात्सर्यवर्जितः ।
वृष्टशारदमेघाभो भवेद् भव्यस् त्रिभूमिकः ॥

6.141.44

विदिताखिलवेद्यस्य शान्तसन्देहसन्ततेः ।
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥

6.141.45

तृतीयां भूमिकां प्राप्तस् सामान्यासङ्गवान् इह ।
विचरत्य् असमुन्नद्धḫ परम् आकलयन् पदम् ॥

6.141.46

श्रेष्ठासंसङ्गवान् एष तृतीये भूमिकापदे ।
भवति प्रोषिताशेषसङ्कल्पकलनास्पदे ॥

6.141.47

लगत्य् असंसक्तमतेर् न कर्मफलभावना ।
वारीव पद्मपत्त्रस्य रत्नस्येवोपरञ्जना ॥

6.141.48

नित्यासंसक्तया बुद्ध्या प्रकृतं बहिर् आचरन् ।
अन्तर् अक्षोभ एवास्ते हृदयेनापराजितः ॥

6.141.49

एनाम् असंसङ्गदशाम् अवाप्य पतत्य् अपीच्छन्न् इह संसृतिं नो ।
इच्छा च नोदेति न राम ते भो योदेति सा सत्त्वचमत्कृतिर् हि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc