मोक्षोपाय · अध्याय 6.140
सप्तानां योगभूमीनाम् अभ्यासẖ क्रियते कथम् ।
कीदृशानि च चिह्नानि भूमिकां प्रति योगिनः ॥
यतẖ कुतश्चित् सम्पन्नम् अविद्याव्याधिवेदनम् ।
सत्यं भवत्व् असत्यं वा चिकित्सां त्व् अस्य मे शृणु ॥
पराद् अनन्ताद् यद्य् एषा तत् तद् एवेयम् अक्षतम् ।
न जातेयं न चाविद्या बोधमात्राद् भवेद् अतः ॥
पक्षम् एतम् अनादृत्य स्वसङ्कल्पविलासिनः ।
सत्याम् अपीहाविद्यायां शृणु निर्नाशने क्रमम् ॥
जन्तुḫ प्रथमजातस् तु सुषुप्तावस्थचेतनः ।
भाविभावनदुẖखात्मा क्रिमिसंविद् भवत्य् अधीः ॥
भवेच् चेन् नवजातस्य न भावी भावनोदयः ।
सुखादिसंविदा सद्यस् तत् स एव परं पदम् ॥
एतावतैव सौषुप्ती स्थितिर् भिन्ना परात् पदात् ।
यद् भाविवासनौघासौ जडा चोपलधर्मिणी ॥
तुर्यावस्थासमा स्वस्था सद्रूपा शान्तवासना ।
जीवन्मुक्तेस् स्थितिर् अतो न सुषुप्तोपमा भवेत् ॥
अग्रस्थवस्तुसम्बोधसन्तताभ्यासयोगतः ।
बालस् सुषुप्तावस्थायाẖ क्रमान् निर्याति राघव ॥
किञ्चिज्जातधियो जन्तोर् देशभाषार्थवेदिनः ।
गृह्णामीदं त्यजामीदम् इति सञ्जायते स्थितिः ॥
एतावन्मात्रबुद्धिर् यस् स्ववृद्धजनगोचरः ।
भवेत् स्वकर्मशास्त्राणां विषयो ऽसाव् अलं विधेः ॥
कुलवृद्धप्रयुक्तेन स्वनिश्चयवतैव वा ।
भाव्यं पदपदार्थानां तेन तज्ज्ञेन वै ततः ॥
जन्तुḫ पदपदार्थज्ञो हेयं त्यजति तज्ज्ञधीः ।
उपादेयम् उपादत्ते नालोकयति मध्यमम् ॥
विवेकाद् वृद्धभीत्या वा शास्त्रार्थव्यवहारिणः ।
विचारपूर्वं यस्येहा स पुमान् इति कथ्यते ॥
प्रवृत्तश् च निवृत्तश् च भवति द्विविधḫ पुमान् ।
स्वर्गापवर्गोन्मुखयोश् शृणु लक्षणम् एतयोः ॥
किम् एतन् नाम निर्वाणं वरं संसृतिर् एव नः ।
इति कर्तव्यकर्ता यस् स प्रवृत्त इति स्मृतः ॥
चलार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमा ।
अनेकजन्मान्तरतो भाविनी तस्य मोक्षधीः ॥
असारा बत संसारव्यवस्थालं ममैतया ।
किं कर्मभिḫ पर्युषितैर् दिनं तैर् एव नीयते ॥
क्षयातिशयनिर्मुक्तं किं स्याद् विश्रमणं परम् ।
इति निश्चयवान् यो ऽन्तस् स निवृत्त इति स्मृतः ॥
स वर्तमान एवेह जन्मनि त्व् अविवेकिनि ।
स योगभूमिष्व् एतासु विषयो विशदाशयः ॥
कथं विरागवान् भूत्वा संसाराब्धिं तराम्य् अहम् ।
एवंविचारणपरो यदा भवति सन्मतिः ॥
साधुसङ्गमम् आदत्ते सच्छास्त्रम् अपि वीक्षते ।
विरागम् उपयात्य् अन्तर् भावनास्व् अनुवासरम् ॥
क्रियासूदाररूपासु रमते मानम् ईहते ।
ग्राम्यासु जडचेष्टासु चलासु विचिकित्सते ॥
नोदाहरति मर्माणि पुण्यशर्माणि चेष्टते ।
अनन्योद्वेगकारीणि मृदुकर्माणि सेवते ॥
स्नेहप्रणयगर्भाणि पेशलान्य् उचितानि च ।
देशकालोपपन्नानि वचनान्य् अभिभाषते ॥
तदासौ प्रथमाम् एकां प्राप्तो भवति भूमिकाम् ।
वक्ष्यमाणस्वभावो ऽथ तत्र रूढिम् उपेष्यति ॥
देवायतनदेशेषु ब्राह्मणावसथेषु च ।
वनेषु रमते नित्यं प्रथमां भूमिकाम् इतः ॥
शास्त्रसज्जनसम्पर्कैḫ प्रज्ञां वर्धयति स्वयम् ।
शुक्लपक्षẖ कलाम् इन्दोर् इव सौन्दर्यशालिनीम् ॥
सर्वास्तिवादनिरतḫ पेशलḫ प्रणयान्वितः ।
मनसा कर्मणा वाचा सज्जनान् उपसेवते ॥
कदर्थलब्धांल् लभ्यांश् च तज्ज्ञान् अनुसरंश् चिरम् ।
यतẖ कुतश्चिद् आनीय नित्यं शास्त्राण्य् अवेक्षते ॥
व्यालापध्वंसनशिखी धर्माब्देशोच्चकन्धरः ।
स्नानदानतपोध्यानविभवान् अभिवाञ्छति ॥
प्रथमाम् इत्य् उपारुह्य द्वितीयाम् आश्रयेद् बलात् ।
पुरुषार्थाद् ऋते नान्या सङ्कटोत्तरणे गतिः ॥
एवं विचारवान् यस् स्यात् संसारोत्तरणं प्रति ।
स भूमिकावान् इत्य् उक्तश् शेषस् त्व् आर्य इति स्मृतः ॥
आर्यतातुल्यतां याता प्रथमैकैव भूमिका ।
भूमिकानां तु शेषाणाम् आर्यता दास्यम् अर्हति ॥
विचारनाम्नीम् इतराम् आगतो योगभूमिकाम् ।
उदारमतिर् आदत्ते स्वभावं महताम् इति ॥
श्रुतिस्मृतिसमाचारधारणाध्यानकर्मणाम् ।
मुख्यया व्याख्यया ख्यातं श्रयति श्रेष्ठपण्डितम् ॥
इच्छाकुतुकबन्धेषु जयतीन्द्रियशत्रुषु ।
आदेहं प्रहरत्स्व् अन्तर् वीरेष्व् इव सुदारुणः ॥
किम् अपूर्वां झगित्य् एनां संश्रयाम्य् अनुरागिणीम् ।
इति ह्रीमान् इव ह्रियं दयां चैष न मुञ्चति ॥
पदार्थप्रविभागज्ञẖ कार्याकार्यविनिश्चयम् ।
जानात्य् अधिगतश्रव्यो गृहं गृहपतिर् यथा ॥
मदाभिमानमात्सर्यलोभमोहातिशायिताम् ।
बहिर् अप्य् आस्थिताम् ईषत् त्यजत्य् अहिर् इव त्वचम् ॥
चन्दनागुरुगन्धीनि वनितालिङ्गनान्य् अपि ।
अप्रार्थितोपयातानि सेवते स्वान्य् अनादरम् ॥
मातृवत् परदाराणि परद्रव्याणि लोष्टवत् ।
स्वात्मवत् सर्वभूतानि कारुण्येनाभिपश्यति ॥
यत् करोति यद् अश्नाति स्पन्दते यद् यद् ईहते ।
तद् आदौ बुद्धिभेदेन चिरं चारु परीक्षते ॥
अविचारात्मकं नैति न गच्छति न वक्ति च ।
न ददाति न चादत्ते न चिनोति न चोपति ॥
व्यवहारानुवृत्त्यर्थम् अविरुद्धं क्षणक्षयि ।
हर्षामर्षांशम् आदत्ते गन्तेवालातकं निशि ॥
दुर्देशं दुरधिष्ठानं दुस्सङ्गं दुरुपाश्रयम् ।
आलोक्यम् अपि देहादि लिप्तं तृणम् इवोज्झति ॥
यद् उदर्कहितं लोक्यं यद् अनाधि गतभ्रमम् ।
तद् एव हरिणो वातम् इव मौनी विधावति ॥
हारिहासविलासासु हावभाववतीषु च ।
वीक्षते भाविनाशासु स्त्रीषु शुष्कलतास्व् इव ॥
इत्थम्भूतमतिश् शास्त्रं गुरुसज्जनसेवनात् ।
सरहस्यम् अशेषेण यथावद् अधिगच्छति ॥
असंसङ्गात्मिकाम् अन्यां तृतीयां योगभूमिकाम् ।
ततḫ पतत्य् असौ कान्तḫ पुष्पशय्याम् इवामलाम् ॥
दुर्व्याख्याम् अधिकव्याख्याम् ऊनव्याख्यां विहाय धीः ।
यथावच् छास्त्रवाक्यार्थम् आदत्ते ऽस्यात्र पावनी ॥
फलत्य् अत्रास्य शास्त्रार्थẖ कुर्वन्न् अन्तर् असङ्गताम् ।
शिक्षितस् सूपकारस्य सम्यक् सूपो रसेष्व् इव ॥
तापसाश्रमविश्रामैḫ पावनाध्यात्मसङ्कथैः ।
शिलाशय्यासनासीनो जरयत्य् आयुर् आततम् ॥
वनावनिविहारेण चित्तोपशमशोभिना ।
असङ्गसुखसोम्येन कालं नयति नीतिमान् ॥
न तथा रमयन्त्य् एनं ज्योत्स्नाप्रसरहासिनः ।
निवासाẖ कुसुमाकीर्णा यथा गिरिगुहालयाः ॥
देवद्विजगुरुप्राज्ञपण्डितार्चनभोजनैः ।
अपराह्णं क्षपयति पूर्वाह्णं श्रुतसज्जनैः ॥
अन्तरान्तरसम्पन्नधर्म्यार्थोपार्जनक्रमः ।
सन्तोषामृततृप्तात्मा साध्वाचारेण राजते ॥
सरसीष्व् अच्छतोयासु फुल्लासु नलिनीषु च ।
सरित्सु बहुपुण्यासु वापीषु च निमज्जति ॥
आसन्नचन्द्रकरकीर्णसुधारसासु पुष्पोपकारसमसोम्यजलस्थलासु ।
गुञ्जद्गुहासु रतम् एनम् अधित्यकासु वन्याḫ फलैर् उपचरन्ति महानुभावम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0