मोक्षोपाय · अध्याय 6.139
यत्रैकद्वित्वकलनास् सम्भवन्ति हि काश्चन ।
तत्रैकान्तसमाधाने भङ्गो भवति राघव ॥
एकम् एव तु यत्रास्ति सत्तासामान्यमात्रकम् ।
तत्र किं कस्य केनैव समाधानं विनश्यति ॥
चिनोमि न चिनोमीति त्यक्त्वा शब्दार्थविभ्रमम् ।
चिद्रूप एवाचिद्रूपो मौनवांस् तिष्ठ काष्ठवत् ॥
स्थितिर् वायोर् अवहतḫ पयसो ऽद्रेश् च खस्य वा ।
अवासनान्तस् सा ते ऽस्तु कुर्वतो ऽकुर्वतश् चितः ॥
अहम्भावो विलीनो यस् तापस्थहिमलेशवत् ।
चेत्यस्याचयनाद् अन्तस् सम्पन्नḫ परमं पदम् ॥
अणीयसाम् अणीयांसं स्थविष्ठं च स्थवीयसाम् ।
शान्तं चित्त्वम् असंवेद्यम् अनन्यद् इदम् आततम् ॥
अयं प्रत्येकम् उदितḫ पृथक् संसृतिषण्डकः ।
ससुरासुरपाताललोकान्तरधराम्बरः ॥
ज्ञस् सर्वेतरसङ्कल्पसर्गान् पश्यत्य् अखण्डितान् ।
आस्वादितेक्षुस् सर्वेक्षुरसान् सानुभवान् इव ॥
सङ्कल्पसर्गपुरुषास् सत्यास् सर्वे परस्परम् ।
चिद्व्योम्नो ऽच्छिन्नरूपत्वात् तत्तानुभवतस् स्वतः ॥
स्पन्दविच्छित्तयस् सर्वा द्रवभावाद् यथाम्भसः ।
संविद्विच्छित्तयस् सर्वाश् चितिरूपात् तथात्मनः ॥
ऐक्यम् ऐक्यात्मतापूर्वं रत्नयुग्मत्विषो यथा ।
यान्ति वित्त्वेन सङ्कल्पसर्गा भिन्नास् तथैकताम् ॥
यद् यद् आलोक्यते तोये तत् तत् सर्वं यथा द्रवः ।
यद् यद् आमृश्यते शान्ते तत् तत् सर्वं चितिस् तथा ॥
चिदीहनं विदुस् चित्तं निर्वाणं चिदनीहनम् ।
न चिदालिहनीयो ऽतḫ पदार्थो ऽविदितात्मनः ॥
चित्तसत्ता परं दुẖखं चित्तासत्ता परं सुखम् ।
अतश् चित्तं विदीहात्म नेयं शमम् अवेदनात् ॥
दृष्ट्वा रम्यम् अरम्यं वा स्थेयं पाषाणवत् समम् ।
एतावतात्मयत्नेन जिता भवति संसृतिः ॥
स्वेनैव पुरुषार्थेन पदार्थामज्जनात्मना ।
तीर्यते गोष्पदम् इव न तु दैवाद् भवार्णवः ॥
वस्तुप्राप्तौ चिदीहायाम् उदिते चित्तराक्षसे ।
सङ्ख्यातुं केन शक्यन्ते शून्यास् संसृतिविभ्रमाः ॥
अतश् चितम् अधावन्तीं धारयन्न् अविदन्न् इव ।
काष्ठलोष्टसमस् तिष्ठ कार्यं कुर्वन् यथागतम् ॥
संवेदनीयं न सुखं नासुखं नैव मध्यमम् ।
एतावता तु यत्नेन दुẖखान्तो ऽनन्त आप्यते ॥
वस्त्वसन्मृगतृष्णाम्बु जीवो वस्तुतया लिहन् ।
चित्तयक्षोदये भीमाम् इमां प्राप्नोति संसृतिम् ॥
सबाह्याभ्यन्तरं पश्यंश् चिता चैत्तं दृषद्दृढः ।
भूमिकाक्रमयोगेन मुक्तो भव भवार्णवात् ॥
आपीनमण्डलशशाङ्कवद् अन्तर् एव श्रीमद्रसायनमयस् सुखम् एति तज्ज्ञः ।
विज्ञातसर्वभुवनत्रयवस्तुसारẖ कुर्वन् न नाम कुरुते परम् अभ्युपेतः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0