भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.137

6.137.1

एवं वासिष्ठम् आकर्ण्य वचो विकसिताशयः ।
उच्छ्वसन्न् इव चित्तेन रामो वचनम् अब्रवीत् ॥

6.137.2

अहो नु भारो भरवांश् चेतसा प्रोज्झितश् चिरात् ।
अयं सो ऽहम् इदं मे ऽद्य चेत्यादिस् त्वग् इवाहिना ॥

6.137.3

स्वच्छताम् उपयाते ऽयम् अन्तẖकरणसंस्थितिः ।
शोभते शरदीव द्यौश् शान्तवारिदविप्लवा ॥

6.137.4

अयं सो ऽहम् इदं मे ऽद्य इति भारं महाभरम् ।
अपि मेरोर् गुरुतरं धारयन् को न सीदति ॥

6.137.5

शाम्यामि परिनिर्वामि जागर्म्य् आश्वासवान् अहम् ।
अध्वगस्येव मे स्कन्धाद् गृहीता महती शिला ॥

6.137.6

एतावन्तम् अहं कालम् अहो नु खलु वञ्चितः ।
यद् इमां पदवीं शान्तां शीतलाच्छां न लब्धवान् ॥

6.137.7

तद् इमं संशयं शेषम् एकं मे छेत्तुम् अर्हसि ।
भगवन् सर्वधर्मज्ञ प्रोद्विजन्ते हि नोत्तमाः ॥

6.137.8

परमात्ममयं सर्वं यदि नाम सदैव हि ।
इदं कार्यम् इदं नेति तत् किमर्थं कृतẖ क्रमः ॥

6.137.9

यथोत्पन्ना न वोत्पन्ना जीवाḫ परमकारणात् ।
द्वैतवन्तो ऽथ वाद्वैतास् तत् तावज् ज्ञातवान् भवान् ॥

6.137.10

तत्र तावत् स्वसङ्कल्पाद् येषां द्वैतम् अलं स्थितम् ।
तैस् तावत् संसृतौ किञ्चित् संसर्तव्यम् असंशयम् ॥

6.137.11

तत्र केचिद् बाल्य एव स्वचमत्कारयोगतः ।
विदन्ति परमात्मानं तिष्ठन्ति विगतज्वरम् ॥

6.137.12

अनीश्वरास् सेश्वराश् च ये जीवा देहतां गताः ।
गृहीतद्वैतविस्ताराẖ कालेनायान्ति ते पदम् ॥

6.137.13

भवत्य् एवातिविश्रान्तिर् नास्ति कस्यास्ति कस्य च ।
सुचिरात् केवलं कश्चिद् अचिराद् वेत्ति कश्चन ॥

6.137.14

केचिद् विदितवेद्यत्वं यान्ति राघव यौवने ।
जरावन्तḫ परं वस्तु विदन्तीहापरे जनाः ॥

6.137.15

एवं तज्ज्ञास् तथाज्ञाश् च तिष्ठन्त्य् एव यथास्थितम् ।
अस्यां व्यवहृतौ जीवन्मुक्ता बद्धाश् च मानवाः ॥

6.137.16

इदं कार्यम् इदं नेति तेषां यदि जगत्स्थितिः ।
नोन्नीयते तत् क्षयकृन् मात्स्यो न्यायḫ प्रवर्तते ॥

6.137.17

यावत् किञ्चित् प्रस्फुरति सर्गस् तावत् कदर्थनाम् ।
मा यातु मात्स्यन्यायेन किलेति विहिता स्थितिः ॥

6.137.18

निष्पुण्यपापं निश्चित्तं निर्ममो ऽमननक्रियम् ।
कालातिवाहनायैव जीवन्मुक्तो ऽवतिष्ठते ॥

6.137.19

मायाग्रस्तमतिस् त्व् आत्मवासनावशतḫ फलम् ।
प्राप्नोतीहामुत्र चैव तदर्थं यतते च सः ॥

6.137.20

एतावत् तावद् आबालपण्डितामरमानवम् ।
अविसंवादि यद् यादृक् चित्तं तन्मयतात्मनः ॥

6.137.21

स्वसङ्कल्पैकबीजाय नरकस्वर्गशाखिने ।
फलायाज्ञस्य कर्तृत्वम् अकर्तृत्वं च राघव ॥

6.137.22

यत् तु तज्ज्ञस्य कर्तृत्वम् अकर्तृत्वं च वा क्वचित् ।
तत् प्रमेयदशाम् एति न कदाचन कस्यचित् ॥

6.137.23

कर्ता भवत्व् अकर्ता वा मुक्त एवाङ्ग तत्त्ववित् ।
भूयो मज्जति नाज्ञाने पयḫफेन इवाम्भसि ॥

6.137.24

कर्ता भवत्व् अकर्ता वा बद्ध एवायथार्थवित् ।
अरण्यकूपाच् छ्वेवास्मान् मोहान् नोत्तरति क्वचित् ॥

6.137.25

निर्देहो निर्मना मौनी शान्तस् स्वस्थो निरेषणः ।
कुर्वन्न् एव च कर्माणि तिष्ठोत्तिष्ठस्व तत्पदे ॥

6.137.26

जीवो ब्रह्मार्णवे वीचिर् जीवाम्भोधाव् अहङ्कृतिः ।
अहङ्काराम्बुधौ बुद्धिर् बुद्ध्यब्धौ चित्तम् आबिलम् ॥

6.137.27

चित्ताब्धौ वासना वीचिर् वासनाब्धौ तु संसृतिः ।
संसाराब्धौ शरीरं च शरीराब्धौ च जीवितम् ॥

6.137.28

जीविताब्धौ च युवता चञ्चले यौवनार्णवे ।
वीचिर् इन्द्रियसङ्घातस् स्पन्दस् त्व् इन्द्रियवारिधौ ॥

6.137.29

स्पन्दाम्भोधाव् अनुभवस् स्वानुभूत्याम्बुधौ ततः ।
तरङ्गश् चित्समुल्लास इतीदं सर्गवेदनम् ॥

6.137.30

शब्दसंस्पर्शरूपादि येनेदम् अवबुध्यते ।
तच् चिन्मात्रं जगत् सर्वं तत्सारत्वाद् रघूद्वह ॥

6.137.31

अक्षुब्धो ऽव्यपदेश्यो ऽसाव् असर्गकरणोन्मुखः ।
उन्नीयते चिदम्भोधिस् सद्भिर् ब्रह्मेति केवलम् ॥

6.137.32

अक्षुब्धम् अपि तत् क्षुब्धम् इव चेत् कृतवेदनम् ।
तच् चिदंशम् उपारुह्य ब्रह्म सर्ग इति स्थितम् ॥

6.137.33

अक्षुब्धो ऽसाव् अवाच्यो हि समश् चितिमहार्णवः ।
वक्तुं न केनचिन् नाम्ना कलया वापि शक्यते ॥

6.137.34

न च तस्य महाबाहो क्षोभस् सम्भवति क्वचित् ।
पृथक् तन्मात्ररूपत्वात् सर्वस्य जगतो गतेः ॥

6.137.35

स्वरूपे तस्य देवस्य केवलं या विलासिता ।
सैषोक्ता क्षोभशब्देन चिच्छब्देन च वानघ ॥

6.137.36

परमार्थमहाम्भोधौ चिच् चेत्यलवरूपिणी ।
ऊर्मिवत् स्फुरति स्पन्दात् तेनेदं जायते जगत् ॥

6.137.37

अक्षुब्धो ऽसाव् अनिर्देश्यस् समश् चिन्मात्रसागरः ।
क्षुब्धश् चेत्यतरङ्गस् तु चिद् इत्य् आकलितो बुधैः ॥

6.137.38

चिदब्धौ लहरी चेत्यं सा च तस्मान् न भिद्यते ।
तावन्मात्रैकसारत्वाद् वारि वीचिर् इवाम्भसः ॥

6.137.39

तस्माद् भूतानि जातानि तावन्मात्राणि तानि च ।
तद् एवातद् इवाभाति सकलं चाकलं च तत् ॥

6.137.40

एकम् एव नकिञ्चिद् यत् किञ्चिद् वा तद् इदं जगत् ।
नानानानातया चेतो मा मिथ्याकुलतां नय ॥

6.137.41

एकस्य वाम्भसो वीचिरूपेण स्फुरतो यथा ।
नान्यतास्ति तथा भूतभावेन स्फुरणाच् चितः ॥

6.137.42

बीजम् एव यथा स्तम्भḫ पत्त्रं पुष्पं फलं रसः ।
परिणामादिरहितं भवत्य् एवं जगन्त्य् अजः ॥

6.137.43

फलान्ता बीजसत्तैव स्फुरत्य् अन्यतयेव सा ।
अद्वैतैक्यजगद्रूपा ब्रह्मसत्तैव जृम्भते ॥

6.137.44

बीजं सत्तैकसामान्येनाफलान्तं यथा स्थितम् ।
ब्रह्म सत्तैकसामान्येनासर्गान्तं तथा स्थितम् ॥

6.137.45

ब्रह्मैकसत्तासामान्यमात्रम् एवेदम् आततम् ।
सत्यम् एकं जगद् इति व्याहृतं तरुवृक्षवत् ॥

6.137.46

य एवाच्छश् चितस् स्पन्दस् स एवेत्थं जगद्भ्रमः ।
यश् चास्पन्दस् स एवाङ्ग परमोपशमश् शिवः ॥

6.137.47

अहो महत्ता स्वच्छायाश् चितो यस्या जगन्त्य् अपि ।
स्पन्दमात्रात् समुद्यन्ति लीयन्ते ऽस्पन्दमात्रतः ॥

6.137.48

यस्योन्मेषनिमेषाभ्यां भावानां प्रलयोदयौ ।
नानानानाभम् इव यत् तद् इदं ब्रह्म चिद्घनः ॥

6.137.49

चिद् वातवद् अभिन्नात्मा स्पन्दाद् आत्मगताद् यथा ।
तथैव जगद् एतस्मात् तस्मात् तत्स्थं तद् एव च ॥

6.137.50

अतश् शुद्धम् अनाभासं सर्वं चिद्घनम् अक्षये ।
दृश्यमाने ऽपि नैव स्तस् त्वत्तामत्ते भवाभयः ॥

6.137.51

नैक्यं न च द्वैतम् इहास्ति किञ्चिन् न त्वत्त्वमत्त्वादि सद् अप्य् असद् वा ।
सर्वं च सर्वत्र सदैव चास्ति यद् बुद्धवान् एवम् अपीह तत् तत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc