मोक्षोपाय · अध्याय 6.138
मदुक्तम् एतद् आकर्ण्य निर्णीय शुभम् इत्य् अलम् ।
हृदये चाखिलं कृत्वा तिष्ठेत्थं शृणु राघव ॥
सर्वम् एव परित्यज्य काष्ठमौनी भवानघ ।
निर्वासनो निर्मननẖ क्षीणचित्तḫ प्रशान्तधीः ॥
अपश्यन्न् अप्य् अग्रगतान् अशृण्वन् पटहान् अपि ।
अस्पृशन्न् अम्बरम् अपि न जिघ्रञ् श्वसनाद्य् अपि ॥
प्रभुञ्जानो ऽप्य् अभुञ्जानो व्योमवद् विमलान्तरः ।
संविदैवेदृशस् तिष्ठ निष्ठाम् आध्यात्मिकीं गतः ॥
आत्मन्य् एवास्स्व शान्तात्मा मूकान्धबधिरोपमः ।
पुस्ताच् छैलाद् इव कृतश् चित्रभित्ताव् इवार्पितः ॥
इति बुद्धीन्द्रियैर् एव स्थित्वा मेरुर् इव स्थिरः ।
अपुनर्भवनायैषि समाधानमहाशयः ॥
कुरु कर्मेन्द्रियैẖ कार्यं यन्त्रवत् स्पन्दचञ्चलैः ।
अर्धसुप्तप्रबुद्धाभैस् स्वकर्माभ्यासचञ्चलैः ॥
अफलेच्छानुसन्धानैर् बालैर् उन्मत्तकैर् इव ।
अवासनैर् अमननैश् चलैर् वृक्षदलैर् इव ॥
नित्यम् अन्तर्मुखो भूत्वा स्वात्मारामḫ प्रपूर्णधीः ।
जाग्रत्य् एव सुषुप्तस्थẖ कुरु कर्माण्य् अनिद्रवत् ॥
यथा मौनी यन्त्रपुमान् करोत्य् एवं कुरु क्रियाम् ।
वातस्वभावात् स्पन्दीनि चलन्त्व् अङ्गानि किं तव ॥
अन्तस् सर्वपरित्यागी बहिẖ कुर्वन्न् अपि स्थिरम् ।
न कर्तासि न भोक्तासि न चायम् असि नेतरः ॥
यस्य नाहङ्कृतो भावश् चेतो यस्य न लिप्यते ।
जगन् निघ्नन् प्रकुर्वन् वा न हन्ति न करोति सः ॥
यस्य सर्वे समारम्भाẖ कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं मुक्तम् आहुस् तम् उत्तमाः ॥
एवं समाधानमयो महात्मन् भूयो न चिन्ताम् उपयाति कश्चित् ।
महासमाधानम् अनन्तम् एतद् आश्रित्य तिष्ठामृतताम् उपैषि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0