भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.136

6.136.1

निरिच्छेनाच्छशान्तेन चिदादित्येन चेत्यते ।
सर्गादिषु स्वतश् चेत्यं दृष्ट्या मुक्तावलीव खे ॥

6.136.2

अनन्तरं तद् एवेदं शतशाखं विजृम्भते ।
भ्रमे कारणताम् एत्य जगज्जालतयेद्धया ॥

6.136.3

यथा स्वभावाद् इतरत् कारणं नोपपद्यते ।
शून्यदृङ्मौक्तिकालोके तथा चिच् चेत्यवेदने ॥

6.136.4

चिच्चेत्ययोर् न भेदो ऽस्ति यच् चिच् चेत्यं तद् एव हि ।
यैव दृक् सैव मुक्ताली बीजम् एवाङ्कुरस् स्मृतः ॥

6.136.5

बीजम् एव फलं विद्धि त्यक्ताशेषविशेषणम् ।
विशेषकल्पनाद् अस्य न सङ्कल्पस्य सत्यता ॥

6.136.6

सत्यता यदि सङ्कल्पे तस्मात् तज्जा तद् एव वा ।
स च सङ्कल्प एतस्माद् आद्याद् एवोदितश् शिवात् ॥

6.136.7

तस्माद् यद् एव परमं पदं चिन्मात्रम् अव्ययम् ।
तद् एव सविकल्पा चिच् चेत्यम् आद्यं तद् एव च ॥

6.136.8

तद् एव जीवकलनं तद् एवाहङ्कृतिस् स्फुरत् ।
तद् एव बुद्धिस् तच् चित्तं तत् स्पन्दश् चेन्द्रियाणि तत् ॥

6.136.9

तद् देहस् तज् जगत् कृत्स्नं तद् दिशस् तच् च रोदसी ।
तद् अद्र्युर्वीनदीशादि तृणान्तं वाब्जजादि च ॥

6.136.10

जडो देहो जडो ऽक्षौघो जडं चित्तं जडा मतिः ।
जडैवाहङ्कला चेति तथा प्रस्पन्दनं जडम् ॥

6.136.11

एतेषां यो ऽनुभविता सो ऽसि सर्वगतो ऽसि च ।
तच् च निष्कलचिन्मात्रं मास्मात् स्वस्मात् पदाच् चल ॥

6.136.12

एवम् आद्यन्तरहितम् एकम् एवेदम् आततम् ।
इत्थम् आभासते भासा स्वया नान्यास्ति कल्पना ॥

6.136.13

सर्वं शान्तं स्वभासेदं भासते ज्ञप्तिमात्रकम् ।
त्वत्तामत्ताजगज्जन्ममरणादि न विद्यते ॥

6.136.14

भ्रान्तिं परित्यज समो भव निर्विकारो नित्योदितो निरवलम्बनम् अस्तभावः ।
शान्तं समस्तम् अविकारम् अनादिमध्यम् इत्य् एव सत्यम् अपरेण तवालम् अस्तु ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc