मोक्षोपाय · अध्याय 6.134
एष एवाङ्ग सिद्धान्तो यत् कालगगनाद्य् अपि ।
चिन्मात्रांशाद् ऋते नान्यज् जगदाद्य् अस्ति किञ्चन ॥
जनयत्य् अच्छम् आभासं भङ्गुरं स्फुरणात् स्वतः ।
जगद्रूपं निशाविद्युद् इव चित् कालखादि च ॥
यत्र स्फुरति चिद्विद्युत् तज् जगत् कालखादि च ।
स्थितैव यन् न स्फुरति तच् छान्तं सर्वम् अक्रमम् ॥
यावद् आलोक्यते ऽम्भोदस् तावत् सत्यैव खे तडित् ।
कारणं नात्र पृच्छामि चित्स्पन्दे कारणं वद ॥
वैतण्डिकाज्ञदुर्बुद्धिविलासं दूरतस् त्यजन् ।
शृण्व् एतद् ईदृशस्यैव वक्तव्यं नापलापिनः ॥
तिष्ठत्य् एव घने विद्युत् सा च स्फुरति भङ्गुरा ।
आबालम् एतत् संसिद्धं केन नामापलप्यते ॥
नित्यं सत्त्वम् असत्त्वं वा विभो हेत्वनपेक्षणात् ।
चित्स्पन्दस्य कथं न स्यात् स्पन्दो हीह सहेतुकः ॥
अवाताम्बुधिदीपादे रत्नानां कचनस्य वा ।
वायोर् वा शून्यसंस्थस्य स्पन्दे कस्येह हेतुता ॥
रामासर्वात्मनो ऽप्य् एवं तत्तातत्तोपपद्यते ।
स्वतस् सर्वात्मनो नित्यम् अतẖ किं नोपपद्यते ॥
चिद् अस्पन्दा स्पन्दिनीति शब्दे भेदो न वस्तुनि ।
ब्रह्मैकघनम् अद्वैतं विद्धि वारि यथा द्रवम् ॥
यथा मुक्तावलीहंसदर्शनं खे स्वभावजम् ।
दृष्टेर् एवं चिदच्छायास् संवित्स्पन्दाज् जगद्भ्रमः ॥
यथा निमीलिते नेत्रे स्वप्रभावेण दृक् चलम् ।
ताराकारं पश्यतीयं चिच् चेत्यं दृश्यवत् तथा ॥
सङ्कल्पकलनास् त्यक्त्वा सर्वा एवात्मतां गतः ।
पश्य चिद्घन एवाच्छẖ कल्पान्तैकाब्धिवत् स्थितः ॥
अस्मदादिर् जनस् साधो पारदृश्वा जगत्स्थितेः ।
तेनैवास्मद्वचो ग्राह्यम् ओम् इत्य् एवास्तसंशयम् ॥
चोद्यचञ्चुतया किञ्चिद् वदामीति त्यजन् धियम् ।
यदि तिष्ठसि मद्वाचि तदा यास्य् एव तत् पदम् ॥
नो चेत् तद् विविधानेकविकल्पकलनामलैः ।
शुद्धतार्किकताम् एत्य प्रयासि तृणगुल्मताम् ॥
एवं चेत् तद् इयं ब्रह्मंस् त्वत्तामत्तामयात्मिका ।
तत्त्वतस् त्रिजगन्नाम्नी मन्ये न कलनास्त्य् अलम् ॥
लवणैन्दवशुक्रादिवृत्तान्तवद् उपस्थितम् ।
भ्रान्तिमात्रं जगन् मन्ये सत्यं नास्तीह किञ्चन ॥
एवं स्थिते मुनिश्रेष्ठ सर्वापह्नव एव वै ।
कृतो भवति तद् ब्रूहि युज्यते कथम् ईदृशम् ॥
राम सम्यक्प्रबुद्धो ऽसि जानास्य् एव यथास्थितम् ।
शुद्धचिद्घन एवास्ति तं च त्वम् अवबुद्धवान् ॥
सिद्धान्तो ऽध्यात्मशास्त्राणां सर्वापह्नव एव च ।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदम् अक्रमम् ॥
शान्त एव चिदाभासे स्वच्छे समसमात्मनि ।
समग्रशक्तिकचिते ब्रह्मेति कलिताभिधे ॥
निर्णीय केचिच् छून्यत्वं केचिद् विज्ञानमात्रताम् ।
केचिद् ईश्वररूपत्वं विवदन्ते परस्परम् ॥
सङ्कल्प्य जगद् उच्छूनं नीत्वा च शतशाखताम् ।
चालयन्ति विचारेण केचित् साङ्ख्यमतादिकम् ॥
केचित् सर्वम् इदं शान्तं ब्रह्मेति घननिश्चयाः ।
शुद्धचिद्व्योमताम् एत्य सन्तो ऽसन्त इव स्थिताः ॥
न ब्रह्म न जगन् नान्यद् इति निश्चित्य केचन ।
आकाशविशदास् स्वच्छास् संस्थितास् सौगतादयः ॥
केचिद् अप्य् अन्यथा कृत्वा नानासङ्कल्पकल्पनम् ।
स्थिताश् शाम्यन्ति जायन्ते संसरन्ति च वा न वा ॥
समस्तकलनाहीनम् इति निर्णीय चिद्घनम् ।
समग्रशक्तिकचितं विवदन्ते हि वादिनः ॥
एकत्र वस्तुनि समस्तकलाविमुक्ते सङ्कल्प्य सङ्कलनया विविधाभिधास् स्वाः ।
स्वं वासनाविलसितं समुदाहरन्तो विद्याविवादविभवैर् विवदन्ति वैद्याः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0